सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/श्रुध्यम्

विकिस्रोतः तः
श्रुध्यम् .
श्रुध्यम्

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ।। १३३५ ।। ऋ. ९.६१.१३
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
य इन्द्रस्य हृदंसनिः ।। १३३६ ।।
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।
वर्धा समुद्रमुक्थ्यं ।। १३३७ ।।







५. श्रुध्यम् ।। प्रजापतिः । गायत्री । पवमानस्सोमः ।।

उपोषुजाऽ२तम् । अप्तुरोवा ।। गोभिर्भङ्गाम् । परिष्कृताम् । इन्दुन्देवाअ । याऽ२३ ।। सिषाउवा । श्रूधियाऽ२।।श्रीः।। तमिद्वर्धाऽ२न्तु । नोगिरोवा ।। वत्सꣳसꣳशाइ । श्वरीरिवा । यइन्द्रस्यहृ । दाऽ२३म् । सनाउवा ।। श्रूधियाऽ२।। श्रीः।। अर्षानस्सोऽ२म । शङ्गवोवा ।। धुक्षस्वपाइ । प्युषीमिषाम् । वर्धासमुद्रम्। ऊ२३ । क्थियाउवा ।। श्रूधियाऽ२ ।। एऽ२३हियाऽ३४३ । ओऽ२३४५इ ।।डा।।

दी. १२. उत् ६. मा. १४ ची. ।।२०५।।


[सम्पाद्यताम्]

टिप्पणी

द्र. यामानि त्रीणि (ग्रामगेयः) (उपोषु जातमप्तुरं इति)


ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानामयातयामतायै। श्रुध्यं भवति। पशवो वै श्रुध्यं पशूनामवरुध्यै। प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानेतेन साम्ना श्रूधिया एहियेत्यन्वह्वयत् त एनमुपावर्तन्त यदेतत् साम भवति पशूनामुपावृत्यै। उपैनं पशव आवर्तन्ते य एवं वेद। गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्तीडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः - पञ्चब्रा. १५.५.३२

उपो षु जातम् अप्तुरम् इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। गोभिर् भंगं परिष्कृतम्। इन्दुं देवा अयासिषुः॥ अर्षा नस् सोम शं गवे धुक्षस्व पिप्युषीम् इषम्। वर्धा समुद्रम् उक्थ्यम्॥ इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्धयै। पशवो हि छन्दोमाः। तम् इद् वर्धन्तु नो गिर इति वृद्धं ह्य् एतद् अहर् यद् अष्टाचत्वारिंशम्॥जैब्रा ३.२७३

तासु श्रुधीयम्। प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। स क्षयाद् बिभ्यत् प्राद्रवत्। ते देवा अकामयन्त - शृणुयान् न इति। त एतत् सामापश्यन्। तेनैनं श्रोधियेत्य् अन्वह्वयन्। सो ऽशृणोत्। तम् अब्रुवन्न् - अभि न आवर्तस्वेति। क्षयाद् वै बिभेमीति। नैत्य् अब्रुवन्। तस्मै वै मे श्रद्धां कुरुतेति। तस्मै श्रोधियेन्य् एव श्रद्धाम् अकुर्वन्। तम् एह्य् आ इत्य् एव न्यह्वयन्त। ततो वै तेभ्यो यज्ञो नोदक्रामत्। तत एनान् उपावर्तत। उत्क्रान्त इवैतर्हि यज्ञो भवति नवमे ऽहन्। तद् यद् अत्र श्रुधीयं भवति, सम् एवैनम् एतेन यज्ञं निह्वयन्ते। तस्माच् छ्रोधियेत्य् एव प्रथमायां कुर्याच् छ्रोधेमेत्य् उत्तरयोः। अथो यस्मै जीवातुं कामयेत, तम् एतनैव निह्वयेत॥जैब्रा ३.२७४