शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

५.५.४ चरकसौत्रामणिः

श्येत आश्विनो भवति । श्येताविव ह्यश्विनावविर्मल्हा सारस्वती भवत्यृषभमिन्द्राय सुत्राम्ण आलभते दुर्वेदा एवं समृद्धाः पशवो यद्येवं समृद्धान्न विन्देदप्यजानेवालभेरंस्ते हि सुश्रपतरा भवन्ति स यद्यजानालभेरंल्लोहित आश्विनो भवति तद्यदेतया यजते - ५.५.४.[१]

त्वष्टुर्ह वै पुत्रः । त्रिषीर्षा षडक्ष आस तस्य त्रीण्येव मुखान्यासुस्तद्यदेवं रूप आस तस्माद्विश्वरूपो नाम - ५.५.४.[२]

तस्य सोमपानमेवैकं मुखमास । सुरापाणमेकमन्यस्मा अशनायैकं तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद - ५.५.४.[३]

स यत्सोमपानमास । ततः कपिञ्जलः समभवत्तस्मात्स बभ्रुक इव बभ्रुरिव हि सोमो राजा - ५.५.४.[४]

अथ यत्सुरापाणमास । ततः कलविङ्कः समभवत्तस्मात्सोऽभिमाद्यत्क इव वदत्यभिमाद्यन्निव हि सुरां पीत्वा वदति - ५.५.४.[५]

अथ यदन्यास्मा अशनायास । ततस्तित्तिरिः समभवत्तस्मात्स विश्वरूपतम इव सन्त्येव घृतस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवंरूपमिव हि स तेनाशनमावयत् - ५.५.४.[६]

स त्वष्टा चुक्रोध । कुविन्मे पुत्रमवधीदिति सोऽपेन्द्रमेव सोममाजह्रे स यथायं सोमः प्रसुतऽ एवमपेन्द्र एवास - ५.५.४.[७]

इन्द्रो ह वा ऽईक्षांचक्रे । इदं वै मा सोमादन्तर्यन्तीति स यथा बलीयानबलीयस एवमनुपहूत एव यो द्रोणकलशे शुक्र आस तं भक्षयांचकार स हैनं जिहिंस सोऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्राव तस्मात्प्रायश्चित्तिरास स यद्धापि मुखादद्रोष्यन्न हैव प्रायश्चित्तिरभविष्यत् - ५.५.४.[८]

चत्वारो वै वर्णाः । ब्राह्मणो राजन्यो वैश्यः शूद्रो न हैतेषामेकश्चन भवति यः सोमं वमति स यद्धैतेषामेकश्चित्स्यात्स्याद्धैव प्रायश्चित्तिः - ५.५.४.[९]

स यन्नस्तोऽद्रवत् । ततः सिंहः समभवदथ यत्कर्णाभ्यामद्रवत्ततो वृकः समभवदथ यदवाचः प्राणादद्रवत्ततः शार्दूलज्येष्ठाः श्वापदाः समभवन्नथ यदुत्तरात्प्राणादद्रवत्सा परिस्रुदथ त्रिर्निरष्ठीवत्ततः कुवलं कर्कन्धु बदरमिति समभवत्स सर्वेणैव व्यार्ध्यत सर्वं हि सोमः - ५.५.४.[१०]

स सोमातिपूतो मङ्कुरिव चचार । तमेतयाश्विनावभिषज्यतां तं सर्वेणैव समार्धयतां सर्वं हि सोमः स वसीयानेवेष्ट्वाऽभवत् - ५.५.४.[११]

ते देवा अब्रुवन् । सुत्रातं बतैनमत्रासतामिति तस्मात्सौत्रामणी नाम - ५.५.४.[१२]

स हैतयापि सोमातिपूतं भिषज्येत् । सर्वेण वा एष व्यृध्यते यं सोमोऽतिपवते सर्वं हि सोमस्तं सर्वेणैव समर्धयति सर्वं हि सोमः स वसीयानेवेष्ट्वा भवति तस्मादु हैतयापि सोमातिपूतं भिषज्येत् - ५.५.४.[१३]

तद्यदेतया राजसूययाजी यजते । सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टा वा एषेष्टिर्यत्सौत्रामण्यनया मेऽपीष्टमसदनयापि सूया इति तस्माद्वा एतया राजसूययाजी यजते - ५.५.४.[१४]

अथ यदाश्विनो भवति । अश्विनौ वा एनमभिषज्यतां तथो एवैनमेष एतदश्विभ्यामेव भिषज्यति तस्मादाश्विनो भवति - ५.५.४.[१५]

अथ यत्सारस्वतो भवति । वाग्वै सरस्वती वाचा वा एनमश्विनावभिषज्यतां तथो
एवैनमेष एतद्वाचैव भिषज्यति तस्मात्सारस्वतो भवति - ५.५.४.[१६]

अथ यदैन्द्रो भवति इन्द्रो वै यज्ञस्य देवता तयैवैनमेतद्भिषज्यति तस्मादैन्द्रो भवति - ५.५.४.[१७]

एतेषु पशुषु । सिंहलोमानि वृकलोमानि शार्दूललोमानीत्यावपत्येतद्वै ततः समभवद्यदेनं सोमोऽत्यपवत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादेतान्यावपति - ५.५.४.[१८]

तदु तथा न कुर्यात् । उल्कया ह स नखिन्या पशूननुषुवति य एतानि पशुष्वावपति
तस्मादु परिस्रुत्येवावपेत्तथा होल्कया नखिन्या पशून्नानुषुवति तथो एवैनं समर्धयति कृत्स्नं करोति तस्मादु परिस्रुत्येवावपेत - ५.५.४.[१९]

