सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/रौरवम्

विकिस्रोतः तः
रौरवम्
रौरवम्

६. सप्तर्षयः (भरद्वाजो बार्हस्पत्यः; कश्यपो मारीचः; गोतमो राहूगणः; अत्रिर्भौमः, विश्वामित्रो गाथिनः; जमदग्निर्भार्गवः; वसिष्ठो मैत्रावरुणिः) बृहतीसतोबृहत्यौ (प्रगाथः)। पवमानः सोमः॥

पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ६७५ ||
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||

२. रौरवम् । रुरुः । बृहती । पवमानः सोमः ।
पुनानस्सोमाऽ३धाराऽ२३४ या ॥ आपोवसानोअर्षस्यारत्नधायोनिमृतस्यसाऽ२इदसाइ । ओहाऽ३उवा ॥ उत्सोदेवोहिराऽ२३हाइ । ओहाऽऽउवा ॥ ण्यया। औऽऽहोवा । श्रीः॥ उत्सोदेवोहाऽ३इरण्याऽ२३४याः ॥ ऊत्सोदेवोहिरण्ययोदुहानऊधर्दिवियम्मधूऽ२प्रियाम् । ओहाऽऽउवा ॥ प्रत्नꣳसधस्थमाऽ२३हाइ । ओहाऽ३उवा । सदात् ॥ औऽ२३ होवा ॥ श्रीः ॥ प्रत्नꣳ सधस्थाऽ३मासाऽ२३४दात् ॥ प्रात्नꣳसधस्थमासददापृच्छ्यन्धरुणंवाजियाऽ२र्षसाइ । ओहाऽ३उवा ॥ नृभिर्धौतोविचाऽ२३हाइ । ओहाऽ३उवा ॥ क्षणा । औऽ३होवा । होऽ५३ ॥ डा ॥
दी. २५. उत् ३. मा. २०, बौ. (२)


[सम्पाद्यताम्]

टिप्पणी