सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ६/ऋषभᳲ पावमानः

विकिस्रोतः तः
ऋषभः पवमानः

१६
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिं ॥ ७५५
अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवं ॥ ७५६ ॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥ ७५७ ॥


१९. ऋषभᳲ पावमानः ।। ऋषभः । गायत्री । पवमानस्सोमः ।।

हाहावस्यप्रत्नाम् ।। हाऽ३ । हाऽ३इ । आनूऽ२द्यूऽ२३४ताम् । शुक्रन्दुदुह्रेआऽ१ह्राऽ३याः ।। पयस्साऽ२३४हा ।। ओमोऽ३ । स्रसोवा । आऽ५र्षोऽ६”हाइ ।। श्रीः ।। हाहावयꣲसूर्याः । हाऽ३ । हाऽ३इ । आइवोऽ२पाऽ२३४दक् । अयꣲसराꣲसिधाऽ१वाऽ३ताइ ।। सप्तप्राऽ२३४वा ।। ओमोऽ३ । तओवा । दाऽ५इवोऽ६”हाइ ।।श्रीः।। हाहावयम्विश्वा ।। हाऽ३ । हाऽ३इ । नाइताऽ२इष्ठाऽ२३४ताइ । पुनानोभुवनोऽ१पाऽ३राइ ।। सोमोदाऽ२३४इवाः ।। ओमोऽ३ । नसोवा । राऽ५योऽ६”हाइ ।।

दी. १३ उत्. न. मा २२. रा. ।।४९३।।

[सम्पाद्यताम्]

टिप्पणी

अस्य प्रत्नाम् अनु द्युतम् इति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान् स्याद् अथात्मना पापीयान् इव मन्येत। यैवास्य पित्र्या पैतामही श्रीस् ताम् एवाश्नुते॥ शुक्रं दुदुह्ने अह्रयः इति। यज्ञो वै शुक्रः पशवो ऽह्रयः। यज्ञं चैवैतेन पशूंश् वावरुन्द्ध॥ पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते॥जैब्रा १.९३

ब्रह्म वा अग्निष्टोमः। ब्रह्म प्रायणीयम् अहः। एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमः। यैव यज्ञस्य मात्रा तयैवैतत् सत्र आक्रमन्ते यादृक् प्रवयणत स्पर्शस् तादृग् उपप्रार्ञ्जनतः। तस्माद् अग्निष्टोमेनैव प्रयन्त्य्, अग्निष्टोमेनोद्यन्ति। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम्। तद् यद् एताः प्रत्नवतीश् चोपवतीश् च भवन्ति बृहद्रथन्तरे एवैतत् सत्राय युज्येते। प्रेति च वा एति च गायत्र्यै रूपम्। तद् यत् प्रेति चेति च भवति गायत्र्या एवैतद् रूपेण प्रयन्ति न वैता भवन्ति न वा हस्यैष युक्त्या ऋचर् चैवाहर् युज्यते यथा नद्धयुगस्य शम्या अवदध्यात् तादृक् तत्। - जैब्रा ३.१२