सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ४/उद्वद्भार्गवम्

विकिस्रोतः तः
उद्वद्भार्गवम्


शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन |
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ||११७५ ||
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां |
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ||११७६ ||
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् |
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति || ११७७ ||







४. उद्वद्भार्गवम् ।। भृगुः । त्रिष्टुप् । पवमानस्सोमः ।।

शिशुञ्जाज्ञाऽ२३ । नꣲहर्याताऽ२३म् । मृजन्ताइ ।। शुम्भन्ताइवाऽ२३इ । प्रम्मरूतोऽ२३ । गणेना ।। कविर्गाइर्भाऽ२३इः । कावियेनाऽ२३ । कविस्सान् ।। सोमᳲपावाऽ२३इ । त्रमताइयेऽ२३ । तिरेभाऽ३नाउ ।। श्रीः।। ऋषिमानाऽ२३ः । यऋषीकृऽ२३त् । सुवर्षाः ।। सहस्रानाऽ२३इ । थᳲपदावाऽ२३इः । कवीनाम् ।। तृतीयान्धाऽ२३ । ममहाइषाऽ२३ः । सिषासान् ।। सोमोवाइराऽ२३ । जमनूराऽ२३ । जतिष्टाऽ३१उ ।। श्रीः ।। चमूषाछ्याऽ२३इ । नश्शकूनोऽ२३ । विभृत्वा ।। गोविन्दूर्द्राऽ२३ । प्सआयूधाऽ२३ । निबिभ्रात् ।। अपामूर्माऽ२३इम् । सचमानाऽ२३ः । समुद्राम् ।। तुरीयान्धाऽ२३ । ममहाइषोऽ२३ । विवक्ताऽ३१उवाऽ२३४५ ।।

दी. १४ उ. ३६ मा. ३३. ति. ।।९१३।।