सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/महावैष्टम्भम्

विकिस्रोतः तः
महावैष्टम्भम्
महावैष्टम्भम्.
महावैष्टम्भम्

१२
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥ ८६४ ॥ ऋ. ८.३३.१
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ ८६५ ॥
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं ।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥ ८६६ ॥


१८. महावैष्टम्भम् ।। विष्टम्भः । बृहती । इन्द्रः ।
वयंघत्वोहाइ । सुतावन्तोवा ।। आपोनवृ । क्तबार्हा१इषा२३ः । होवा३हाइ । पवित्रस्यप्रस्रवणे । षुवार्त्राऽ१हा२३न् । होवाऽ३हाइ ।। पराइस्तोऽ१ताऽ२३ । होवा३हा ।। रआ । साऽ२ताऽ२३४औहोवा ।। श्रीः ।। स्वरन्तित्वोहाइ । सुतेनरोवा ।। वासोनिरे । कऊक्थाऽ१इनाऽ२३ः । होवा३हाइ । कदासुतन्तृषाणओ । कआगाऽ१माऽ२३ः । होवा३हाइ ।। इन्द्रास्वाऽ१ब्दीऽ२३ । होवा३हा।। वव । सा२गाऽ२३४औहोवा ।। श्रीः ।। कण्वेभिर्धोहा । ष्णवाधृषोवा ।। वाजंदर्षि । सहास्राऽ१इणाऽ२३म् । होवाऽ३हाइ । पिशङ्गरूपंमघवन् । विचार्षाऽ१णाऽ२३इ । होवाऽ३हाइ ।। मक्षूगोऽ१माऽ२३ । होवाऽ३हा ।। तमी । माऽ२हाऽ२३४औहोवा। दीऽ२३४शाः ।।
दी- २०. उत्. १६. मा २७.पे. ।।५८।।


[सम्पाद्यताम्]

टिप्पणी

सत्रात्मा व्यूढो द्वादशाहः(तृतीयमहः) -- वैरूपं होतुः पृष्ठम् । तस्य सर्वा बृहत्यः । अभ्राणि संप्लवन्त इति भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् । उपवाज्यमाना वा यजमानवाचनादनन्तरं वात आवात्विति तृचेन वातमनुमन्त्रयेत । वामदेव्यं मैत्रावरुणसाम । वयं घ त्वा सुतावन्त इति महावैष्टम्भं ब्रह्मसाम । तस्य सतोबृहती छन्दः । वैष्टम्भसामोपधावामि । वयं घत्वर्चमुपधावामि । विष्टम्भमृषिमुपधावामि । सतोबृहतीछन्द उपधावामि । इत्युपसरणे विशेषः ।। - आर्षेयकल्पः उपोद्घातः पृ. ७०

महावैष्टम्भम् एव कार्यम्। तद् दिङ्निधनं भवति। दिशो वै पृष्ठानि। इयम् एव प्राची दिग् रथन्तरम् इयं बृहद् इयं वैरूपम् इयं वैराजम् अमूर् मह नाम्नीर् इमा रेवतयः। दिग्भ्यो वा एतस्मा अन्नाद्यं हरन्ति। दिग्भ्यो वा अस्मा अन्नाद्यं ह्रियते य एवं वेद। अथो हैषाम् एतेनैव सर्वाणि पृष्ठानि ब्रह्मसामवन्ति भवन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। तद् उ सतोबृहतीषु भवत्य् उत्क्रान्त्या एवानपभ्रंशाय॥ - जैब्रा. २.२१

महावैष्टम्भं ब्रह्मसाम भवत्यन्नाद्यस्यावरुध्यै। यदा वै पुरुषोऽन्नमत्त्यथान्तरतो विष्टब्धः। दिश इति निधनमुपयन्ति दिशां धृत्यै। सतो बृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय। - पञ्चविंशब्रा. १२.४