शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

प्रथमं ब्राह्मणम् नैर्ऋतीष्टकाचयनम्

१ नैर्ऋतीष्टकाचयनम्-तत्र पूर्वं आख्यायिकया प्रयोजनकथनपुरःसरं नैर्ऋतीनामिष्टकानामुपधानस्य विधित्सया तासां हरणाय, संग्रहेण प्रतिज्ञाकरणं, इदानींतनानुष्ठानस्याप्युक्तप्रयोजनार्थत्वाभिधानम् , नैर्ऋतीनामिष्टकानां तमोऽपहन्तृत्वद्वारा नामनिर्वचनं, नैर्ऋतीनां हरणमनूद्य पापरूपस्य तमसो गर्भसम्बन्धिश्लेष्मोल्बादिरूपस्य . च पाप्मनो निर्हरणहेतुत्वस्याख्यायिकया दृष्टान्तदार्ष्टान्तिकपद्धत्या प्रतिपादनं, तासां निर्ऋतीष्टकानां सार्थवादं परिमाणं सोपपत्तिकं त्र्यादिलिखितादिकलक्षणरहितत्वं-सार्थवादं पाकप्रकारं सकारणं कार्ष्ण्यं चेत्येतन्निरूपणं, तासामुपधानार्थं दिग्विशेषे साभिप्रायं देशविशेषं दर्शयित्वा पराचीनत्वादिधर्मविशेषकथनम् , तत्र तिसृणामिष्टकानां क्रमेण त्रीन्मंत्रान्विनियुज्य तेषां पादशोविभज्य व्याख्यानम् , इष्टकान्तरवदासु प्रसक्तानामुपस्पर्शनसादनसूददोहसां निषेधकरणं, तासामुपधाने पूर्वमेकं प्रकारमभिधाय तं निषिध्य पश्चात् द्वितीयप्रकारप्रतिपादनम्, तासां नैर्ऋतीनां संख्यामनूद्य तस्याः प्रशंसनं, नैर्ऋतीनां परार्धे भागे आसन्द्यादीनां प्रासनस्य मन्त्रतदर्थव्याख्यानोपेतं सोपपत्तिकं मंत्रगतछन्दःप्रशंसासहितं विधानम् ; इष्टकादीन्सम्भूयानूद्य संख्याद्वारा तत्प्रशंसनम् , इष्टकानां मध्ये सार्थवादमुदचमसस्य निनयनविधानं, निषेचनानन्तरं मंत्रतद्व्याख्यानयुतमुपोत्थानं विधाय सार्थवादं धर्मविशिष्टं शालां प्रत्यागमनविधानं, सप्रयोजनं गार्हपत्योपस्थानं विधाय तत्र मंत्रं विनियुज्य तस्य व्याख्यानं चेत्यादि.


