शतपथब्राह्मणम्/काण्डम् ६/अध्यायः १/ब्राह्मणम् २

विकिस्रोतः तः

६.१.२ वाय्वन्तरिक्षादिसृष्टिः प्रजापतेश्चित्याग्निरूपता च


सोऽकामयत प्रजापतिः । भूय एव स्यात्प्रजायेतेति सोऽग्निना पृथिवीं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशत्पुष्यत्विति पुष्यतु भूयोऽस्त्वित्येव तदब्रवीत् - ६.१.२.१

स यो गर्भोऽन्तरासीत् । स वायुरसृज्यताथ यदश्रु संक्षरितमासीत्तानि वयांस्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता मरीचयोऽभवन्नथ यत्कपालमासीत्तदन्तरिक्षमभवत् - ६.१.२.२

सोऽकामयत । भूय एव स्यात्प्रजायेतेति स वायुनान्तरिक्षं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्यशो बिभृहीति ततोऽसावादित्योऽसृज्यतैष वै यशोऽथ यदश्रु संक्षरितमासीत्सोऽश्मा पृश्निरभवदश्रुर्ह वै तमश्मेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अथ यः कपाले रसो लिप्त आसीत्ते रश्मयोऽभवन्नथ यत्कपालमासीत्सा द्यौरभवत् - ६.१.२.३

सोऽकामयत । भूय एव स्यात्प्रजायेतेति स आदित्येन दिवं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्रेतो बिभृहीति ततश्चन्द्रमा असृज्यतैष वै रेतोऽथ यदश्रु संक्षरितमासीत्तानि नक्षत्राण्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता अवान्तरदिशोऽभवन्नथ यत्कपालमासीत्ता दिशोऽभवन् - ६.१.२.४

स इमांल्लोकान्त्सृष्ट्वाऽकामयत । ताः प्रजाः सृजेय या मऽएषु लोकेषु स्युरिति - ६.१.२.५

स मनसा वाचं मिथुनं समभवत् । सोऽष्टौ द्रप्सान्गर्भ्यभवत्तेऽष्टौ वसवोऽसृज्यन्त तानस्यामुपादधात् - ६.१.२.६

स मनसैव । वाचं मिथुनं समभवत्स एकादश द्रप्सान्गर्भ्यभवत्त एकादश रुद्रा असृज्यन्त तानन्तरिक्षऽउपादधात् - ६.१.२.७

स मनसैव । वाचं मिथुनं समभवत्स द्वादश द्रप्सान्गर्भ्यभवत्ते द्वादशादित्या असृज्यन्त तान्दिव्युपादधात् - ६.१.२.८

स मनसैव । वाचं मिथुनं समभवत्स गर्भ्यभवत्स विश्वान्देवानसृजत तान्दिक्षूपादधात् - ६.१.२.९

अथो आहुः । अग्निमेव सृष्टं वसवोऽन्वसृज्यन्त तानस्यामुपादधाद्वायुं रुद्रास्तानन्तरिक्ष आदित्यमादित्यास्तान्दिवि विश्वे देवाश्चन्द्रमसं तान्दिक्षूपादधादिति - ६.१.२.१०

अथो आहुः । प्रजापतिरेवेमांल्लोकान्त्सृष्ट्वा पृथिव्यां प्रत्यतिष्ठत्तस्मा इमा ओषधयोऽन्नमपच्यन्त तदाश्नात्स गर्भ्यभवत्स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत ये ऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा इत्यतो यतमथाऽसृजत तथाऽसृजत प्रजापतिस्त्वेवेदं सर्वमसृजत यदिदं किं च - ६.१.२.११

स प्रजाः सृष्ट्वा । सर्वमाजिमित्वा व्यस्रंसत तस्मादु हैतद्यः सर्वमाजिमेति व्येव स्रंसते तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामत्तस्मिन्नेनमुत्क्रान्ते देवा अजहुः - ६.१.२.१२

सोऽग्निमब्रवीत् । त्वं मा संधेहीति किं मे ततो भविष्यतीति त्वया माऽऽचक्षान्तै यो वै पुत्राणां राध्यते तेन पितरं पितामहं पुत्रं पौत्रमाचक्षते त्वया माऽऽचक्षान्ता अथ मा संधेहीति तथेति तमग्निः समदधात्तस्मादेतं प्रजापतिं सन्तमग्निरित्याचक्षत आ ह वा एनेन पितरं पितामहं पुत्रं पौत्रं चक्षते य एवं वेद - ६.१.२.१३

