शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/तृतीयं ब्राह्मणम्

विकिस्रोतः तः

७.२.३ दर्भस्तम्बोपधानम्

अथ दर्भस्तम्बमुपदधाति । एतद्वै देवा ओषधीरुपादधत तथैवैतद्यजमान ओषधीरुपधत्ते - ७.२.३.[१]

यद्वेव दर्भस्तम्बमुपदधाति । जायत एष एतद्यच्चीयते स एष सर्वस्माऽअन्नाय जायत उभयम्वेतदन्नं यद्दर्भा आपश्च ह्येता ओषधयश्च या वै वृत्राद्बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्यद्दृभन्त्य उदायंस्तस्माद्दर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा यदु दर्भास्तेनौषधय उभयेनैवैन्मेतदन्नेन प्रीणाति - ७.२.३.[२]

सीतासमरे । वाग्वै सीतासमरः प्राणा वै सीतास्तासामयं समयो वाचि वै प्राणेभ्योऽन्नं धीयते मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्नं दधाति - ७.२.३.[३]

अथैनमभिजुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वस्योऽअस्यैष रसो यदाज्यमपां च ह्येष ओषधीनां च रसोऽस्यैवैनमेतत्सर्वस्य रसेन प्रीणाति यावानु वै रसस्तावानात्माऽनेनैवैनमेतत्सर्वेणस्य प्रीणाति पञ्चगृहीतेन पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ७.२.३.[४]

यद्वेवैनमभिजुहोति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वंस्तदस्मिन्नेतं पुरस्ताद्भागमकुर्वत तस्मात्पुरस्ताद्भागास्तद्यदभिजुहोति य एवास्मिंस्ते प्राणा ऋषयः
पुरस्ताद्भागमकुर्वत तानेवैतत्प्रीणात्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः - ७.२.३.[५]

यद्वेवैनमभिजुहोति । एतद्वै यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति यान्त्स्तोमान्यानि पृष्ठानि यानि छन्दांसि तेभ्य एतं पुरस्ताद्भागं करोति तान्येवैतत्प्रीणात्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः - ७.२.३.[६]

यद्वेवैनमभिजुहोति । एतद्वै देवा अबिभयुर्दीर्घं वा इदं कर्म यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतामेतस्य कर्मणः पुरस्तात्संस्थामपश्यंस्तमत्रैव सर्वं समस्थापयन्नत्राचिन्वंस्तथैवैनमयमेतदत्रैव सर्वं संस्थापयत्यत्र चिनोति - ७.२.३.[७]

सजूरब्द इति चितिः । अयवोभिरिति पुरीषं सजूरुषा इति चितिररुणीभिरिति पुरीषं
सजोषसावश्विनेति चितिर्दंसोभिरिति पुरीषं सजूः सूर इति चितिरेतशेनेति पुरीषं सजूर्वैश्वानर इति चितिरिडयेति पुरीषं घृतेनेति चितिः स्वेति पुरीषं हेति चितिः - ७.२.३.[८]

त्रयोदशैता व्याहृतयो भवन्ति । त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्याज्येन जुहोत्यग्निरेष यदाज्यमग्निमेवैतच्चिनोति पञ्चगृहीतेन पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्यूर्ध्वामुद्गृह्णन्जुहोत्यूर्ध्वं तदग्निं चितिभिश्चिनोति - ७.२.३.[९]