अथ पूर्वेद्युः । परिस्रुतं संदधात्याश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेति सा यदा परिस्रुद्भवत्यथैनया प्रचरति - ५.५.४.[२०]

द्वावग्नी उद्धरन्ति । उत्तरवेदावेवोत्तरमुद्धते दक्षिणं नेत्सोमाहुतीश्च सुराहुतीश्च सह जुहवामेति तस्माद्द्वावग्नी उद्धरन्त्युत्तरवेदावेवोत्तरमुद्धते दक्षिणमथ यदा वपाभिः प्रचरत्यथैतया परिस्रुता प्रचरति - ५.५.४.[२१]

तां दर्भैः पावयति । पूतासदिति वायुः पूतः पवित्रेण प्रत्यङ्सोमो अतिस्रुतः। इन्द्रस्य युज्यः सखेति तत्कुवलसक्तून्कर्कन्धुसक्तून्बदरसक्तूनित्यावपत्येतद्वै ततःसमभवद्यत्त्रिर्निरष्ठीवत्तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादेतानावपति - ५.५.४.[२२]

अथ ग्रहान्गृह्णाति । एकं वा त्रीन्वैकस्त्वेव ग्रहीतव्य एका हि पुरोरुग्भवत्येकानुवाक्यैका याज्या तस्मादेका एव ग्रहीतव्यः - ५.५.४.[२३]

स गृह्णाति । कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमउक्तिं यजन्ति उपयामगृहीतोऽस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्ण इति यद्यु त्रीन्गृह्णीयादेतयैव गृह्णीयादुपयामैस्तु तर्हि नाना गृह्णीयादथाहाश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णेऽनुब्रूहीति - ५.५.४.[२४]

सोऽन्वाह । युवं सुराममश्विना नमुचावासुरे सचा विपिपाना शुभस्पती इन्द्रं कर्मस्वावतमित्याश्राव्याहाश्विनौ सरस्वतीमिन्द्रं सुत्रामाणं यजेति - ५.५.४.[२५]

स यजति । पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णगिति द्विर्होता वषट्करोति द्विरध्वर्युर्जुहोत्याहरति भक्षं यद्यु त्रीन्गृह्णीयादेतस्यैवानु होममितरौ हूयेते - ५.५.४.[२६]

अथ कुम्भः । शतवितृण्णो वा भवति नववितृणो वा स यदि शतवितृण्णः शतायुर्वा अयं पुरुषः शततेजाः शतवीर्यस्तस्माच्छतवितृण्णो यद्यु नववितृण्णो नवेमे पुरुषे प्राणास्तस्मान्नववितृण्णः - ५.५.४.[२७]

तं शिक्योदुतम् । उपर्युपर्याहवनीयं धारयन्ति सा या परिशिष्टा परिस्रुद्भवति तामासिञ्चति तां विक्षरन्तीमुपतिष्ठते पितॄणां सोमवतां तिसृभिर्ऋग्भिः पितॄणां बर्हिषदां तिसृभिर्ऋग्भिः पितॄणामग्निष्वात्तानां तिसृभिर्ऋग्भिस्तद्यदेवमुपतिष्ठते यत्र वै सोम इन्द्रमत्यपवत स यत्पितॄनगच्छत्त्रया वै पितरस्तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादेवमुपतिष्ठते - ५.५.४.[२८]

अथैतानि हवींषि निर्वपति । सावित्रं द्वादशकपालं वाऽष्टाकपालं वा पुरोडाशं वारुणं यवमयं चरुमैन्द्रमेकादशकपालं पुरोडाशम् - ५.५.४.[२९]

स यत्सावित्रो भवति । सविता वै देवानां प्रसविता सवितृप्रसूत एवैतद्भिषज्यति तस्मात्सावित्रो भवति - ५.५.४.[३०]

अथ यद्वारुणो भवति । वरुणो वा आर्पयिता तद्य एवार्पयिता तेनैवैतद्भिषज्यति
तस्माद्वारुणो भवति - ५.५.४.[३१]

अथ यदैन्द्रो भवति । इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तयैवैतद्भिषज्यति तस्मादैन्द्रो भवति - ५.५.४.[३२]

स यदि हैतयापि सोमातिपूतं भिषज्येत् । इष्टा अनुयाजा भवन्त्यव्यूढेस्रुचावथैतैर्हविर्भिः प्रचरति पश्चाद्वै सोमोऽतिपवते पश्चादेवैनमेतेन मेधेनापिदधात्याश्विनमु तर्हि द्विकपालं पुरोडाशं निर्वपेदथ यदा वपाभिः प्रचरत्यथैतेनाश्विनेन द्विकपालेन पुरोडाशेन प्रचरति - ५.५.४.[३३]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं
करोति तस्माद्यत्रैवैतेषां पशूनां वपाभिः प्रचरन्ति तदेवैतैर्हविर्भिः प्रचरेयुर्नो तर्ह्याश्विनं द्विकपालं पुरोडाशं निर्वपेत् - ५.५.४.[३४]

तस्य नपुंसको गौर्दक्षिणा । न वा एष स्त्री न पुमान्यन्नपुंसको गौर्यदह पुमांस्तेन न स्त्री यदु स्त्री तेनो न पुमांस्तस्मान्नपुंसको गौर्दक्षिणाऽश्वा वा रथवाही सा हि न स्त्री न पुमान्यदश्वा रथवाही यदह रथं वहति तेन न स्त्री यदु स्त्री तेनो न पुमांस्तस्मादश्वा रथवाही दक्षिणा - ५.५.४.[३५]