शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search

५.५.५ त्रैधातवीयसंज्ञिका उदवसानीयेष्टिः

ऐन्द्रावैष्णवं द्वादशकपालं पुरोडाशं निर्वपति । तद्यदेतया यजते वृत्रे ह वा इदमग्रे सर्वमास यदृचो यद्यजूंषि यत्सामानि तस्मा इन्द्रो वज्रं प्राजिहीर्षत् - ५.५.५.[१]

स ह विष्णुमुवाच । वृत्राय वै वज्रं प्रहरिष्याम्यनु मा तिष्ठस्वेति तथेति ह विष्णुरुवाचानु त्वा स्थास्ये प्रहरेति तस्मा इन्द्रो वज्रमुद्ययाम स उद्यताद्वज्राद्वृत्रो बिभयाञ्चकार - ५.५.५.[२]

स होवाच । अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहार्षीरिति तस्मै यजूंषि प्रायच्छत्तस्मै द्वितीयमुद्ययाम - ५.५.५.[३]

स होवाच । अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहार्षीरिति तस्मा ऋचः प्रायच्छत्तस्मै तृतीयमुद्ययाम - ५.५.५.[४]

अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहाषीरिति तस्मै सामानि प्रायच्छत्तस्मादप्येतर्ह्येवमेवैतैर्वेदैर्यज्ञं तन्वते यजुर्भिरेवाग्रेऽथर्ग्भिरथ सामभिरेवं ह्यस्मा एतत्प्रायच्छत् - ५.५.५.[५]

तस्य यो योनिराशय आस । तमनुपरामृश्य संलुप्याच्छिनत्सैषेष्टिरभवत्तद्यदेतस्मिन्नाशये त्रिधातुरिवैषा विद्याऽऽशेत तस्मात्त्रैधातवी नाम - ५.५.५.[६]

अथ यदैन्द्रावैष्णवं हविर्भवति । इन्द्रो हि वज्रमुदयच्छद्विष्णुरन्वतिष्ठत - ५.५.५.[७]

अथ यद्द्वादशकपालो भवति । द्वादश वै मासाः संवत्सरस्य संवत्सरसम्मितैषेष्टिस्तस्माद्द्वादशकपालो भवति - ५.५.५.[८]

तमुभयेषां व्रीहियवाणां गृह्णाति । व्रीहिमयमेवाग्रे पिण्डमधिश्रयति तद्यजुषां रूपमथ यवमयं तदृचां रूपमथ व्रीहिमयं तत्साम्नां रूपम् । तदेतत्त्रय्यै विद्यायै रूपं क्रियते सैषा राजसूययाजिन उदवसानीयेष्टिर्भवति - ५.५.५.[९]

सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे । सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते तस्य यातयामेव यज्ञो भवति सोऽस्मात्पराङिव भवत्येतावान्वै सर्वो यज्ञो यावानेष त्रयो वेदस्तस्यैतद्रूपं क्रियत एष योनिराशयस्तदेतेन त्रयेण वेदेन पुनर्यज्ञमारभते तथाऽस्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति - ५.५.५.[१०]

सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे । सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एषेष्टिर्यत्त्रैधातव्यनया मेऽपीष्टमसदनयापि सूया इति तस्माद्वा एषा राजसूययाजिन उदवसानीयेष्टिर्भवति - ५.५.५.[११]

अथो यः सहस्रं वा भूयो वा दद्यात् । तस्य हाप्युदवसानीया स्याद्रिरिचान इव वा एष भवति यः सहस्रं वा भूयो वा ददात्येतद्वै सहस्रं वाचः प्रजातं यदेष त्रयोवेदस्तत्सहस्रेण रिरिचानं पुनराप्याययति तस्मादु ह तस्याप्युदवसानीया स्यात् - ५.५.५.[१२]

अथो ये दीर्घसत्त्रमासीरन् । संवत्सरं वा भूयो वा तेषां हाप्युदवसानीया स्यात्सर्वं वै तेषामाप्तं भवति सर्वं जितं ये दीर्घसत्त्रमासते संवत्सरं वा भूयो वा सर्वमेषा तस्मादु ह तेषामप्युदवसानीया स्यात् - ५.५.५.[१३]

अथो हैनयाऽप्यभिचरेत् । एतया वै भद्रसेनमाजातशत्रवमारुणिरभिचचार क्षिप्रं किलास्तृणुतेति ह स्माह याज्ञवल्क्योऽपि ह वा एनयेन्द्रो वृत्रस्यास्थानमच्छिनदपि ह वा एनयाऽऽस्थानं छिनत्ति य एनयाभिचरति तस्मादु हैनयाऽप्यभिचरेत् - ५.५.५.[१४]

अथो हैनयापि भिषज्येत् । यं न्वेवैकयर्चा भिषज्येदेकेन यजुषैकेन साम्ना तं न्वेवागदं कुर्यात्किमु यं त्रयेण वेदेन तस्मादु हैनयापि भिषज्येत् - ५.५.५.[१५]

तस्यै त्रीणि शतमानानि हिरण्यानि दक्षिणा । तानि ब्रह्मणे ददाति न वै ब्रह्मा प्रचरति न स्तुते न शंसत्यथ स यशो न वै हिरण्येन किं चन कुर्वन्त्यथ तद्यशस्तस्मात्त्रीणि शतमानानि ब्रह्मणे ददाति - ५.५.५.[१६]

तिस्रो धेनूर्होत्रे । भूमा वै तिस्रो धेनवो भूमा होता तस्मात्तिस्रो धेनूर्होत्रे - ५.५.५.[१७]

त्रीणि वासांस्यध्वर्यवे । तनुते वा अध्वर्युर्यज्ञं तन्वते वासांसि तस्मात्त्रीणि वासांस्यध्वर्यवे गामग्नीधे - ५.५.५.[१८]

ता वा एताः । द्वादश वा त्रयोदश वा दक्षिणा भवन्ति द्वादश वा वै त्रयोदश वा
संवत्सरस्य मासाः संवत्सरसम्मितैषेष्टिस्तस्माद्द्वादश वा त्रयोदश वा दक्षिणा भवन्ति - ५.५.५.[१९]

चतुर्थ प्रपाठकः पञ्चमोऽध्यायः समाप्तः।
इति माध्यंदिनीये शतपतब्राह्मणे सवनाम पञ्चमं काण्डं समाप्तम्।।५।।