सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/आश्वसूक्तम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
आश्वसूक्तम्.
आश्वसूक्तम्

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।। ऋ. ९.६७.१
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।

[सम्पाद्यताम्]

टिप्पणी

त्वं सोमासि धारयुर् इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति। त्वं सुतो मदिन्तम इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। त्वं सुष्वाणो अद्रिभिर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। अभ्य् अर्ष कनिक्रदत्। द्युमन्तं शुष्मम् उत्तमम्॥ इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यश् छन्दोमाः। तास् समानप्रभृतयो भवन्ति नानोदर्काः। इदं वै प्रथमं पदम् इदं द्वितीयम् अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनो ऽन्तम् इव हि गच्छन्ति। तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्का, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नानाप्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उताभिर् लोके प्रतितिष्ठन्ति। तासु गायत्रम् उक्तब्राह्मणम्। - जैब्रा ३.२६५