सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/अर्कपुष्पम्

विकिस्रोतः तः
अर्कपुष्पम्
अर्कपुष्पम्.

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

अच्छिद्रम् (ग्रामगेयः)

अर्कोपरि टिप्पणी

अर्कपुष्पं भवति। अन्नं वै देवा अर्क इति वदन्ति रसमस्य पुष्पामिति सरसमेवान्नाद्यमवरुन्धेऽर्कपुष्पेण तुष्टुवानः - तांब्रा. १५.३.

अथार्कपुष्पम् -- अन्नं वा अर्कः। तस्यैतत् पुष्पं यद् आरण्यम्। तद् ध्य् अरण्ये जायत -- आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै। - जैब्रा. २.१४