सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/यामम्

विकिस्रोतः तः
यामम्.
यामम्
यामम्

१७
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥ ८२१ ॥ ऋ. ९.८६.१९
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ॥८२२ ॥
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ ८२३ ॥



१० यामम् ।। यमः । जगती । पवमानः सोमः ।
आऽ२इ । इया । वृषामताइनाऽ१म्पवताऽ२३इ । वाऽ३इचक्षणाः ।। सोमोअह्नांप्रतरीतोऽ२३ । षाऽ३सांदिवः ।। प्राणासिन्धूनाऽ१म्कलशꣳऽ२३ । आऽ३चिक्रदत् ।। इन्द्रस्यहार्दियाविशाऽ२३न् । मनाऽ३इषा-
ऽ५इ”भाऽ६५६इः ।।श्रीः।।। मनीषिभाइᳲपवतेपूऽ२३ । र्वीऽ३यᳲकविः ।। नृभिर्यताᳲपरिकोशꣳऽ२३ । आऽ३सिष्यदत् ।। त्रितस्यनामजनयाऽ२३न् । माऽ३धुक्षरन् ।। इन्द्रस्यवायुꣳ सखियाऽ२३ । यवाऽ३र्द्धाऽ५”याऽ६५६न् ।। श्रीः ।। अयंपुनानउषसोऽ२३ । आऽ३रोचयत् ।। अयꣳसिन्धूभ्योऽ१अभवाऽ२३त् । ऊऽ३लोककृत् ।। अयंत्रिस्साप्तदुदुहाऽ२३ । नाऽ३आशिरम् ।। आऽ२इ । इया । सोमोहृदाइपवतेचाऽ२३ । रुमाऽ३त्साऽ५राऽ६५६ः ।।

दी. २७. उत् न. मा. २९. यो ।।५०।।


[सम्पाद्यताम्]

टिप्पणी

यामानि त्रीणि (वृषामतीनां) (ग्रामगेयः)

वृषा मतीनां पवते विचक्षण इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्॥ तासु यामम् । यमम् इव वा एतद् अहर् यद् द्वितीयम्। यथा वै यमौ जायेयाताम् एवम् एतद् अहः। यमैर् वै यमोत्गमोरवं लोकान् निरुंह्य लोकम् अस्याभ्यारोहत्। लोकाद् एव द्विषन्तं भ्रातृव्यं रुंह्य लोकम् अस्याभ्यारोहति य एवं वेद। मन्त्रेणर्षयो निदानवन्तो यामेन यमः। निदानवन्तो ऽसामेति सत्रम् आसते। निदानवन्त एव भवन्ति। तद् गृहा वै निदानं, प्रजा निदानं, पशवो निदानं, स्वर्गो लोको निदानम्। निदानवान् भवति य एवं वेद। यमं वैवस्वतं देवा अमुष्मै लोकायासुवत। सो ऽकामयत निदानवान् अस्मिन् लोके स्याम् इति। स एतानि यामानि सामान्य् अपश्यत्। तैर् अस्तुत। तैर् अस्मिन् लोके निदानवान् अभवत्। एतन्निदानो ह वाव सो ऽस्मिन् लोक एतत्प्रजा एतैर् एव सामभिर् य एवैतानि सामानि वेद। तेनास्मिन् लोके निदानवान् यमस्य पुत्रतां गच्छति य एवं वेद। तद् आहुः पितृदेवत्यानि सामानि। ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इत्य् आयुर् इति वा स्तोभत्य् अथो वायुर् इति। तथा ह पुरायुषो ऽमुं लोकं नैति। यद् उ यमो ऽपश्यत् तस्माद् यामम् इत्य् आख्यायते। - जैब्रा. ३.३३

प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इम आसत इति गृहमेधिन उपसमानीताः स्युस्तानुपदिशत्यृचो वेदः सोऽयमिति सूक्तं निगदेत् १ द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमानीताः स्युस्तानुपदिशति यजुर्वेदो वेदः सोऽयमित्यनुवाकं निगदेत् - आश्वलायन श्रौ.सू १०.७.२

पुरुषमेधः -- अथ पुरुषायोपस्तृणन्ति कौशं तार्प्यमारुणमांशवमिति २०। संज्ञप्तं यामेन साम्नोद्गातोपतिष्ठते - शांश्रौसू. १६.१२.२१

तार्प्येणाश्वँ संज्ञपयन्ति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनँ समर्धयन्ति । यामेन साम्ना प्रस्तोतानूपतिष्ठते । यमलोकमेवैनं गमयति । तार्प्ये च कृत्यधीवासे चाश्वँ संज्ञपयन्ति । एतद्वै पशूनाँ रूपम् । रूपेणैव पशूनवरुन्धे । हिरण्यकशिपु भवति । तेजसोऽवरुद्ध्यै - तैब्रा ३.९.२०.१