सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/पौरुमद्गम्

विकिस्रोतः तः
पौरुमद्गम्
पौरुमद्गम्

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥ ८५६ ॥ ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥८५७ ॥


१४. पौरुमद्गम् ।। गोतमः । बृहती। पवमानः सोमः ।
अभिसोमासआयवः । औहोवा । एहिया । हाउ ॥ पवन्तेमाऽ२दियम्मदम् । समूद्राऽ१स्याऽ२ । धाइविष्टपाऽ३इ । मानीषाऽ२३४इणाः ॥ मत्सा। रासौवाओऽ२३४वा ॥ हाऽ३हाइ । मदाऽ५च्युताः ॥ श्रीः । मत्सरासोमदच्युतः। औहोवा । एहिया । हाउ ॥ मत्सरासोऽ२मदच्युतः । तरात्साऽ१मूऽ२ । द्राम्पवमाऽ३ । नाऊर्माऽ२३४इणा ॥ राजा । दाइवौवाओऽ२३४वा ॥ हाऽ३हाइ । ऋताऽ५म्बृहात् ॥ श्रीः ॥ राजादेवऋतंबृहत् । औहोवा । एहिया । हाउ ॥ राजादेवाऽ२ऋतंबृहत् । अर्षामाऽ१इत्राऽ२ । स्यावरुणाऽ३ । स्याधर्माऽ२३४णा ॥ प्रहाइ । न्वानौवाओऽ२३४वा । हाऽ३हाइ । ऋताऽ५म्बृहात् । होऽ५इ ॥डा॥
दी. २०, उत्. ८. मा. ३१. ब. ॥५४॥


टिप्पणी

अहर्वा एतदव्लीयमानं तद्रक्षांस्यन्वसचन्त । तस्माद्देवाः पौरूमद्गेन रक्षांस्यपाघ्नन्नप पाप्मानं हते पौरूमद्गेन तुष्टुवानः। देवाश्च वासुराश्चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरोऽमज्जयन् यत् पुरोऽमज्जयंस्तस्मात् पौरूमद्गं पाप्मानमेवैतेन भ्रातृव्यं मज्जयति - तांब्रा १२.३

तासु पौरुमुद्गम्। इळावान् पवमानः पौरुमुद्गेन क्रियते। पुरुमुद्ग आंगिरसः पशुकामस् तपो ऽतप्यत। स एतत सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुमुद्ग आङ्गिरसो ऽपश्यत् तस्मात् पौरुमुद्गम् इत्य् आख्यायते। देवाश् च वा असुराश् चाधि समुद्रम् अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् समुद्रे मज्जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽमज्जयन्। तद् यत् पूर्वे ऽमज्जयंस् तद् व् एव पौरुमुद्गस्य पौरुमुद्गत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं मज्जयति य एवं वेद। तेषाम् उ यो य एवोदमज्जत् तस्यैतेनैव साम्ना प्राघ्नन्। तद् उ भ्रातृव्यहा। कस्माद् एतत् सामाहू रक्षोहेति। रक्षांसीव वा एतत् तान् अघ्नन्। हन्ति द्विषन्तं भ्रातृव्यम्, अव रक्षः पाप्मानं हते य एवं वेद॥ - जैब्रा ३.४३

द्वादशाहस्य अष्टममहः -- अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। पवन्ते मद्यं मदम्। समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः॥ इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्। अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥ नृभिर् येमाणो हरियतो विचक्षणो राजा देवस् समुद्रियः॥ इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। जैब्रा ३.२१३