सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/ऐरयदैरिणे द्वे (पुनानः)

विकिस्रोतः तः
ऐरयदैरिणे.
ऐरयदैरिणे.

(७।१)
॥ ऐरयदैरिणे द्वे । वरुणो बृहती सोमः ॥
ऐरायाऽ२त् । (द्विः)। ऐरायाऽ२३त् । सुवराऽ३४ । हाहोइ । पुनानःसोमऽ३धाराऽ१याऽ२ ॥ अपोवसानोऽ३आर्षाऽ१सीऽ२॥ आरत्नधायोनिमृतस्यऽ३साइदाऽ१सीऽ२ ॥ उत्सोदेवोहिऽ३राण्याऽ१याऽ२: । ऐरायाऽ२त् । (द्विः)। ऐरायाऽ२३त् । सुवराऽ३४ । हाहाऽ३४ । औहोवा । एऽ३ । देवादिवाज्योतीऽ२३४५: ॥
(दी० २५ । प० १७ । मा० ११ ) १७( फ । १७)

(८।१)
॥ वरुणो गायत्रीन्द्रः॥
हावौवोहाउ । अभित्वावार्षाऽ३भासुताइ । अभित्वावा । षाभासुताइ । अभित्वावार्षाऽ३ भासुताइ ॥ औहोहावौहोऽ२ । सुतꣳसृजामीऽ३पीतयाइ । सुतꣳसृजा । मीपीतयाइ । सुतꣳसृजामीऽ३पीतयाइ ॥ हावौहोहाउ । तृंपावियाश्नूऽ३हीमदाम् । तृंपाविया । श्नूहीमदाम् । तृम्पावियाश्नूऽ३हीमदाम् ॥ औहोहावौहोऽ२ । उहुवाऽ३हाउ । वाऽ३॥ हस् ॥
(दी० ३४ । प० १९ । मा० १३ )१८( धि । १८)

(७।१)
॥ आङ्गिरसे द्वे। अंगिरा बृहती सोमः॥
हाउहाउहाउ। हौवाओऽ२३४वा । हाहाऽ३१उवाऽ२। पुनानःसोमधारया। श्रवोबृहदिहाइडा॥ अपोवसानोअर्षसि। श्रवोबृहदिहाइडा॥ आरत्नधायोनिमृतस्यसीदसि।
श्रवोबृहदिहाइडा॥ उत्सोदेवोहिरण्ययः । श्रवोबृहदिहाइडा। हाउहाउहाउ। हौवाओऽ२३४वा । हाहाऽ३१उवाऽ२॥ सुवर्जगन्महस्पृथिव्यादिवमाशकेमवाजिनोयमम् ।
हस् । इट्स्थिइडाऽ२३४५॥
(दी० ३९ । प० १७ । मा० १९ )१९( थो । १९)

[सम्पाद्यताम्]

टिप्पणी