शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ रत्नयागाः-तत्र द्वादश रत्नहवींष्यनुदिनं क्रमेण कर्तव्यतया प्रतिपाद्यन्ते तेषु प्रथमेऽह्नि सकारणं सोपपत्तिकं सेनानीगृहेऽनीकवद्गुणकाग्निदेवत्यस्य रत्नहविर्यागस्य सविशेषं विधानं, तत्र सहेतुकं हिरण्यरूपदक्षिणाविधानं, द्वितीयदिवसे पुरोहितगृहे सार्थवादं सोपपत्तिकं शितिपृष्ठत्वगुणकगौर्दक्षिणाकस्य बार्हस्पत्यचरुहविष्कस्य रत्नयागस्य विधानं, तृतीयदिवसे सुन्वतो यजमानस्य गृहे ऋषभदक्षिणावत इन्द्रदेवत्यैकादशकपालपुरोडाशहविष्कस्य रत्नयागस्य विधानम्, चतुर्थे वासरे महिष्या गृहे सकारणं सार्थवादं धेनुदक्षिणाकस्यादित्यचरुहविष्कस्य रत्नयागस्य विधानं, पञ्चमेऽह्निसारथिगृहे सकारणमश्वदक्षिणाकस्य वरुणदेवत्ययवमयचरुहविष्कस्य स्त्नयागस्य विधानं षष्ठे दिवसे ग्र!मणीगृहे सकारणं सार्थवादं पृषद्गुणकगौर्दक्षिणाकस्य मरुद्देवत्यसप्तकपालपुरोडाशहविष्कस्य रत्नयागस्य विधानं, सप्तमे वासरेऽन्तःपुराध्यक्षस्य क्षत्तुर्गृहे सकारणं सार्थवादं श्वेतवर्णानुडुद्दक्षिणाकस्य सवितृदेवत्यद्वादशकपालपुरोडाशहविष्कस्य रत्नयागस्य- विधानं, अष्टमेऽह्नि रथयोजयितुर्गृहे सकारणं यमलोत्पत्तिमत्त्वानूचीनगर्भ- त्वान्यतमगुणकगोयुग्मदक्षिणावतः अश्विदेवत्यद्विकपालपुरोडाशहविष्कस्य रत्नयागस्य विधानं, नवमे दिवसे भागदुघस्य गृहे सकारणं सार्थवादं श्यामवर्णगौर्दक्षिणाकस्य पौष्णचरुहविष्कस्य रत्नयागस्य विधानं, दशमे दिवसे सुन्वतो यजमानस्य गृहे सोपपत्तिकं सकारणम् सार्थवादं रुद्रदेवत्य- गवेधुकामयचरुहविष्कस्य रत्नयागस्य विधानम्, उक्ते रौद्ररत्नयागे शितिबाहोः शितिबालस्य वा द्विरूपस्य गोः-नखरस्यासेरोमस्रजा प्रबद्धस्याक्षावपनपात्रस्येति त्रयाणां सोपपत्तिकं दक्षिणात्वेन विधानम्, एकादशेऽह्नि दूतगृहे सोपपत्तिकं सकारणमुक्ष्णवेष्टितधनुः- सेषुकाश्चर्मतूण्यः-लोहितोष्णीषश्चेत्ये तत्त्रिकदक्षिणाकस्याध्वदेवत्यचतुर्गृहीताज्यहविष्कस्य रत्नयागस्य विधानम्, एते षामेकादशरत्नहविषां प्रशंसार्थमर्थवादकथनं, द्वादशे वासरे परिवृत्तीगृहे निर्ऋतिदेवत्यस्य नखनिर्भिन्नकृष्णतण्डुलमयचरुहविष्कस्य रत्नयागस्य समंत्रकं विधानं, प्रसङ्गात्परिवृत्तीशब्दार्थनिरूपणम्, उक्ते नैर्ऋतरत्नयागे परिमूर्ण्याः पर्यारिण्याः कृष्णाया गोर्दक्षिणात्वेन सकारणं विधानम्, इष्ट्यन्ते किञ्चित्कर्त- व्यस्य सार्थवादं विधानं चेति.