द्वितीयं ब्राह्मणम् प्रायणीयेष्टिः

२ प्रायणीयेष्टिः-तत्रादौ प्रायणीयेष्टिं विधाय प्रधानहविःप्रचारात्पूर्वतनानां हविष्कृद्वाग्विसर्गादीनां केषाञ्चित्पदार्थानामनुवादपूर्वकं प्रायणीयहविषः प्रचारविधानं, प्रायणीयस्य शंय्वन्ते सीरयोजनं विधाय सीरस्य नामनिर्वचनद्वाराऽन्नरूपताविष्करणं, सीरोपादानभूतं वृक्षविशेषं विधाय तत्प्रशंसनं, सीरयोजनार्थानां रज्जूनां मौञ्जत्वस्य त्रिवृत्त्वस्य च स्तावकार्थवादातिदेशसहितं विधानं, युज्यमानस्य सीरस्य स्थानविशेषविशिष्टमभिमन्त्रणं विधाय तत्र मंत्रद्वयं विनियुज्य तस्य क्रमात्परोऽक्षप्रत्यक्षवृत्त्या पादशोऽनूद्य व्याख्यानं मंत्रद्वयगतछन्दःप्रशंसकार्थवादातिदेशकथनं च, विहिते सीरयोजने दक्षिणसव्ययोर्धुर्ययोः पौर्वापर्यं विधायानुडुहां वैकल्पिकस्य संख्यात्रितयस्य सोपपत्तिकं विधानं, सार्थवादं चित्याग्निक्षेत्रमध्ये विकर्षणविधानं, तच्च विकर्षणं पक्षपुच्छानि विहायात्मन्येव कर्तव्यमित्यभिधानं, परिश्रितां समीपे आत्मनो दक्षिणभागेऽन्तरतः प्रागायतां मंत्रतदर्थसहितां प्रथमां सीता दक्षिणश्रोणेरारभ्योदगायतां पश्चिमपार्श्वे मन्त्रतदर्थसहितां द्वितीयां सीतां उत्तरपार्श्वे प्रागायतां मन्त्रतदर्थयुतां तृतीयां सीतां च विधाय पूर्वपार्श्वे दक्षिणायताया मन्त्रतदर्थयुतायाश्चतुर्थ्याः सीताया विधानम् , उक्तं कर्षणं समन्त्रकमनूद्य तत्प्रशंसनम् , अमन्त्रकं द्वादशसंख्याकानां सीतानां कर्षणं विधाय तत्प्रशंसनं, विहितानाममन्त्रकाणां चतसृणां सीतानां प्रत्येकं त्रित्वं विधाय प्रशंसनम् , अमन्त्रकसीतासंख्यां सम्भूय तस्याः प्रशंसन, विकर्षणमनूद्य तस्य प्रकारान्तरेण प्रशंसनं, समंत्रकं कर्षणमनूद्य तस्य संख्याद्वारा प्रशंसनं, अमंत्रकं कर्षणं पुनरनूद्य तत्प्रशंसनं, कर्षणानन्तरमनुडुहां विमोचनं विधाय तत्र मंत्रं विनियुज्य तस्य पादशो व्याख्यानं, स्तावकार्थवादातिदेशसहितमुत्तरपूर्वस्यां दिशि तेषामनुडुहां प्रस्थापनं विधाय तेषां दक्षिणाकाले दानविधानं दाने कालविशेषविधानं चेत्यादि.


तृतीयं ब्राह्मणम् दर्भस्तम्बोपधानम्

३ दर्भस्तम्बोपधानम्-तत्र दर्भस्तम्बानां कृष्टक्षेत्रमध्ये दर्भनामनिर्वचनसहितं सप्रयोजनं सार्थवादं सोपपत्तिकं तूष्णीमुपधानकरणविधानं, सार्थवादं पञ्चगृहीतेनाज्यद्रव्येणाभिहोमं विधाय तस्य बहुप्रकारेण प्रशंसनं; अभिहोमे मन्त्रं विधाय व्याहृतिरूपेण त्रयोदशधा विभज्य च तस्य चितिपुरीषात्मना प्रशंसनं, त्रयोदशधा विभक्ता मन्त्रावयवा व्याहृतिरूपाः स्युरिति सोपपत्तिकमभिधानम् , आज्यस्य होमसाधनत्वं पञ्चगृहीतत्वं चानूद्य तयोः प्रशंसनम् , अभिहोमे स्रुचामुद्गृहीतत्वं विधाय तत्प्रशंसनं चेति.


