शतपथब्राह्मणम्/काण्डम् ६/अध्यायः १/ब्राह्मणम् ३

विकिस्रोतः तः
Jump to navigation Jump to search


६.१.३

प्रजापतिर्वा इदमग्र आसीत् । एक एव सोऽकामयत स्यां प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्माच्छ्रान्तात्तेपानादापोऽसृज्यन्त तस्मात्पुरुषात्तप्तादापो जायन्ते - ६.१.३.[१]

आपोऽब्रुवन् । क्व वयं भवामेति तप्यध्वमित्यब्रवीत्ता अतप्यन्त ताः फेनमसृजन्त तस्मादपां तप्तानां फेनो जायते - ६.१.३.[२]

फेनोऽब्रवीत् । क्वाहं भवानीति तप्यस्वेत्यब्रवीत्सोऽतप्यत स मृदमसृजतैतद्वै फेनस्तप्यते यदप्स्वावेष्टमानः प्लवते स यदोपहन्यते मृदेव भवति - ६.१.३.[३]

मृदब्रवीत् । क्वाहं भवानीति तप्यस्वेत्यब्रवीत्साऽतप्यत सा सिकता असृजतैतद्वै मृत्तप्यते यदेनां विकृषन्ति तस्माद्यद्यपि सुमार्त्स्नं विकृषन्ति सैकतमिवैव भवत्येतावन्नु तद्यत्क्वाहं भवानि क्वाहं भवानीति - ६.१.३.[४]

सिकताभ्यः शर्करामसृजत । तस्मात्सिकताः शर्करैवान्ततो भवति शर्कराया अश्मानं तस्माच्छर्कराश्मैवान्ततो भवत्यश्मनोऽयस्तस्मादश्मनोऽयो धमन्त्ययसो हिरण्यं तस्मादयो बहुध्मातं हिरण्यसंकाशमिवैव भवति - ६.१.३.[५]

तद्यदसृज्यताक्षरत् तद्यदक्षरत्तस्मादक्षरं यदष्टौ कृत्वोऽक्षरत्सैवाष्टाक्षरा गायत्र्य भवत् - ६.१.३.[६]

अभूद्वा इयं प्रतिष्ठेति । तद्भूमिरभवत्तामप्रथयत्सा पृथिव्यभवत्तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त भूतानां पतिर्गृहपतिरासीदुषाः पत्नी - ६.१.३.[७]

तद्यानि तानि भूतानि । ऋतवस्तेऽथ यः स भूतानां पतिः संवत्सरः सोऽथ या सोषाः पत्न्यौषसी सा तानीमानि भूतानि च भूतानां च पतिः संवत्सर उषसि रेतोऽसिञ्चन्त्स संवत्सरे कुमारोऽजायत सोऽरोदीत् - ६.१.३.[८]

तं प्रजापतिरब्रवीत् । कुमार किं रोदिषि यच्छ्रमात्तपसोऽधि जातोऽसीति सोऽब्रवीदनपहतपाप्मा वा अस्म्यहितनामा नाम मे धेहीति तस्मात्पुत्रस्य जातस्य नाम कुर्यात्पाप्मानमेवास्य तदपहन्त्यपि द्वितीयमपि तृतीयमभिपूर्वमेवास्य तत्पाप्मानमपहन्ति - ६.१.३.[९]

तमब्रवीद्रुद्रोऽसीति । तद्यदस्य तन्नामाकरोदग्निस्तद्रूपमभवदग्निर्वै रुद्रो यदरोदीत्तस्माद्रुद्रः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[१०]

तमब्रवीत्सर्वोऽसीति । तद्यदस्य तन्नामाकरोदापस्तद्रूपमभवन्नापो वै सर्वोऽद्भ्यो हीदं सर्वं जायते सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[११]

तमब्रवीत्पशुपतिरसीति । तद्यदस्यतन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्तस्माद्यदा पशव ओषधीर्लभन्तेऽथ पतीयन्ति सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[१२]

तमब्रवीदुग्रोऽसीति । तद्यदस्य तन्नामाकरोद्वायुस्तद्रूपमभवद्वायुर्वा उग्रस्तस्माद्यदा बलवद्वायुग्रो वातीत्याहुः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[१३]

तमब्रवीदशनिरसीति । तद्यदस्य तन्नामाकरोद्विद्युत्तद्रूपमभवद्विद्युद्वा अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरवधीदित्याहुः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[१४]

तमब्रवीद्भवोऽसीति । तद्यदस्य तन्नामाकरोत्पर्जन्यस्तद्रूपमभवत्पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति - ६.१.३.[१५]

तमब्रवीन्महान्देवोऽसीति । तद्यदस्य तन्नामाकरोच्चन्द्रमास्तद्रूपमभवत्प्रजापतिर्वै चन्द्रमाः प्रजापतिर्वैमहान्देवः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति- ६.१.३.[१६]

तमब्रवीदीशानोऽसीति । तद्यदस्य तन्नामाकरोदादित्यस्तद्रूपमभवदादित्यो वा ईशान आदित्यो ह्यस्य सर्वस्येष्टे सोऽब्रवीदेतावान्वा अस्मि मा मेतः परो नाम धा इति - ६.१.३.[१७]

तान्येतान्यष्टावग्निरूपाणि । कुमारो नवमः सैवाग्नेस्त्रिवृत्ता - ६.१.३.[१८]

यद्वेवाष्टावग्निरूपाणि । अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रोऽग्निरिति सोऽयं कुमारो रूपाण्यनुप्राविशन्न वा अग्निं कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि पश्यन्त्येतानि हि रूपाण्यनुप्राविशत् - ६.१.३.[१९]

तमेतं संवत्सर एव चिनुयात् । संवत्सरेऽनुब्रूयाद्द्योरित्यु हैक आहुः संवत्सरे वै तद्रेतोऽसिञ्चन्त्स संवत्सरे कुमारोऽजायत तस्माद्द्योरेव चिनुयाद्द्वयोरनुब्रूयादिति संवत्सरे त्वेव चिनुयात्संवत्सरेऽनुब्रूयाद्यद्वाव रेतः सिक्तं तदेव जायते तत्ततो विक्रियमाणमेव वर्धमानं शेते तस्मात्संवत्सर एव चिनुयात्संवत्सरेऽनुब्रूयात्तस्य चितस्य नाम करोति पाप्मानमेवास्य तदपहन्ति चित्रनामानं करोति चित्रोऽसीति सर्वाणि हि चित्राण्यग्निः - ६.१.३.[२०]