सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/सꣳहितम्

विकिस्रोतः तः
सꣳहितम्
संहितम्

१५. मधुच्छन्दा वैश्वामित्रः। गायत्री । पवमानः सोमः ।
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |
इन्द्राय पातवे सुतः || ६८९ ||
रक्षोहा विश्वचर्षणिरभि योनिमयोहते |
द्रोणे सधस्थमासदत् ||६९० ||
वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः |
पर्षि राधो मघोनां || ६९१ ||
धा. १५. उ. १. स्व. न. पौ. ॥१५॥


८. सꣳहितम् ॥ संहितः। गायत्री। पवमानः सोमः।
स्वादिष्ठयाम । दाऽ२इष्ठया ॥ पवाऽ२ । स्वाऽ२३सो। मधाऽ२राया ॥ आऽ२३इन्द्रा ॥ याऽरपा । तवाऽ२३ । हाउवाऽ३ ॥ सूऽ२३४ताः। श्रीः ॥ रक्षोहाविश्व । चाऽ२र्षणाइः ॥ अभाऽ२इ । योऽ२३नीम् । अयोऽ२हाताइ । द्रोऽ२३णे ॥ साऽ२धा । स्थमाऽ२३ । हाउवाऽ३ ॥ साऽ २३४दात् ॥ श्रीः ॥ वरिवोधात । मोऽ२भुवाः ॥ मꣳहाऽ२इ । ष्ठोऽ२३वा । त्रहाऽ२न्तामाः ॥ पाऽ२३र्षी ॥ राऽ२धो । माऽ२३ । हाउवाऽ३ ॥ घोऽ२३४नाम् ॥
दी. ६. उत्. ५. मा. १६. जू॥८॥


[सम्पाद्यताम्]

टिप्पणी