सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/शाम्मदम्

विकिस्रोतः तः
शाम्मदम्
शाम्मदम्.

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।। ऋ. ९.६७.१
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।

[सम्पाद्यताम्]

टिप्पणी

शाम्मदं भवति। शम्मद्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः।

- पञ्च.ब्रा. १५.५.१०

षष्ठम अहः -- अथ शाम्मदम्। देवेभ्यो वै विजिग्यानेभ्य इमे लोका बिभ्यतो व्युदक्रामन्। ते ऽकामयन्ताभि न इमे लोका आवर्तेरन्। नास्मद् अपक्रामेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् इमे लोका अभ्यावर्तन्त। तत एभ्यो ऽनपक्रामिणो ऽभवन् । ते ऽब्रुवन् छं वै न इमे लोका अमादिषुर् इति। तद् एव शाम्मदस्य शाम्मदत्वम्। शम् अस्मा इमे लोका मदन्त्य् अभ्य् एनम् इमे लोका आवर्तन्ते। नास्माद् इमे लोका अपक्रामन्ति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्। - जैब्रा ३.१६४