चतुर्थं ब्राह्मणम् अपां निनयनं सर्वौषधवपनं च

४ अपां निनयनं सर्वोषधवपनं च - तत्रादौ कृष्टे क्षेत्रे कर्षणक्रमेणोदचमसकरणकमपां निनयनविधानम्, उदकनिनयने चमसकरणत्वं विधाय तत्प्रशंसनं, चमसस्यौदुम्बरत्वं चतुष्कोणत्वं च विधाय तयोः प्रशंसनं, चतसृषु चतसृषु सीतासु त्रयाणां त्रयाणामुदचमसानां निनयनं विधाय तत्प्रशंसनं, कृष्टप्रदेशे द्वादशभिरुदचमसैर्निनयनं विधाय तत्प्रशंसनं, तस्योदकनिनयनस्य कृष्टक्षेत्राधिकरणत्वमनूद्य तत्प्रशंसनं, कृष्टाकृष्टात्मके प्रदेशे यदुदकनिनयनं विहितं तत्करणचमसानामपि त्रिसंख्यामुपजीव्य प्रशंसनम् , उक्तेऽर्थे पुरावृत्तस्य प्रतिपादनं, पूर्ववच्चतसृषु चतसृषु सीतासु त्रयाणां त्रयाणामुदचमसानां निनयनं विधाय तत्प्रशंसनं, कृष्टप्रदेशे द्वादशभिरुदचमसैर्निनयनं विधाय. तत्प्रशंसनं, कृष्टप्रदेशे उदकनिनयनस्य प्राणाधिकरणनिनयनरूपतायाः प्रतिपादनं, कृष्टाकृष्टयोरुदकनिनयनचमसगतं त्रित्वमनूद्य तस्याप्यपां निधानहेतुतायाः प्रतिपादनं, पृथग्विहितामुदचमससंख्यां सम्भूय तस्याः प्रशंसनं, प्रकृते औदुम्बरचमसे सर्वधान्यानामावापविधानम् , उक्तं धान्यगतसर्वत्वनूद्य तत्स्तवनम् , उप्तानामन्नानां मध्ये एकस्यौषधिरूपस्य बीजस्य वर्जनविधानं तत्र धर्मविशेषविधानं च, उदकनिनयनवद्बीजावपनेऽपि चतुरस्रस्यौदुम्बरचमसस्य करणत्वेन विधानं, बीजावपनस्य मन्त्रगतछन्दोद्वारा प्रशंसनं, बीजावापसाधनभूतो ह्यनुवाकः पञ्चतृचात्मकः तत्र सर्वत्र क्रमेण तृचैरेवौषधिवापः कर्तव्य इति सार्थवादं विधानं, कृष्टप्रदेशे द्वादशभिर्ऋग्भिर्वपनं विधाय तत्प्रशंसनं, बीजावापस्य क्षेत्राधिकरणत्वमनूद्य तस्य प्रशंसनं, कृष्टाकृष्टात्मके यद्बीजावपनं विहितं तत्करणमन्त्राणामपि त्रिसंख्यामुपजीव्य प्रशंसनं, एवमन्नचितिरूपेण बीजावापं प्रशंस्य भेषजरूपेणापि तस्य प्रशंसनं, पूर्ववत्सर्वत्वमनूद्य तत्प्रशंसनं, तृचकरणकं बीजावपनमनूद्य तस्यापि भेषजरूपत्वेन प्रशंसनं, चतसृषु सीतासु करणमन्त्राणां द्वादशसंख्यामनूद्य तस्या अपि भेषजरूपत्वेन प्रशंसनं, कृष्टप्रदेशे वपनस्य प्राणभैषज्यरूपताया अभिधानं, कृष्टाकृष्टबीजावपने च मन्त्रगतं त्रित्वमनूद्य तस्यापि भेषजहेतुत्वाभिधानम् , उदचमससंख्यां बीजावापमन्त्रसंख्यां चानूद्य सम्भूय च तयोः प्रशंसनं, बीजावापमन्त्रपदानामनुवादपूर्वकमभिप्रायप्रदर्शनपुरःसरं च मन्त्रव्याख्यानं, उक्तमृग्द्वयव्याख्यानमुत्तरास्वृक्ष्वपि समानमिति तस्यातिदेशकथनम् , अतिदिष्टस्य व्याख्यानस्य यथावन्नियोजनं, ऋचां छन्दोद्वारा भेषजहेतुत्वनिरूपणं, विहितानामनुडुद्योजनाद्योषधिवापान्तानां कर्मणां समन्त्रकामन्त्रकत्वं सम्भूय तत्प्रशंसनं, निरुक्तानिरुक्तानि कर्माण्यनूद्य चित्याग्निरूपस्य प्रजापतेरपि निरुक्तानिरुक्तभेदेन परिमितापरिमितभेदेन च द्विरूपत्वस्याभिधानं, समन्त्रकेण निरुक्तेनानुडुद्योजनादिकर्मणा निरुक्तभागस्येतरेणेतरभागस्य च संस्कारं विभज्य तस्य योजनं, विद्वदनुष्ठानस्य प्रशंसनं, बाह्याभ्यन्तरभावेन निरुक्तानिरुक्तत्वधर्मयोगाच्चित्याग्नेः पशुरूपतां सम्पाद्य तस्याः प्रशंसनं चेत्यादि.