सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥ १५३५ ॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥ १५३६ ॥
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
अग्ने यक्षि स्वं दमं ॥ १५३७ ॥


ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
समग्निरिध्यते वृषा ॥ १५३८ ॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
तं हविष्मन्त ईडते ॥ १५३९ ॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
अग्ने दीद्यतं बृहत् ॥१५४० ॥


उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
अग्ने शुक्रास ईरते ॥ १५४१ ॥
उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥ १५४२ ॥
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुं ।
अग्निमीडे स उ श्रवत् ॥१५४३ ॥


पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ १५४४ ॥
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ १५४५ ॥


इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६ ॥
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां ।
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७ ॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥१५४८ ॥
औशनम्


कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिं ।
वराय देव मन्यवे ॥ १५४९ ॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
कदु वोच इदं नमः ॥ १५५० ॥
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
वाजद्रविणसो गिरः ॥ १५५१ ॥


अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ १५५२ ॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं ॥ १५५३ ॥


अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतं ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ १५५४ ॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ १५५५ ॥


अदाभ्यः पुरएता विशामग्निर्मानुषीणां ।
तूर्णी रथः सदा नवः ॥ १५५६ ॥
अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥ १५५७ ॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥ १५५८ ॥

१०
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥ १५५९ ॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ १५६० ॥

११
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे देहि जातवेदो महि श्रवः ॥ १५६१ ॥
स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १५६२ ॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥ १५६३ ॥

१२
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४ ॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं ।
प्रशंसन्ति प्रशस्तिभिः ॥ १५६५ ॥
पन्यांसं जातवेदसं यो देवतात्युद्यता ।
हव्यान्यैरयद्दिवि ॥ १५६६ ॥
विशोविशीयम्

१३
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं ।
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं ॥ १५६७ ॥
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ १५६८ ॥
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ १५६९ ॥

१४
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥१५७० ॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं ।
आपश्चिन्नि दधा पदं ॥ १५७१ ॥
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
भद्रा सूर्य इवोपदृक् ॥१५७२ ॥
वारवन्तीयम्