सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः १/श्यैतम्

विकिस्रोतः तः
श्यैतम्
श्यैतम्.

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२ ॥ ऋ. ८.९०.१
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३ ॥






२. श्यैतम् ॥ प्रजापतिः। बृहती। इन्द्रः॥
आनोविश्वासु । हव्याऽ३४औहोवा ॥ आइन्द्रꣲसम । त्सुभूषताऽ२३४ । ओऽ६हा । उपब्रह्माणि । सावाऽ२३ना । निवाऽ२। त्राऽ२३४हान् ।। परमज्याआऽ३र्चा ॥ हुम्माइ । षाऽ२माऽ२३४औहोवा ॥ श्रीः॥ परमज्याऋची। षमाऽ३४औहोवा॥ पारमज्याः॥ ऋचाइषमाऽ२३४। ओऽ६हा । त्वंदाताप्र। थामोऽ२३रा । धसाऽ२म् । आऽ२३४सी । असिसत्याईऽ३शा ॥ हुम्माइ । नाऽ२काऽ२३४औहोवा ॥ श्रीः ॥ असिसत्यईशा। नकाऽ३४औहोवा ।। आसिसत्यः । ईशानकाऽ२३४ । ओऽ६हा। तुविद्युम्नस्य । यूजाऽ२३या। वृणाऽ२इ । माऽ२३४हाइ ॥ पुत्रस्यशावाऽ३साः ॥ हुम्माइ । माऽ२हाऽ२३४औहोवा ॥ वाऽ२३४सू ॥
दी. २४. उत् . ४. मा. २२. धा. ॥३७६।।


[सम्पाद्यताम्]

टिप्पणी