शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search

५.५.२ द्वादश प्रयुजां हवींषि

स वै प्रयुजां हविर्भिर्यजते । तद्यत्प्रयुजां हविर्भिर्यजत ऋतून्वा एतत्सुषुवाणो युङ्क्ते त एनमृतवो युक्ता वहन्त्यृतून्वा प्रयुक्ताननुचरति तस्मात्प्रयुजां हविर्भिर्यजते - ५.५.२.[१]

तानि वै द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश भवन्ति मासिमासि यजेतेत्याहुः को वेद मनुष्यस्य तस्मान्न मासिमासि यजेत शम्यापराव्याधे शम्यापराव्याध एव षड्भिर्यजते प्राङ्यानथ पुनरावृत्तः शम्यापराव्याधे शम्यापराव्याध एव षड्भिर्यजते - ५.५.२.[२]

तदु तथा न कुर्यात् । षडेवैतानि पूर्वाणि हवींषि निर्वपति समानबर्हींषि तासां देवतानां रूपं यथा शिशिरे युक्त्वा प्राञ्च आप्रावृषं यायुस्तत्षडृतून्युङ्क्ते त एनं षडृतवो युक्ताः प्राञ्च आप्रावृषं वहन्ति षड्वऽर्तून्प्रयुक्तानाप्रावृषमनुचरति पूर्वाग्निवाहां द्वौ दक्षिणा - ५.५.२.[३]

षडेवोत्तराणि हवींषि निर्वपति । समानबर्हींषि तासां देवतानां रूपं यथा पुनरावर्तेरन्वार्षिकमभि तत्षडृतून्युङ्क्ते त एनं षडृतवो युक्ता वार्षिकमभि वहन्ति षड्वर्तून्प्रयुक्तान्वार्षिकमनुचरति पूर्वाग्निवाहां द्वौ दक्षिणा तद्यत्पूर्वाग्निवाहो दक्षिणऽर्तून्वा एतत्सुषवाणो युङ्क्ते वहन्ति वा अनड्वाहस्तस्मात्पूर्वाग्निवाहो दक्षिणा - ५.५.२.[४]

तद्ध स्मैतत्पुरा कुरुपञ्चाला आहुः । ऋतवो वा अस्मान्युक्ता वहन्त्यृतून्वा प्रयुक्ताननुचराम इति यदेषां राजानो राजसूययाजिन आसुस्तद्ध स्म तदभ्याहुः - ५.५.२.[५]

आग्नेयोऽष्टाकपालः पुरोडाशो भवति । सौम्यश्चरुः सावित्रो द्वादशकपालो वाऽष्टाकपालो वा पुरोडाशो बार्हस्पत्यश्चरुस्त्वाष्ट्रो दशकपालः पुरोडाशो वैश्वानरो द्वादशकपाल एतानि षट्पूर्वाणि हवींषि भवन्ति - ५.५.२.[६]

षडेवोत्तरे चरवः । सारस्वतश्चरुः पौष्णश्चरुर्मैत्रश्चरुः क्षैत्रपत्यश्चरुर्वारुणश्चरुरादित्यश्चरुरेत उ षडुत्तरे चरवः - ५.५.२.[७]

अथ पशुद्वयम्

अथ श्येनीं विचित्रगर्भामदित्या आलभते । तस्या एषैवावृद्याऽष्टापद्यै वशाया इयं
वा अदितिरस्या एवैनमेतद्गर्भं करोति तस्या एतादृश्येव श्येनी विचित्रगर्भा दक्षिणा - ५.५.२.[८]

अथ पृषतीं विचित्रगर्भां मरुद्भ्य आलभते । तस्या एषैवावृद्विशो वै मरुतो विशामेवैनमेतद्गर्भं करोति तस्या एतादृश्येव पृषती विचित्रगर्भा दक्षिणा - ५.५.२.[९]

एतौ पशुबन्धौ । तदेतावेव सन्तावन्यथेवालभन्ते यामदित्या आलभन्त आदित्येभ्यस्तामालभन्ते सर्वं वा आदित्याः सर्वस्यैवैनमेतद्गर्भं करोति याम्मरुद्भ्य आलभन्ते विश्वेभ्यस्तां देवेभ्य आलभन्ते सर्वं वै विश्वे देवाः सर्वस्यैवैनमेतद्गर्भं करोति - ५.५.२.[१०]