शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/द्वितीयं ब्राह्मणम्

विकिस्रोतः तः
Jump to navigation Jump to search

७.२.२

अथ प्रायणीयं निर्वपति । तस्य हविष्कृता वाचं विसृजते वाचं विसृज्य स्तम्बयजुर्हरति स्तम्बयजुर्हृत्वा पूर्वेण परिग्रहेण परिगृह्य लिखित्वाऽऽह हर त्रिरिति हरति त्रिराग्नीध्रः - ७.२.२.[१]

प्रत्येत्य प्रायणीयेन प्रचरति । प्रायणीयेन प्रचर्य सीरं युनक्त्येतद्वा एनं देवाः संस्करिष्यन्तः पुरस्तादन्नेन समार्धयंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तादन्नेन समर्धयति सीरम्भवति सेरं हैतद्यत्सीरमिरामेवास्मिन्नेतद्दधाति - ७.२.२.[२]

औदुम्बरं भवति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति मौञ्जं परिसीर्यं त्रिवृत्तस्योक्तो बन्धुः - ७.२.२.[३]

सोऽग्नेर्दक्षिणां श्रोणिम् । जघनेन तिष्ठन्नुत्तरस्यांसस्य पुरस्ताद्युज्यमानमभिमन्त्रयते सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये विद्वांसस्ते कवयस्ते सीरं च युञ्जन्ति युगानि च वितन्वते पृथग्धीरा देवेषु सुम्नयेति यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वाना इत्येतत् - ७.२.२.[४]

युनक्त सीरा वि युगा तनुध्वमिति । युञ्जन्ति हि सीरं वि युगानि तन्वन्ति कृते योनौ वपतेह बीजमिति बीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वा अयोनौ रेतः सिञ्चेदेवं तद्यदकृष्टे वपति गिरा च श्रुष्टिः सभरा असन्न इति वाग्वै गीरन्नं
श्रुष्टिर्नेदीय इत्सृण्यः पक्वमेयादिति यदा वा अन्नं पच्यतेऽथ तत्सृण्योपचरन्ति द्वाभ्यां युनक्ति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः - ७.२.२.[५]

स दक्षिणमेवाग्रे युनक्ति । अथ सव्यमेवं देवत्रेतरथा मानुषे षड्गवम्भवति द्वादशगवं वा चतुर्विंशतिगवं वा संवत्सरमेवाभिसम्पदम् - ७.२.२.[६]

अथैनं विकृषति । अन्नं वै कृषिरेतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादन्नमदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादन्नं दधाति - ७.२.२.[७]

स वा आत्मानमेव विकृषति । न पक्षपुच्छान्यात्मंस्तदन्नं दधाति यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ यत्पक्षपुच्छेषु नैव तदात्मानमवति न पक्षपुच्छानि - ७.२.२.[८]

स दक्षिणार्द्धेनाग्नेः । अन्तरेण परिश्रितः प्राचीं प्रथमां सीतां कृषति शुनं सुफाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैरिति शुनं शुनमिति यद्वै समृद्धं तच्छुनं समर्धयत्येवैनामेतत् - ७.२.२.[९]

अथ जघनार्धेनोदीचीम् । घृतेन सीता मधुना समज्यतामिति यथैव यजुस्तथा बन्धुर्विश्वैर्देवैरनुमता मरुद्भिरिति विश्वे च वै देवा मरुतश्च वर्षस्येशत ऊर्जस्वती पयसा पिन्वमानेति रसो वै पय ऊर्जस्वती रसेनान्नेन पिन्वमानेत्येतदस्मान्त्सीते पयसाऽभ्याववृत्स्वेत्यस्मान्त्सीते रसेनाभ्याववृत्स्वेत्येतत् - ७.२.२.[१०]

अथोत्तरार्धेन प्राचीं । लाङ्गलं पवीरवदिति लाङ्गलं रयिमदित्येतत्सुशेवं सोमपित्सर्वित्यन्नं वै सोमस्तदुद्वपति गामविं प्रफर्व्यं च पीवरीं प्रस्थावद्रथवाहणमित्येतद्धि सर्वं सीतोद्वपति - ७.२.२.[११]

अथ पूर्वार्धेन दक्षिणाम् । कामं कामदुघे धुक्ष्व मित्राय वरुणाय च इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्य इति सर्वदेवत्या वै कृषिरेताभ्यो देवताभ्यः सर्वान्कामान्धुक्ष्वेत्येतदित्यग्रे कृषत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा - ७.२.२.[१२]

चतस्रः सीता यजुषा कृषति । तद्यच्चतसृषु दिक्ष्वन्नं तदस्मिन्नेतद्दधाति तद्वै यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः - ७.२.२.[१३]

अथात्मानं विकृषति । तद्यदेव संवत्सरेऽन्नं तदस्मिन्नेतद्दधाति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्नं दधातीत्यग्रे कृषत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा - ७.२.२.[१४]

तिस्रस्तिस्रः सीताः कृषति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.२.[१५]

द्वादश सीतास्तूष्णीं कृषति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.२.[१६]

ता उभय्यः षोडश सम्पद्यन्ते । षोडशकलः प्रजापतिः प्रजापतिरग्निरात्मंसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - ७.२.२.[१७]

यद्वेवैनं विकृषति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तात्प्राणानदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तात्प्राणान्दधाति लेखा भवन्ति लेखासु हीमे प्राणाः - ७.२.२.[१८]

चतस्रः सीता यजुषा कृषति । तद्य इमे शीर्षंश्चत्वारो निरुक्ताः प्राणास्तानस्मिन्नेतद्दधाति तद्वै यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यदिमे शीर्षन्प्राणाः - ७.२.२.[१९]

यद्वेवात्मानं विकृषति । य एवेमेऽन्तरात्मन्प्राणास्तानस्मिन्नेतद्दधाति तूष्णीं को हि तद्वेद यावन्त इमेऽन्तरात्मन्प्राणाः - ७.२.२.[२०]

अथैनान्विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनान्युङ्क्ते विमुच्यध्वमघ्न्या इत्यघ्न्या हैते देवत्रा देवयाना इति दैवं ह्येभिः कर्म करोत्यगन्म तमसस्पारमस्येत्यशनाया वै तमोऽगन्मास्या अशनायायै पारमित्येतज्ज्योतिरापामेति ज्योतिर्ह्याप्नोति यो देवान्यो यज्ञमथैनानुदीचः प्राचः प्रसृजति तस्योक्तो बन्धुस्तानध्वर्यवे ददाति स हि तैः करोति तांस्तु दक्षिणानां कालेऽनुदिशेत् - ७.२.२.[२१]