सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/आकूपारम्

विकिस्रोतः तः
आकूपारम्.
आकूपारम्.

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।। ऋ. ९.९८.७
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।

[सम्पाद्यताम्]

टिप्पणी

आकूपारं भवति। अकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छज्जेमानं महिमानं गच्छत्याकूपारेण तुष्टुवानः - पञ्च.ब्रा. १५.५.२९

अथाकूपारम्। अकूपारो वै कश्यपः। कलिभिस् सह समुद्रम् अभ्यवैषत्। तस्मिन् प्रतिष्ठाम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समुद्रे प्रतिष्ठाम् अविन्दतेमाम् एव पृथिवीम्। ततो ह स्म वै तस्य कलयः पृष्ठ आसते। तद् एतत् प्रतिष्ठासाम। प्रतितिष्ठति य एवं वेद। समुद्रो वै छन्दोमाः। कश्यपो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्राकूपारं भवति समुद्रस्यैवातिपारणाय। यद् व् अकूपारः कश्यपो ऽपश्यत्, तस्माद् आकूपारम् इत्य् आख्यायते। - जैब्रा ३.२७३

अकूपार उपरि टिप्पणी