सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/ज्येष्ठसाम आज्यदोहम् (मूर्धानं)

विकिस्रोतः तः
आज्यदोहम्.
आज्यदोहम्

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।
कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः ॥ ६७ ॥ ऋ. ६.७.१


( २५।१ )
॥ ज्येष्ठ साम आज्यदोहम् अग्निर्वैश्वानरस्त्रिष्टुबग्निर्वैश्वानरः ॥
हाउहाउहाउ । आज्यदोहम् । (त्रिः) मूर्द्धानन्दाइ । वाऽ३अर । तिंपृथिव्याः ॥ वैश्वानराम् । ऋतआ । जातमग्नीम् ॥ कविꣳसम्रा । जाऽ३मति । थिंजनानाम् ॥ आसन्नःपा । त्राऽ३०जन । यन्तदेवाः । हाउ ( ३ ) । आज्यदोहम् । ( द्विः ) । आज्यदोऽ५हाउ । वा ॥ ए । आज्यदोहम् । (द्वे द्वि: ) । ए । आज्यदोहाऽ२३४५म् ।
 ( दी० ३२ । प० २७ । मा० २३ ) १६ ( छि । ४३ )

( २५।२ ) ॥ ईनिधनमाज्यदोहम् । ( इति वैदिकसंकेत: ) ॥
हाउहाउहाउ । हिम्-स्थिचिदोहम् । चिदोहम् । चिदोहम् । मूर्द्धानन्दाइ । वाऽ३अर । तिंपृथिव्याः ।। वैश्वानराम् । ऋतआ । जातमग्नीम् ॥ कविꣳसम्रा । जाऽ३मति । थिंजनानाम् ॥
आसन्नःपा । त्राऽ३०जन । यन्तदेवाः । हाउहाउहाउ । हिम्-स्थिचिदोहम् । चिदोहम् । चिदोs३हाउ । वाऽ३ ।। ईऽ२३४५ ।।
( दी० १७ । प० २२ । मा० २२ ) १७ ( छ्रा । ४४ )

( २५।३ ) ॥ ऋत - निधनमाज्यदोहम् । ( इति वैदिकसंकेत: ) ॥
हाउ (३) । च्योहम् । (त्रिः) । मूर्द्धानन्दाइ । वाऽ३अर । तिंपृथिव्याः ॥ वैश्वानराम् । ऋतआ । जातमग्नीम् ॥ कविꣳसम्रा । जाऽ३मति । थिंजनानाम् ॥ आसन्नःपा । त्राऽ३०जन । यन्तदेवाः । हाउ( ३ )। च्योहम् । (द्विः) । च्योऽ३हाउ । वाऽ३ ॥ एऽ३ । ऋतम् ॥
दी० १५ । प० २३ । मा० २१ )१८ ( ब । ४५ )



[सम्पाद्यताम्]

टिप्पणी