शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/चतुर्थं ब्राह्मणम्

विकिस्रोतः तः

७.२.४ अपां निनयनं सर्वौषधवपनं च

अथोदचमसान्निनयति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ७.२.४.१

उदचमसा भवन्ति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधात्यौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो वृष्टिं दधाति - ७.२.४.२

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.३

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.४

स वै कृष्टे निनयति । तस्मात्कृष्टाय वर्षति स यत्कृष्ट एव निनयेन्नाकृष्टे कृष्टायैव वर्षेन्नाकृष्टायाथ यदकृष्ट एव निनयेन्न कृष्टे अकृष्टायैव वर्षेन्न कृष्टाय कृष्टे चाकृष्टे च निनयति तस्मात्कृष्टाय चाकृष्टाय च वर्षति - ७.२.४.५

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.६

यद्वेवोदचमसान्निनयति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादपोदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादपो दधाति - ७.२.४.७

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.८

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.९

स वै कृष्टे निनयति । प्राणेषु तदपो दधाति स यत्कृष्ट एव निनयेन्नाकृष्टे प्राणेष्वेवापः स्युर्नेतरस्मिन्नात्मन्नथ यदकृष्ट एव निनयेन्न कृष्ट आत्मन्नेवापः स्युर्न प्राणेषु कृष्टे चाकृष्टे च निनयति तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च - ७.२.४.१०

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.११

पञ्चदशोदचमसान्निनयति । पञ्चदशो वै वज्र एतेनैवास्यैतत्पञ्चदशेन वज्रेण सर्वं पाप्मानमपहन्ति - ७.२.४.१२

अथ सर्वौषधं वपति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना अन्नमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ७.२.४.१३

सर्वौषधं भवति । सर्वमेव तदन्नं यत्सर्वौषधं सर्वमेवास्मिन्नेतदन्नं दधाति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्योऽन्नं दधात्यनुष्टुब्भिर्वपति वाग्वा अनुष्टुब्वाचो वा अन्नमद्यते - ७.२.४.१४

तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१५

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१६

स वै कृष्टे वपति । तस्मात्कृष्टेऽन्नं पच्यते यत्कृष्ट एव वपेन्नाकृष्टे कृष्ट एवान्नं पच्येत नाकृष्टेऽथ यदकृष्ट एव वपेन्न कृष्टेऽकृष्ट एवान्नं पच्येत न कृष्टे कृष्टे चाकृष्टे च वपति तस्मात्कृष्टे चाकृष्टे चान्नं पच्यते - ७.२.४.१७

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१८

यद्वेव सर्वौषधं वपति । एतद्वा एनं देवाः संस्करिष्यन्तः पुरस्तात्सर्वेण भेषजेनाभिषज्यंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तात्सर्वेण भेषजेन भिषज्यति - ७.२.४.१९

सर्वौषधं भवति । सर्वमेतद्भेषजं यत्सर्वौषधं सर्वेणैवैनमेतद्भेषजेन भिषज्यति - ७.२.४.२०

तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२१

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२२

स वै कृष्टे वपति । प्राणांस्तद्भिषज्यति स यत्कृष्ट एव वपेन्नाकृष्टे प्राणानेव भिषज्येन्नेतरमात्मानमथ यदकृष्ट एव वपेन्न कृष्ट आत्मानमेव भिषज्येन्न प्राणान्कृष्टे चाकृष्टे च वपति प्राणांश्च तदात्मानं च भिषज्यति - ७.२.४.२३

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२४

पञ्चदशोदचमसान्निनयति पञ्चदशभिर्ऋग्भिर्वपति तत्त्रिंशत्त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति - ७.२.४.२५

या ओषधीः पूर्वा जाताः । देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नु बभ्रूणामहमिति सोमो वै बभ्रुः सौम्या ओषधय ओषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः शतवीर्यः एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्तशीर्षन्प्राणास्तानेतदाह - ७.२.४.२६

शतं वो अम्ब धामानि । सहस्रमुत वो रुह इति यदिदं शतधा च सहस्रधा च विरूढा अधा शतक्रत्वो यूयमिमं मे अगदं कृतेति यमिमं भिषज्यामीत्येतत् - ७.२.४.२७

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव भिषज्येदेतं पारयेत्ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुब्वागु सर्वं भेषजं सर्वेणैवैनमेतद्भेषजेन भिषज्यति - ७.२.४.२८

अथातो निरुक्तानिरुक्तानामेव । यजुषा द्वावनड्वाहौ युनक्ति तूष्णीमितरान्यजुषा
चतस्रः कृषति तूष्णीमितरास्तूष्णीं दर्भस्तम्बमुपदधाति यजुषाभिजुहोति तूष्णीमुदचमसान्निनयति यजुषा वपति - ७.२.४.२९

प्रजापतिरेषोऽग्निः । उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमितं रूपं तदस्य तेन संस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्तरोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वानेतदेवं करोति बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि पशुरेष यदग्निस्तस्मात्पशोर्बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि - ७.२.४.३०