सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/सोमव्रतम्(संतेपयां)

विकिस्रोतः तः
← ९६ आरण्यकगेयः - वाचःव्रतपर्व
९७(सोमव्रतम्)
[[लेखकः :|]]
९८ →
सोमव्रतम्(सं ते पयांसि इति).
सोमव्रतम्(सं ते पयांसि).

सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ ६०३ ॥ ऋ. १.९१.१८



(९७।१) सोम व्रतम् । सोमस्त्रिष्टुप्सोमः ॥
ओवाऽ२ ।। त्रिः) । सन्तेपया । सोऽ३समु । यन्तुवाजाः ॥ संवृष्णिया । नीऽ३अभि । मातिषाहाः॥ आप्यायमा । नोऽ३अमृ । तायसोमा ॥ दिविश्रवा । सीऽ३उत्त । मानिधिष्वा । ओवाऽ२ । ( द्विः) । ओऽ२ । वाऽ२३४ । औहोवा ।। प्न्य [त्रिर्गायेत्] ॥३॥
(दी० १६ । प० २३ । मा० ५ )९ ( गु। १७५)


[सम्पाद्यताम्]

टिप्पणी

अग्नीषोमीयप्रणयनकाले प्रस्तोता पूर्ववत् अग्नेर्व्रतं गायेत् । ओवा । संतेपयांसि- ( अ० गा० १७५) सोमव्रतं च त्रिर्गायेत् । - आर्षेयकल्पः उपोद्घातः पृ. १६

त्वमिमा ओषधीरित्येतत्सदा प्रयुञ्जानो न गरेण म्रियते ॥१०॥ सं ते पयाँसीति पूर्वेण प्रथमं ग्रासं ग्रसेदुत्तरेण निगिरेद्विषमप्यस्यान्नं भवति । नैनꣳ हिꣳसति नैनꣳ हिꣳसति ॥साविब्रा २.३.७॥

अग्नीषोमप्रणयनौद्गात्रम् - श्रौतकोशः(द्वितीयो ग्रन्थः), पृ. १८१ (वैदिक संशोधन मण्डलम्, पुणे, १९७०ई.)

पयः उपरि टिप्पणी

वाज/वाजपेयोपरि टिप्पणी

आप्यायनोपरि टिप्पणी

श्रवोपरि टिप्पणी