सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/उत्सेधः
पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥ ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥
टिप्पणी
उत्सेधनिषेधाव् एव सतोबृहतीषु स्यातां, यज्ञायज्ञीयं भविष्यद्बृहत्याम्। तथा हाभ्यावर्ता भवन्त्य् अपराचीः। तद् आहुर् न चतुर्थाय छन्दसे माध्यन्दिनः पवमानः। तत्स्थानश् चतुर्थम् इव वा एतच् छन्दः क्रियत इति। तद् यत् बृहतीतरा भवति बृहतीतरा तेन समानच्छन्दः। तासूत्सेधनिषेधौ। उत्सेधेन वा अङ्गिरसः पशून् उत्सिध्य निषेधेन निषिध्योदतिष्ठन्। उत्सेधेनैवैतत् पशून् उत्सिध्य निषेधेन निषिध्य उत्तिष्ठन्ति॥जैब्रा ३.२८८
ताव् अन्तरा यज्ञायज्ञीयं भवति। पशवो वै यज्ञायज्ञीयम्। एतांस् तान् पशून् उत्सिध्य च निषिध्य चोत्तिष्ठन्ति। प्रजापतेर् वा एतौ प्राणापानौ। यद् उत्सेधनिषेधौ भवतः प्राणापानाभ्याम् एव तत् समृध्यन्ते। पापवस्यसस्य ह खलु वा एते विदारणं सामनी। राजसभम् एतद् यद् दशम् अह्नाम्। उच् च वै पापीयांसं सभायाम् अतिवदन्तं सेधन्ति नि च सेधन्ति। तद् यद् उत्सेधनिषेधौ भवतः पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च। वाग् वै यज्ञायज्ञीयम्। तद् अन्तरोत्सेधनिषेधौ भवति। आत्मा वै वाक्। प्राणापानाव् उत्सेधनिषेधौ। तद् यद् यज्ञायज्ञीयम् अन्तरोत्सेधनिषेधौ भवति, प्राणापानाभ्याम् एवैतद् उभयत आत्मानं परिगृह्यते। तस्मात् प्राणापानाभ्यां वाक् परिगृहीता॥जैब्रा. ३.२८९