शतपथब्राह्मणम्/काण्डम् ६/अध्यायः १/ब्राह्मणम् १

विकिस्रोतः तः


६.१.१ अथाग्निचित्याब्राह्मणम्

असद्वा इदमग्र आसीत् । तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत्तदाहुः के त ऽऋषय इति प्राणा वा ऋषयस्ते यत्पुराऽस्मात्सर्वस्मादिदमिच्छन्तः श्रमेण तपसारिषंस्तस्मादृषयः - ६.१.१.१

स योऽयं मध्ये प्राणः । एष एवेन्द्रस्तानेष प्राणान्मध्यत इन्द्रियेणैन्द्ध यदैन्द्ध तस्मादिन्ध इन्धो ह वै तमिन्द्र इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्त इद्धाः सप्त नाना पुरुषानसृजन्त - ६.१.१.२

तेऽब्रुवन् । न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुमिमान्त्सप्त पुरुषानेकम्पुरुषं करवामेति त एतान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्यदूर्ध्वं नाभेस्तौ द्वौ समौब्जन्यदवाङ्नाभेस्तौ द्वौ पक्षः पुरुषः पक्षः पुरुषः प्रतिष्ठैक आसीत् - ६.१.१.३

अथ यैतेषां सप्तानां पुरुषाणां श्रीः । यो रस आसीत्तमूर्ध्वं समुदौहंस्तदस्यशिरोऽभवद्यच्छ्रियं समुदौहंस्तस्माच्छिरस्तस्मिन्नेतस्मिन्प्राणा अश्रयन्त तस्माद्वेवैतच्छिरोऽथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियोऽथ यत्सर्वस्मिन्नश्रयन्त तस्मादु शरीरम् - ६.१.१.४

स एव पुरुषः प्रजापतिरभवत् । स यः स पुरुषः प्रजापतिरभवदयमेव स योऽयमग्निश्चीयते - ६.१.१.५

स वै सप्तपुरुषो भवति । सप्तपुरुषो ह्ययं पुरुषो यच्च्त्वार आत्मा त्रयः पक्षपुच्छानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुच्छान्यथ यदेकेन पुरुषेणात्मानं वर्धयति तेन वीर्येणायमात्मा पक्षपुच्छान्युद्यच्छति - ६.१.१.६

अथ यश्चितेऽग्निर्निधीयते । यैवैतेषां सप्तानां पुरुषाणां श्रीर्यो रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतच्छिरस्तस्मिन्त्सर्वे देवाः श्रिता अत्र हि सर्वेभ्यो देवेभ्यो जुह्वति तस्माद्वेवैतच्छिरः - ६.१.१.७

सोऽयं पुरुषः प्रजापतिरकामयत भूयान्त्स्यां प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयीमेव विद्यां सैवास्मै प्रतिष्ठाऽभवत्तस्मादाहुर्ब्रह्मास्य सर्वस्य प्रतिष्ठेति तस्मादनूच्य प्रतितिष्ठति प्रतिष्ठा ह्येषा यद्ब्रह्म तस्यां प्रतिष्ठायां प्रतिष्ठितोऽतप्यत - ६.१.१.८

सोऽपोऽसृजत । वाच एव लोकाद्वागेवास्य साऽसृज्यत सेदं सर्वमाप्नोद्यदिदं किं च यदाप्नोत्तस्मादापो यदवृणोत्तस्माद्वाः - ६.१.१.९

सोऽकामयत । आभ्योऽद्भ्योऽधि प्रजायेयेति सोऽनया त्रय्या विद्यया सहापः प्राविशत्तत आण्डं समवर्तत तदभ्यमृशदस्त्वित्यस्तु भूयोऽस्त्वित्येवतदब्रवीत्ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या तस्मादाहुर्ब्रह्मास्य सर्वस्य प्रथमजमित्यपि हि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत तदस्य तन्मुखमेवासृज्यत तस्मादनूचानमाहुरग्निकल्प इति मुखं ह्येतदग्नेर्यद्ब्रह्म - ६.१.१.१०

अथ यो गर्भोऽन्तरासीत् । सोऽग्रिरसृज्यत स यदस्य सर्वस्याग्रमसृज्यत तस्मादग्रिरग्रिर्ह वै तमग्निरित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अथ यदश्रु संक्षरितमासीत्सोऽश्रुरभवदश्रुर्ह वै तमश्व इत्याचक्षते परोऽक्षम्परोऽक्षकामा हि देवा अथ यदरसदिव स रासभोऽभवदथ यः कपाले रसो लिप्त आसीत्सोऽजोऽभवदथ यत्कपालमासीत्सा पृथिव्यभवत् - ६.१.१.११

सोऽकामयत । आभ्योऽद्भ्योऽधीमां प्रजनयेयमिति तां संक्लिश्याप्सु प्राविध्यत्तस्यै यः पराङ्रसोऽत्यक्षरत्स कूर्मोऽभवदथ यदूर्ध्वमुदौक्ष्यतेदं तद्यदिदमूर्ध्वमद्भ्योऽधि जायते सेयं सर्वाप एवानुव्यैत्तदिदमेकमेव रूपं समदृश्यताप एव - ६.१.१.१२

सोऽकामयत । भूय एव स्यात्प्रजायेतेति सोऽश्राम्यत्स तपोऽतप्यत स श्रान्तस्तेपानः फेनमसृजत सोऽवेदन्यद्वा एतद्रूपं भूयो वै भवति श्राम्याण्येवेति स श्रान्तस्तेपानो मृदं शुष्कापमूषसिकतं शर्करामश्मानमयो हिरण्यमोषधिवनस्पत्यसृजत तेनेमां पृथिवीं प्राच्छादयत् - ६.१.१.१३

ता वा एता नव सृष्टयः । इयमसृज्यत तस्मादाहुस्त्रिवृदग्निरितीयं ह्यग्निरस्यै हि सर्वोऽग्निश्चीयते - ६.१.१.१४

अभूद्वा इयं प्रतिष्ठेति । तद्भूमिरभवत्तामप्रथयत्सा पृथिव्यभवत्सेयं सर्वा कृत्स्ना मन्यमानाऽगायद्यदगायत्तस्मादियं गायत्र्यथो आहुरग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायद्यदगायत्तस्मादग्निर्गायत्र इति तस्मादुहैतद्यः सर्वः कृत्स्नो मन्यते गायति वैव गीते वा रमते - ६.१.१.१५