सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ६/अध्यायः १

विकिस्रोतः तः

ब्राह्मणम् १

१ अथाग्निचित्या-तत्र हिरण्यगर्भकर्तृकसृष्टेराम्नानं, तत्प्रसङ्गात्प्रश्नोत्तराभ्यामृषिशब्दनिर्वचनं मध्यमप्राणस्य सर्वेन्द्रियपोषणद्वारा इन्द्रशब्दवाच्यत्वाभिधानं, ऋषिशरीरशब्दयोर्निर्वचनसमेतं नानापुरुषोत्पत्तिद्वारा सर्वावयवसम्पन्नस्यैकस्य विराडात्मकपुरुषस्योद्भवमभ्याधाय तस्याग्निरूपत्वाभिधानं, विराटपुरुषस्य चित्याग्नेश्च साम्यत्वोपपादनं, विराडात्मकस्य सप्तपुरुषसम्मितस्य चित्याग्नेः शिरसो दर्शनं, चयनोपयुक्तायाः सृष्टेराम्नानं, तस्यां च त्रयीलक्षणब्रह्मणोऽणमाण्डस्य चोत्पत्तेः कथनम् आण्डान्मेषाग्न्यश्वरासभाजानां पशूनामुत्पत्तेःकथनं ततः पृथिव्या उत्पत्तिमभिधाय तत्सकाशाच्छुष्कार्द्रमृदादीनां नवानामुत्पत्तेरभिधानं, भूमेरग्नेश्च गायत्रत्वसम्पादनं चेत्यादि.

ब्राह्मणम् २

२ वाय्वन्तरिक्षादिसृष्टिः प्रजापतेश्चित्याग्निरूपता च-तत्र प्रथमं पृथिव्यग्न्योर्मिथुनाद्वायोर्वाय्वन्तरिक्षयोर्मिथुनादादित्यस्यादित्यद्युलोकयोर्मिथुनाच्चन्द्रमोनक्षत्रावान्तरदिङ्महादिशां वाङ्मनसयोर्मिथुनाद्वसुरुद्रादित्यविश्वेदेवानां चोत्पत्तेरभिधानं, केषाञ्चिन्मतेन वसुरुद्रादित्यविश्वेदेवानामुत्पत्तेरग्निपूर्वकत्वप्रद र्शनम् , अपरमतेन प्रजापतेरेव सर्वसृष्टेरभिधानम्-अत्रार्थे श्रुतिसम्मतेः प्रदर्शनं च, सर्वोत्पादकस्य प्रजापतेश्चित्याग्निरूपताया आख्यायिकया प्रदर्शनं, तस्यां च सफलं सकारणं प्रश्नोत्तररूपेण सन्धानप्रकारनिरूपणं, प्रसङ्गाद्धितोपहितशब्दयोरर्थप्रदर्शनं चितिसंख्याप्रदर्शनपुरःसरं सार्थवादं प्रजापतेश्चित्यत्वप्रदर्शनं, चित्योपरि निधीयमानस्याहवनीयस्याग्नेरादित्यरूपत्वाभिधानं, प्रजापतेर्देवैः सन्धानप्रकारकथनं भैषज्यकरणप्रकारकथनं च, इष्टकाशब्दस्य निर्वचनम् , अक्ताक्ष्यमतेन यजुष्मतीष्टका भूयस्वेनोपधेयास्ताण्ड्यमतेन लोकम्पृणेष्टका भूयस्त्वेनोपधेया इति सोपपत्तिकं मतद्वयमभिधाय तद्दूषयित्वा च वास्तविकोऽनुष्ठानप्रकारस्तूभयविलक्षणोऽस्तीति निरूपणं, प्रजापतेरग्निना देवैश्च सन्धाने कृते सम्पद्यमानमर्थं प्रदर्श्य तद्वेदितुः फलकथनं, प्रागुक्तस्य प्राणे वाचो निधानरूपस्यार्थस्यात्रेष्टकोपनिधानमन्त्रे प्रदर्शनं, वाक्प्राणयोरग्नीन्द्रत्वरूपेण प्रशंसनं, चित्याग्नेरिन्द्राग्निदेवत्यत्वप्रख्यापनायेन्द्राग्न्योः सर्वदेवतात्मना प्रशंसनं, भूमावेवेष्टकाचयनं कर्तव्यमित्यस्य प्रश्नोत्तराभ्यामुपपादनम् , इष्टकायाश्चतुःसक्तित्वरूपगुणस्याभिधानं, पञ्चेष्टकानां प्रश्नोत्तरपूर्वकमुपपादनं, सोपपत्तिकपूर्वोत्तरपक्षाभ्यां चितानामिष्टकानामाहवनीयाग्निरेव शिर इति सिद्धान्तस्थापनं, चयने पशुशीर्षोपधानात्पश्विष्टकेत्युक्तम् , तत्र पशूनां संख्याप्रतिवचनव्याजेनेष्टकानां लोकद्वयात्मकत्वनिरूपणं, मृत्तिकोदकसम्पादनीयानामिष्टकानां पशुरूपत्वस्य प्रश्नोत्तराभ्यां प्रदर्शनं. पशुद्वित्वप्रतिवचनेन लोकद्वयात्मकेष्टकाचितस्याग्नेः सर्वलोकात्मकत्वनिरूपणम्, अग्निचयनस्य स्वर्गप्रापणरूपं फलं केषाञ्चिन्मतेन पूर्वपक्षयित्वा तद्दूषयित्वा च सिद्धान्ते प्रजापतिभवनरूपमेव फलमिति निरूपणं चेत्यादि.


ब्राह्मणम् ३

३ सोपपत्तिकं चयनोपयुक्तानामप्फेनमृत्सिकताशर्कराश्मायोहिरण्यानामष्टानां रूपाणामुत्पत्त्यभिधानं, भूमेर्गायत्रीत्वोपपादनं, भूमेः पृथिवीशब्दवाच्यत्वे प्रवृत्तिनिमित्तकथनं, कुमारोत्पत्तेः सविशेषं निरूपणं, भूतादिशब्दानामर्थकथनम् , उत्पन्नस्य कुमारस्याष्टानां पृथिव्यप्तेजोवाय्वाकाशसूर्यचन्द्रयजमानाख्यानां रूपाणां रुद्रशर्वपशुपत्युग्राशनिभवमहादेवेशानानां नाम्नां च सोपपत्तिकं सार्थवादं निरुपणं, "कुमारः" इति नवमं नामेत्यभिधानम् , उक्ताया नवसंख्यायास्त्रिवृदात्मना प्रशंसनं, नामगताष्टसंख्याया गायत्र्यात्मना प्रशंसनं, संवत्सरान्ते संवत्सरद्वयान्ते वा चयनानुष्ठानमनुवचनं च कर्तव्यमिति पक्षद्वयं प्रतिपाद्य तत्र द्वितीये पक्षे उपपत्तिं च प्रदर्श्य सिद्धान्ततया प्रथमपक्षस्यैव सहेतुकं निगमनं, चितस्याग्नेश्चित्रत्वोपपादनसहितं चयनसम्बन्धाच्चित्रनाम सम्पन्नमिति निरूपणं चेत्यादि.