शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ पञ्चबिलाख्याश्चरुहोमाः-तत्र आग्ने- योऽष्टाकपालः पुरोडाशः-ऐन्द्र एकादशकपालः पुरोडाशः सौम्यश्चरुर्वावैश्वदेवश्चरुः-मैत्रावरुणीपयस्या-बार्हस्पत्यश्चरुः इत्येतेषां पञ्चहविषामेकस्यां पात्र्यां प्रागादिक्रमेण मध्ये चासादनविधानम्, एतेषां आसादनविशेषेण पञ्चबिलात्मकत्वभवनात्पञ्चबिलसंज्ञावत्त्वकथनम् , एतेषां पञ्चबिलहविषां करणे प्रयोजनाभिधानमकरणे प्रत्यवायाभिधनं च, एतेषां पञ्चबिलहविषां क्रमेण निष्क्रयणसाधनत्वविवरणं, प्रत्येकहविः-प्रचारादनन्तरं बार्हस्पत्ये चरौ संस्रवानयनविधानं, बार्हस्पत्ये चरौ चतुर्णां हविषां संस्रवानयनस्य प्रशंसनम् , आग्नेयादिहविषामृत्विग्विशेषेभ्यो हिरण्यादिदक्षिणादानं विधाय तेषामृत्विग्विशेषाणां हिरण्यादिदक्षिणानां च प्रशंसनम्, एतस्य पञ्चबिलहविःपञ्चकस्यान्नाद्यकामनया राजसूयाद्बहिः पुरुषार्थतया स्वातन्त्र्येण प्रयोगस्य सार्थवादं विधानं चेति.


ब्राह्मण २

२ द्वादश प्रयुजां हवींषि-तत्र प्रथमं सार्थवादं प्रयुग्घविषां विधानं, तेषा संख्यां विधाय प्रतिमासं यजनं पूर्वपक्षत्वेनोपन्यस्य पक्षान्तरेण हविःषट्कस्यैकीकृत्य यागकरणेऽपि पूर्वपक्षत्वेनैवोपन्यस्य च तं पक्षं दूषयित्वा पूर्वस्य हविःषट्कस्य समानतन्त्रेण यजनं सिद्धान्तीकृत्य तदीयदेवताः प्रशंस्य च पूर्वस्मिन्हविःषट्के पूर्वाग्निवाहयोरनुडु होर्दक्षिणात्वेन विधानम्, उत्तरहविःषट्कस्यापि समानतन्त्रत्वं प्रदर्श्य तदीयदेवताः प्रशंस्य चास्मिन्नुत्तरषट्केऽपि पूर्वाग्निवाहयोरनुडुहोर्दशिणात्वेन विधानं तेषां पूर्वाग्निवाहानुडुहां दक्षिणात्वस्य सम्भूय प्रशंसनं च, उक्तद्वादशप्रयुग्घविःकरणस्य ऋतुप्रयोगस्य कुरुपञ्चालवृत्तान्तमुखेन दृढीकरणम्, उक्तानां द्वादशप्रयुग्घविषां द्रव्यनामभ्यामुद्देशः, अदितिदेवत्यश्वेताविचित्रगर्भाऽनुबन्ध्याद्रव्यकपश्वनुष्ठानस्य मरुद्देवत्यपृषतीविचित्रगर्भाऽनुबन्ध्याद्रव्यकपश्वनुष्ठानस्य च प्राकृतेतिकर्तव्यतातिदेशसहितं स्वगुणविशिष्टयागीयद्रव्यदक्षिणासहितं च विधानम, उक्तस्य पशुबन्धद्वयस्य शाखाभेदेन आदित्यविश्वेदेवरूपदेवतान्तरसम्बन्धप्रदर्शनं
चेत्यादि.

ब्राह्मण ३

३ केशवपनीयोऽतिरात्रः -तत्र पूर्वमभिषेचनीययागादनन्तरं सकारणं केशवपनीययागविधानं, कारणत्वेनाभिहितस्य केशवपनाकरणलक्षणव्रतस्यावधिकालं प्रदर्श्य केशवपनीयशब्दस्य निर्वचनं, तत्रोद्गातृपुरुषैर्गीयमानस्तोत्रेषु चोदकेन प्रातःसवनादिषु त्रिवृदादिस्तोमानां प्राप्तौ तानपवदितुमेकविंशादिस्तोमविशेषाणां सार्थवादं विधानं, प्रकृतो माध्यन्दिनसवने स्थन्तरं बृहत्साम वा पृष्ठस्तोत्रं विकल्पेनोक्तं तन्मध्यादत्रैकस्य रथन्तरपृष्ठस्य नियमनम् , अस्य केशवपनीयसोमयागस्यातिरात्रसंस्थात्वस्य प्रतिष्ठात्मना प्रशंसनम्, अस्य यागस्य केशवापव्रतविसर्जनार्थमनुष्ठेयत्वात्तदन्ते कर्तव्ये केशवापे कस्यचिद्विशेषस्य विधानं, सुन्वतो यजमानस्य केषांचिन्नियमानां प्रदर्शनं चेति.