तमब्रवीत् । कस्मिंस्त्वोपधास्यामीति हित एवेत्यब्रवीत्प्राणो वै हितं प्राणो हि सर्वेभ्यो भूतेभ्यो हितस्तद्यदेनं हित उपादधात्तस्मादाहोपधास्याम्युपदधामिति - ६.१.२.१४

तदाहुः । किं हितं किमुपहितमिति प्राण एव हितं वागुपहितं प्राणे हीयं वागुपेव हिता प्राणस्त्वेव हितमङ्गान्युपहितं प्राणे हीमान्यङ्गान्युपेव हितानि - ६.१.२.१५

सोऽस्यैष चित्य आसीत् । चेतव्यो ह्यस्यासीत्तस्माच्चित्यश्चित्य उ एवायं यजमानस्य भवति चेतव्यो ह्यस्य भवति तस्माद्वेव चित्यः - ६.१.२.१६

तदेता वा अस्य ताः । पञ्च तन्वो व्यस्रंसन्त लोम त्वङ्मांसमस्थि मज्जा ता एवैताः पञ्च चितयस्तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यच्चिनोति तस्माच्चितयः - ६.१.२.१७

स यः स प्रजापतिर्व्यस्रंसत । संवत्सरः सोऽथ या अस्यैताः पञ्च तन्वो व्यस्रंसन्तऽर्तवस्ते पञ्च वा ऋतवः पञ्चैताश्चितयस्तद्यत्पञ्चचितीश्चिनोत्यृतुभिरेवैनं तच्चिनोति यच्चिनोति तस्माच्चितयः - ६.१.२.१८

स यः स संवत्सरः प्रजापतिर्व्यस्रंसत । अयमेव स वायुर्योऽयं पवतेऽथ या अस्य ता ऋतवः पञ्च तन्वो व्यस्रंसन्त दिशस्ताः पञ्च वै दिशः पञ्चैताश्चितयस्तद्यत्पञ्च चितीश्चिनोति दिग्भिरेवैनं तच्चिनोति यच्चिनोति तस्माच्चितयः - ६.१.२.१९

अथ यश्चितेऽग्निर्निधीयते । असौ स आदित्यः स एष एवैषोऽग्निश्चित एतावन्नु तद्यदेनमग्निः समदधात् - ६.१.२.२०

अथो आहुः । प्रजापतिरेव विस्रस्तो देवानब्रवीत्सं मा धत्तेति ते देवा अग्निमब्रुवंस्त्वयीमं पितरं प्रजापतिं भिषज्यामेति स वा अहमेतस्मिन्त्सर्वस्मिन्नेव विशानीति तथेति तस्मादेतं प्रजापतिं सन्तमग्निरित्याचक्षते - ६.१.२.२१

तं देवा अग्नावाहुतिभिरभिषज्यन् । ते यां यामाहुतिमजुहवुः सा सैनम्पक्वेष्टका भूत्वाप्यपद्यत तद्यदिष्टात्समभवंस्तस्मादिष्टकास्तस्मादग्निनेष्टकाः पचन्त्याहुतीरेवैनास्तत्कुर्वन्ति - ६.१.२.२२

सोऽब्रवीत् । यावद्यावद्वै जुहुथ तावत्तावन्म कं भवतीति तद्यदस्मा इष्टे कमभवत्तस्माद्वेवेष्टकाः - ६.१.२.२३

तद्ध स्माहाक्ताक्ष्यः । य एव यजुष्मतीर्भूयसीरिष्टका विद्यात्सोऽग्निं चिनुयाद्भूय एव तत्पितरं प्रजापतिं भिषज्यतीति - ६.१.२.२४

अथ ह स्माह ताण्ड्यः । क्षत्रं वै यजुष्मत्य इष्टका विशो लोकम्पृणा अत्ता वै क्षत्रियोऽन्नं विड्यत्र वा अत्तुरन्न भूयो भवति तद्राष्ट्रं समृद्धं भवति तदेधते तस्माल्लोकम्पृणा एव भूयसीरुपदध्यादित्येतदु ह तयोर्वचोऽन्या त्वेवात स्थितिः - ६.१.२.२५

स एष पिता पुत्रः । यदेषोऽग्निमसृजत तेनैषोऽग्नेः पिता यदेतमग्निः समदधात्तेनैतस्याग्निः पिता यदेष देवानसृजत तेनैष देवानां पिता यदेतं देवाः समदधुस्तेनैतस्य देवाः पितरः - ६.१.२.२६

