सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/आन्धीगवम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
आन्धीगवम्.
आन्धीगवम्
आन्धीगवम्

पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥ ऋग्वेदः ९.१०१.१
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥


१२. आन्धीगवम् ॥ आन्धीगुः । अनुष्टुप् । पवमानः सोमः।
पुरोजितीवोऽ१न्धासाः ॥ सुताय । मादाऽ२३या । हुम्माऽ२१२ । त्नवेअपश्वानꣳश्नथिष्टनाऽ२३४५॥ साखाऽ३उवा ॥ योऽ२दी। घाऽ२३जी। ह्वियाम् । औऽ२३होवा ॥ श्रीः ॥ सखायोदीर्घजाऽ१इह्वायाम् ॥ योधार। यापाऽ२३वा । हुम्माऽ२१२ । कयापरिप्रस्यन्दतेसुताऽ१ः ॥ आइन्दाऽ३उवा ॥ आऽ२श्वो । नाऽ२३का । त्विया । औऽ३होवा ॥श्रीः ॥ इन्दुरश्वोनकाऽ१र्त्वायाः ॥ तंदुरो। षमाऽ२३भी । हुम्माऽ२१२ । नरस्सोमं विश्वाचियाधियाऽ१ ॥ याज्ञाऽ३उवा ॥ याऽ२स। तूऽ२३वा । द्रया । औऽ३होवा। होऽ५इ ॥ डा ॥


दी. १९. उत् . ७. मा. १२. था.॥१२॥



[सम्पाद्यताम्]

टिप्पणी

अथैतदान्धीगवमन्धीगुर्वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्ट्यै मध्ये निधनमैडं भवत्येतेन वै तृतीयसवनं प्रतिष्ठितं यन्मध्ये निधनमैडं न स्यादप्रतिष्ठितं तृतीयसवनं स्यात्। दशाक्षरं मध्यतो निधनमुपयन्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठति । - तांब्रा. ८.५.१२

अथान्धीगवम्। मध्येनिधनं भवति। प्रतिष्ठायै। समुद्रं वा एते ऽनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् यथा वा अदस् समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्न् आस्त एवं ह वा एतन् निधनम् उपेत्य कामं विश्राम्यन्त आसीरन्न् अस्तुवानाः॥ तद् ऐळं भवति। पशवो वा इळा पशवः कृत्स्नम् अन्नाद्यम्। यो वा अनवसो ऽध्वानं प्रैति नैनं स समश्नुते। अथ यस् सावसः प्रैति स एवैनं समश्नुते॥ अयं वाव समुद्रो ऽनारम्भणो यद् इदम् अन्तरिक्षम्। तस्य नानवसेनेत्थं गतिर् अस्ति नेत्थम्। तद् एतत् पशून् एव कृत्स्नम् अन्नाद्यम् अवसं कृत्वा यन्ति॥

शाक्त्या अन्नाद्यकामा अदीक्षन्त। स एतद् अन्धीगुश् शाक्त्यस् सामापश्यत्। तेनास्तुत। तस्यैतां दशाक्षरां विराजं मध्यत् उपैत्। दशाक्षरा विराड् अन्नं विराट्। ततो वै ते विराजम् अन्नाद्यम् अवारुन्धत। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् व् अन्धीगुश् शाक्त्यो ऽपश्यत् तस्माद् आन्धीगवम् इत्य् आख्यायते॥जैब्रा. १.१६५

अथैतद् आन्धीगवं मध्येनिधनं प्रतिष्ठायै। तद् यद् एवात्र यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् एवैतेनानुवस्ते। - जैब्रा १.३३९

अथान्धीगवम् - अन्नं वा आन्धीगवम् - अन्नाद्यस्यैवावरुद्ध्यै। - जैब्रा. २.१९५