ब्राह्मण ४

४ चरकसौत्रामणिः-तत्र देवतासम्बन्धविशिष्टस्य पशुत्रयस्य विधानम् , उक्तपशुषु निरुक्तगुणानामसंभवं मत्वा तदलाभे गुणान्तरविधानम्, अजत्रयपक्षे आश्विनपशोः कस्यचिद्गुणविशेषस्य विधानम् , एतेषां पशूनां सौत्रामणीसम्बन्धप्रदर्शनं, सौत्रामण्या सुत्रामेन्द्रसम्बन्धस्याश्विसरस्वतीसम्बन्धस्य तत्रोपयुक्तद्रव्यादेश्चाख्यायिकामुखेन प्रदर्शनं, तत्र मुखवमनपक्षे प्रायश्चित्तिर्नास्तीति प्रदर्शनम्, इन्द्रियेभ्यः सोमद्रवणकाले नासिकादिस्रुतस्य सिंहाद्यात्मनोत्पत्तेः प्रदर्शनं, सौत्रामणीशब्दस्य निर्वचनं, प्रसङ्गादन्यस्य सोमातिपूतस्याप्यस्या एवेष्टेः प्रदर्शनम् , एषापीष्टी राजसूययाजिना कर्तव्येतिविधानं, आश्विनसारस्वतेन्द्रपशुविधिं पृथक्पृथगनूद्य तत्प्रशंसनं, विधास्यमाने परिस्रुत्सन्धाने सिंहवृकव्याघ्रलोमसंसर्जनं सिद्धान्तयितुं शाखान्तरीयं पक्षं सोपपत्तिकमनूद्य तं निराकृत्य च स्वमतप्रतिष्ठापनं, परिस्रुत्सन्धानस्य समन्त्रकं विधानं, परिसुत्प्रचरणे कारणसहितमग्निद्वयोद्धरणं प्रतिपाद्य प्रचरणकालस्य विधानं परिस्रुतो दर्भैः समन्त्रकं पावनविधानं, परिस्रुति कुवलकर्कन्धुबदरसक्तुत्रयस्य निवपन विधानं, ग्रहग्रहणं विधाय तत्रैकस्यैव सोपपत्तिकं ग्रहणाभिधानम् , ग्रहग्रहणमनूद्य तत्र मन्त्रस्य विनियोजनं, ग्रहत्रयस्य ग्रहणपक्षेऽप्ययमेव मन्त्र इति प्रतिपाद्य तत्रोपयामेत्यस्मिन्नंशे विशेषकथनम्-अनुवचनप्रैषे विशेषकथनं च, होतारमनूच्याश्विसरस्वतीन्द्रप्रतिपादकमन्त्रस्याभिधानं, यजप्रैषे देवताशंसनं विधाय देवतात्रयप्रतिपादिकाया याज्यायापठनविधानं, होतुर्द्विर्वषट्कारोऽध्वर्योर्द्विर्हवनं भक्षाहरणं ग्रहत्रयपक्षेऽनुहोमं परिस्रुद्धोमौ होतव्यावित्यादेर्विधानं, परिस्रुच्छेषासेकपूर्णं रुक्मवन्तं शतच्छिद्रं नवच्छिद्रे दक्षिणाहवनीयोपरिस्थे शिक्ये निहितं स्रवन्तं कुम्भं सोमवदादिपितॄणान्त्रिभिस्त्र्यृचैरुपतिष्ठेतेति विधानम् , उपस्थाने मन्त्राणां प्रदर्शनं पित्र्यमन्त्रैरुपस्थानस्य प्रशंसनं च, पशुपुरोडाशार्थं सावित्रवारुणेन्द्रसंज्ञकहविस्त्रितयस्य विधानं पुरोडाशदेवतानां प्रशंसनं च, अनुयाजादनन्तरं स्रुग्व्यूहनात्पूर्वं पश्चाद्वा निरुक्तहविस्त्रितयस्य प्रचरणं कर्तव्यमिति पूर्वपक्षयित्वाऽस्मिंश्च पक्षे प्रचरणकालविक्षिष्टं हविरन्तरविधानं, तदुभयमपि न कर्तव्यमिति पूर्वपक्षं निराकृत्य स्वमतप्रतिष्ठापनं, तस्य दक्षिणात्वेन नपुंसकस्य गो रथवाह्या वडवाया वा सोपपत्तिकं विधानं चेत्यादि.


ब्राह्मण ५

५ त्रैधातवीसंज्ञिकोदवसानीयेष्टि: --तत्र राजसूयान्ते कर्तव्यायास्त्रैधातव्युदवसानीयेष्टेर्देवताविशिष्टस्य हविषो विधानम्, एतदिष्टिविधायककारणनिर्देशपुरःसरं देवतासम्बन्धप्रशंसार्थं पुरावृत्तकथनं, तत्र वेदप्रदानानुकरणेन यागविधानं विरुद्धमिति प्रदर्शनं, इष्टेर्नामनिर्वचनम् , इयमिष्टिरिन्द्राविष्णूभयदेवत्या संवत्सरव्यापिनी चेति निरूपणं, तत्र त्रयीविद्यारूपतासम्पादनाय हविषोव्रीहिमययवमयत्वविधानं, तयोर्व्रीहियवयोर्ग्रहणाधिश्रयणप्रकारकथनं, राजसूययज्वनोऽस्या इष्टेरवश्यकर्तव्यतया विधानं, यातयामत्वपरिहारोपपत्तिसहितं यज्ञस्यायातयामत्वं सम्पादयितुं त्रैधातवीष्टिरवश्यमनुष्ठेयेति साभिप्रायं निरूपणम्, एतस्या इष्टेर्विनियोगान्तरकथनं, पुनरप्यस्या इष्टेर्दीर्घसत्राङ्गत्वेनावश्यकर्तव्यत्वप्रतिपादनम्, एतस्या इष्टेराभिचारिकप्रयोगकथनम्, एतस्या इष्टेः परैः कृताभिचारस्य परिहरणे समर्थत्वस्योपवर्णनं, त्रैधातव्युदवसानीयेष्टेर्दक्षिणात्वेन त्रयाणां शतमानानां ब्रह्मणे-तिसृणां धेनूनां होत्रे--त्रयाणां वाससामध्वर्यवे--गोरग्निधे च प्रदानविधानम्, एतासां दक्षिणानां सम्भूय संवत्सरात्मना प्रशंसनं चेत्यादि.