उभयं हैतद्भवति । पिता च पुत्रश्च प्रजापतिश्चाग्निश्चाग्निश्च प्रजापतिश्च प्रजापतिश्च देवाश्च प्रजापतिश्च य एवं वेद - ६.१.२.२७

स उपदधाति । तया देवतयेति वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवा सीदेति स्थिरा सीदेत्येतदथो प्रतिष्ठिता सीदेति वाचा चैवैनमेतत्प्राणेन च चिनोति वाग्वा अग्निः प्राण इन्द्र ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्चिनोतीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्चिनोति - ६.१.२.२८

तदाहुः । कस्मादस्या अग्निश्चीयत इति यत्र वै सा देवता व्यस्रंसत तदिमामेव रसेनानु व्यक्षरत्तं यत्र देवाः समस्कुर्वंस्तदेनमस्या एवाधि समभरन्त्सैषैकैवेष्टकेयमेवेयं ह्यग्निरस्यै हि सर्वोऽग्निश्चीयते सेयं चतुःस्रक्तिर्दिशो ह्यस्यै स्रक्तयस्तस्माच्चतुःस्रक्तय इष्टका भवन्तीमां ह्यनु सर्वा इष्टकाः - ६.१.२.२९

तदाहुः । यदेवमेकेष्टकोऽथ कथं पञ्चेष्टक इतीयं न्वेव प्रथमा मृन्मयीष्टका तद्यत्किं चात्र मृन्मयमुपदधात्येकैव सेष्टकाथ यत्पशुशीर्षाण्युपदधाति सा पश्विष्टकाथ यद्रुक्मपुरुषा उपदधाति यद्धिरण्यशकलैः प्रोक्षति सा हिरण्येष्टकाथ यत्स्रुचा उपदधाति यदुलूखलमुसले याः समिध आदधाति सा वानस्पत्येष्टकाथ यत्पुष्करपर्णमुपदधाति यत्कूर्मं यद्दधि मधु घृतं यत्किंचात्रान्नमुपदधाति सैवान्नं पञ्चमीष्टकैवमु पञ्चेष्टकः - ६.१.२.३०

तदाहुः । कतरत इष्टकायाः शिर इति यत उपस्पृश्य यजुर्वदतीत्यु हैक आहुः स स्वयमातृण्णाया एवार्धादुपस्पृश्य यजुर्वदेत्तथो हास्यैताः सर्वाः स्वयमातृण्णामभ्यावृत्ता भवन्तीति न तथा कुर्यादङ्गानि वा अस्यैतानि परूंषि यदिष्टका यथा वा अङ्गेऽङ्गे पर्वन्पर्वञ्छिरः कुर्यात्तादृक्तद्यो वाव चितेऽग्निर्निधीयते तदेवैतासां सर्वासां शिरः - ६.१.२.३१

तदाहुः । कति पशवोऽग्ना उपधीयन्त इति पञ्चेति न्वेव ब्रूयात्पञ्च ह्येतान्पशूनुपदधाति - ६.१.२.३२

अथो एक इति ब्रूयात् । अविरितीयं वा अविरियं हीमाः सर्वाः प्रजा अवतीयमु वा अग्निरस्यै हि सर्वोऽग्निश्चीयते तस्मादेक इति ब्रूयात् - ६.१.२.३३

अथो द्वाविति ब्रूयात् । अवी इतीयं चासौ चेमे हीमाः सर्वाः प्रजा अवतो यन्मृदियं तद्यदापोऽसौ तन्मृच्चापश्चेष्टका भवन्ति तस्माद्द्वाविति ब्रूयात् - ६.१.२.३४

अथो गौरिति ब्रूयात् । इमे वै लोका गौर्यद्धि किं च गच्छतीमांस्तल्लोकान्गच्छतीम उ लोका एषोऽग्निश्चितस्तस्माद्गौरिति ब्रूयात् - ६.१.२.३५

तदाहुः । कस्मै कामायाग्निश्चीयत इति सुपर्णो मा भूत्वा दिवं वहादित्यु हैक आहुर्न तथा विद्यादेतद्वै रूपं कृत्वा प्राणाः प्रजापतिरभवन्नेतद्रूपं कृत्वा प्रजापतिर्देवानसृजतैतद्रूपं कृत्वा देवा अमृता अभवंस्तद्यदेवैतेन प्राणा अभवन्यत्प्रजापतिर्यद्देवास्तदेवैतेन भवति - ६.१.२.३६