सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/स्वरसामानि

विकिस्रोतः तः
स्वरसामानि षट्
स्वरसामानि षट्.
स्वरसामानि षट्.

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥६०१ ।। ऋ. ८.८९.५



 ( ९१।१ )
॥ वायोः स्वरसामानि षट् । वायुरनुष्टबिन्द्रः ॥
एयज्जायथाः॥ अपूर्विया । हाउ । मघवन्वॄ । हाउ। त्रहत्याया। हाउ । तत्पृथिवीम् । हाउ । अप्रथयाः । हाउ । एऔहोवादीशाः॥ तदस्तभ्नाः । हाउ ॥ उतोदिवाम् । हाउ । एऔहोवाऽ३॥ अस्थिपयाऽ२३४५ः ॥
(दी० १२ । प० १८ । मा० १७ )९( जे । १५०)


(९१।२)
॥ द्वितीयं स्वर साम ॥
एहाउयज्जायथाः॥ अपूर्विया । होइ । ( त्रिः)। हाउहाउहाउ । मघवन्वॄ । होइ । ( त्रिः)। हाउहाउहाउ । त्रहत्याया । होइ । ( त्रिः) । हाउहाउहाउ । तत्पृथिवीम् । होइ । ( त्रिः) । हाउहाउहाउ । अप्रथयाः। होइ । (त्रिः) । हाउहाउहाउ । एऔहोवादीशाः॥ तदस्तभ्नाः । होइ । (त्रिः) । हाउहाउहाउ ॥ उतादिवाम् । होइ । (त्रिः ) । हाउहाउहाउ । एऔहोवाऽ३॥ हस्स्थिपयाऽ२३४५ः ॥
( दी० १३ । प० ३९ । मा० ५३ )१०(ढि । १५१)


(९१।३)
॥ तृतीयं स्वर साम ॥
एहाउ । औहोऽ२ । यज्जायथाऽ३: । अपूर्विया होववाऽ२३होइ । मा । घवन्वृत्रहत्याया । होववाऽ२३होइ। तात् । पृथिवीमप्राथयाः । होववाऽ२३होइ । एऔहोवादीशाः॥ होववाऽ२३होइ । तात् । अस्तभ्नाउतोदिवाम् । होववाऽ२३होइ । एऔहोवाऽ३॥ हस्स्थिइडापयाऽ२३४५ ः ॥
( दी० १७ । प० १८ । मा० १७ )११ (जे। १५२)


(९१।४)
॥ चतुर्थं स्वर साम ॥
याज्जायाज्जा॥ यथाअपूर्वियाऔऽहो । हाऽ२इया । औऽहो। माघवन्वृत्रहत्यायाऔऽ३हो । हाऽ२इया । औऽ३हो॥ तात्पृथिवीमप्राथयाऔऽ३हो । हाऽ२इया । औऽ३हो। तादस्तभ्नाउतोदिवामौऽ३हो । हाऽ२इया ।
औऽ३होवाहाउवाऽ३॥ एऽ३ । पया२३४५ः॥
(दी० ८ । प० १५ । मा० ११ )१२( ण । १५३ )


(९१।५)
॥पञ्चमं स्वर साम॥
हुवौहोऽ१इ । ( त्रिः)। यज्जायथाः। अपूर्विया ॥ मघावन्वॄ । त्रहत्याया ॥ तत्पृथिवीम् । अप्राथयाः॥ तदस्तभ्नाः।। उतोदिवाम् । हुवौहोऽ१इ । (द्विः) । हुवौहोऽ१ऽ२ । उहुवाऽ३हाउ । वाऽ३॥ हस् ॥
( दी० ७ । प० १७ । मा० १२ )१३( छू । १५४ )


(९२।१)
॥ षष्ठं स्वर साम ॥
योरयिंवोराऽ३यिन्तमाः ॥ योद्युम्नाऽ२३४इर्द्यू । म्नावत्तमाऽ२३ः ।
सोमाःसूऽ२३४ताः । साइन्द्रतायेऽ। अस्तिस्वाऽ२३४धा ॥ पतेऽ३ । माऽ२३४दाः । उहुवाऽ६हाउ । वा ॥ अस् ॥
(दी० ४ । प० ११ । मा० ८ )१४( तै । १५५)

[सम्पाद्यताम्]

टिप्पणी

स्वरोपरि संदर्भाः

रथन्तरे वसिष्ठः (ऊह्यगानम्)

ऐतरेयआरण्यकस्य ३.२.१ कथनमस्ति यत् स्वराणां आयतनं मज्जा अस्ति। आधुनिकविज्ञानानुसारेण मज्जा स्टेमसंज्ञकानां कोशानां आयतनमस्ति। अतएव, यदि स्टेमसेलस्य तादात्म्यं स्वरेभ्यः क्रियते, नायमनुचितं भविष्यति।