सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/सोमव्रतम्(त्वमिमा)

विकिस्रोतः तः
← ९७ आरण्यकगेयः - वाचःव्रतपर्व
९८(सोमव्रतम्)
[[लेखकः :|]]
९९ →
सोमव्रतम्(त्वमिमा इति).
सोमव्रतम्(त्वमिमा इति).

त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ ६०४ ॥ ऋ. १.९१.२२




(९८।१) सोम व्रतम् । सोमो विराट् सोमः ॥
हाउहाउहाउ । हौवाऽ३ । (त्रिः) । हाह । हौवाऽ३ । (द्वेत्रिः ।। होवाऽ३ । ( त्रिः) ।
होऽ३वाऽ३४५। (द्विः)। होऽ३वाऽ३४ ।औहोवा। त्वमिमाओषधीःसोमविश्वाः ॥
त्वमपोअजनयस्त्वंगाः॥ त्वमातनोरुर्वन्तरिक्षम् ।। त्वंज्योतिषावितमोववर्थ । हाउहाउहाउ । हौवाऽ३ । (त्रिः) । हाह । हौवाऽ३ । (द्वेत्रिः) । होवाऽ३ । (त्रिः) । होऽ३वाऽ३४५ । (द्विः)। होऽ३वाऽ३४ । औहौवा ॥ ए। जनदिवमन्तरिक्षंपृथिवीं विश्वभोजसंपुरुरूपाअजीजनः । इट्स्थिइडाऽ२३४५ ॥
( दी० ४० । प० ४१ । मा० १४ )१०( पी । १७६)

[सम्पाद्यताम्]

टिप्पणी

त्वमिमा ओषधीरित्येतत्सदा प्रयुञ्जानो न गरेण म्रियते ॥१०॥ सं ते पयाँसीति पूर्वेण प्रथमं ग्रासं ग्रसेदुत्तरेण निगिरेद्विषमप्यस्यान्नं भवति । नैनꣳ हिꣳसति नैनꣳ हिꣳसति ॥साविब्रा २.३.७

अग्नीषोमीयप्रणयनकाले प्रस्तोता पूर्ववत् अग्नेर्व्रतं गायेत् । ओवा । संतेपयांसि- ( अ० गा० १७५) सोमव्रतं च त्रिर्गायेत् । कहौ वा । त्वमिमा (आ० गा० १७६) इति वा । - आर्षेयकल्पः उपोद्घातः पृष्ठ १५