सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/श्यावाश्वम्

विकिस्रोतः तः
श्यावाश्वम्.
श्यावाश्वम्
श्यावाश्वम्

११. श्यावाश्वम् ॥ श्यावाश्वः । अनुष्टुप् । पवमानः सोमः।।

पु꣣रो꣢ऽ३१ । जी꣢ऽ३ती꣤। वो꣯अ꣥। धा꣢ऽ३स꣤:। एहिया꣥ ॥ सू꣡ । ता꣯यमा꣯दा। यि꣢ । त्न꣡वाऽ᳒२᳒इ । ए꣡हियाऽ᳒२᳒ । अपश्वा꣡꣯नाꣳश्ना꣢ऽ३थी꣤ऽ३ ॥ ष्टाऽ२३४ना꣥ ॥ ऐ꣢꣯हाऽ᳒२᳒इ। ए꣡꣯हियाऽ᳒२᳒ । सखा꣯यो꣡꣯दाइर्घा꣢ऽ३जी꣤ऽ३ । ह्वा꣢ऽ३४५योऽ६”हा꣥इ ॥ श्रीः ॥ स꣣खा꣢ऽ३१ । यो꣢ऽ३दी꣤। घजि꣥। ह्वा꣢ऽ३यम् । एहिया꣥ ॥ यो꣡। धा꣯रया꣯पा। व꣢। क꣡याऽ᳒२᳒ । ए꣡꣯हियाऽ᳒२᳒ । परिप्र꣡स्यान्दा꣢ऽ३ता꣤ऽ३इ ॥ सूऽ२३४ता꣥: ॥ ऐ꣢꣯हाऽ२᳒इ। ए꣡꣯हियाऽ᳒२᳒ । इन्दुर꣡श्वोना꣢ऽ३का꣤ऽ३ । त्वा꣢ऽ३४५योऽ६"हा꣥इ ॥ श्रीः ॥ इ꣣न्दू꣢ऽ३१: । आ꣢ऽ३श्वो꣤ । नकृ꣥ । त्वा꣢ऽ३य꣤: । एहिया ॥ ता꣡म् । दुरो꣯षमा । भी꣢꣯ । न꣡राऽ᳒२᳒ः । ए꣡꣯हियाऽ᳒२᳒ । सो꣯मंवि꣡श्वाची꣢ऽ३या꣤ऽ३ ॥ धाऽ२३४या꣥ ॥ ऐ꣢꣯हाऽ᳒२᳒इ । ए꣡꣯हियाऽ᳒२᳒ । यज्ञा꣯य꣡सान्तू꣢ऽ३वा꣤ऽ३ । द्रा꣢ऽ३४५यो६"हा꣥इ ॥

दी. २१. उत् . ९. मा. १७. घे ॥११॥



पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥ ऋग्वेदः ९.१०१.१
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥


११. श्यावाश्वम् ॥ श्यावाश्वः । अनुष्टुप् । पवमानः सोमः।।

पुरोऽ३१ । जीऽ३ती। वोअ। धाऽ३सः। एहिया ॥ सू । तायमादा। यि । त्नवाऽ२इ । एहियाऽ२ । अपश्वानाꣳश्नाऽ३थीऽ३ ॥ ष्टाऽ२३४ना ॥ ऐहाऽ२इ। एहियाऽ२ । सखायोदाइर्घाऽ३जीऽ३ । ह्वाऽ३४५योऽ६”हाइ ॥ श्रीः ॥ सखाऽ३१ । योऽ३दी। घजि। हाऽ३यम् । एहिया ॥ यो। धारयापा। व। कयाऽ२ । एहियाऽ२ । परिप्रस्यान्दाऽ३ताऽ३इ ॥ सूऽ२३४ताः ॥ ऐहाऽ२इ। एहियाऽ२ । इन्दुरश्वोनाऽ३काऽ३ । त्वाऽ३४५योऽ६"हाइ ॥ श्रीः ॥ इन्दूऽ३१: । आऽ३श्वो । नकृ । त्वाऽ३यः । एहिया ॥ ताम् । दुरोषमा । भी । नराऽ२ः । एहियाऽ२ । सोमंविश्वाचीऽ३याऽ३ ॥ धाऽ२३४या ॥ ऐहाऽ२इ । एहियाऽ२ । यज्ञायसान्तूऽ३वाऽ३ । द्राऽ३४५यो६"हाइ ॥
दी. २१. उत् . ९. मा. १७. घे ॥११॥


[सम्पाद्यताम्]

टिप्पणी

द्र. अर्चनाना-पुत्र श्यावाश्वोपरि आख्यानम्

पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल्लोकमायन्नक्षर्यया ऋषयो नु प्राजानान् यदेते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै। तासु श्यावाश्वम् । श्यावाश्वमार्चनानसं सत्त्रमासीनं धन्वोदवहन् स एतत् सामापश्यत् तेन वृष्टिमसृजत ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत गातुविद्वा एतत् साम। विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः। इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत् तं देवाः श्यावाश्वेनैहायि एहियेत्यन्वाह्वयन् स उपावर्तत यदेतत् साम भवति तृतीयसवनस्य सेन्द्रत्वाय। - तां.ब्रा. ८.५.९

पुरोजिती वो अन्धस इति विराडन्नं विराडन्नाद्यस्यावरुध्यै - तांब्रा. १४.५.५

अथ श्यावाश्वं स्वर्ग्यं स्वर्गस्य लोकस्य समष्ट्यै। - जै.ब्रा. २.१९५

श्यावशबलयोरुपरि टिप्पणी

द्र. अथर्ववेदः सूक्तं ७.१००