ब्राह्मण २

२ उपरियागाः तत्र प्रथमं शुक्लवत्सायाः शुक्लाया गोः पयसि शृतेन चरुणा सौमारौद्रयागस्य विधानं, विहितस्य सौमारौद्रयागस्याख्यायिकया प्रशंसनं, यस्याः पयसि चरुः शृतस्तस्या एव गोर्दक्षिणात्वेन विधानं, प्रसङ्गात्फलान्तरायास्य सौमारौद्रयागस्य बाह्यप्रयोगस्य प्रदर्शनं, मैत्राबार्हस्पत्यचरुहविष्कयागस्य सार्थवादं विधानं, तस्य चरोरनुष्ठानप्रकारकथनं, मैत्रचर्वर्थमाज्यकरणविधानं, देवताद्वयार्थं तण्डुलानां द्वेधाकरणपूर्वकं चरुद्वयस्य पृथक्पृथक्सप्रकारकं श्रवणविधानम्, एवं पृथक्छ्रपणमभिधाय देवताप्रदाने पुनः साहित्यस्य विधानं चेति.


ब्राह्मण ३

३ दीक्षणीययागा-तत्रादौ द्वितीयस्याभिषेचनीयाख्यसोमयागस्याङ्गत्त्वेन चोद- कप्राप्ताया दीक्षाया अभिधानम्, उपवस- थेऽह्न्यग्नीषोमीयपशुपुरोडाशाभ्यां प्रचर्य देवस्वां हविषां निरूपणं, तत्र प्रथमस्य सत्यप्रसवगुणकसवितृदेवत्यस्य प्राशुकव्रीहिसाव्याष्टाकपालपुरोडाशात्मकस्य हविषः सार्थवादं विधानं, द्वितीयस्य गृहपतित्वगुणकाग्निदेवत्यस्याशुक्रव्रीहिसाध्याष्टाकपालपुरोडाशात्मकस्य हविषः सार्थवादं विधानं, तृतीयस्य वनस्पतिगुणकसोमदेवत्यस्य श्यामाकप्रकृतिकचर्वात्मकस्य हविषः सार्थवादं विधानं, चतुर्थस्य वाग्रूपबृह- स्पतिदेवत्यस्य नैवारचर्वात्मकस्य हविषः सार्थवादं विधानं, पञ्चमस्य ज्येष्ठत्व- गुणकेन्द्रदेवत्यस्य हायनचर्वात्मकस्य हविषः सार्थवादं विधानं, षष्ठस्य पशु- पतिगुणकरुद्रदेवत्यस्य गावेधुकचर्वा- त्मकस्य हविषः सार्थवादं विधानं, सप्तमस्य सत्यगुणकमित्रदेवत्यस्य नाम्बसंज्ञकब्रीहिप्रकृतिकचर्वात्मकस्य हविषः सार्थवादं विधानम्, अष्टमस्य धर्मपतिगुणकवरुणदेवत्यस्य यवमयचर्वात्मकस्य हविषः सार्थवादं विधानम्, एतेषां निरुप्तानां हविषां प्रचरणकालस्य विधानं, प्रधानोत्तरं स्विष्टकृतः पूर्वं यजमानस्य दक्षिणबाहुमन्वारभ्याध्वर्योः सविता- त्वा-इमन्देवाः इत्येतयोर्मन्त्रयोः परोक्षप्रत्यक्षवृत्तितया जपविधानं, तत्र इमन्देवाः इत्यस्य मंत्रस्य तात्पर्ययुतं भागशो व्याख्यानम्, उक्तहविरष्टकस्य देवतानां सम्भूय नामनिर्वचनं, उक्तानां देवतांनामेकैकस्य विशेषणविशेष्यात्मकनामद्वयस्य द्वन्द्वात्मना प्रशंसनं, ततः प्रकृतस्विष्टकृद्यागस्य सार्थवादं संसूचनं चेत्यादि,


ब्राह्मण ४

४ अभिषेचनीयानामपां सम्भरणम्- तत्राप्सम्भरणं प्रशंस्य तदर्थं पात्र विशेषस्य सार्थवादं विधानं, जलसम्भरणे क्रमविधानाय सारस्वतीनामपां समंत्रकं ग्रहणविधानं तन्मंत्रस्य प्रतिपादनमनूद्य व्याख्यानं गृहीतानामुदकानामभिषेकार्थत्वेन सरस्वत्या नद्याश्च वागात्मत्वेन प्रशंसनं च, क्रमाच्चतुर्गृहीतेनाज्येन पूर्वं पूर्वं स्वाहान्तैर्मंत्रैर्हुत्वा हुत्वा उत्त- रोत्तरं ग्रहणमन्त्रैः क्रमविशिष्टोर्मिद्वय- गतानामपां-प्रवहन्तीनामपां-प्रतिलोमं प्रवहन्तीनामपां-नद्याः सकाशादपच्छिद्य गच्छन्तीनामपां सामुद्राणा- मुच्छलन्तीनामपां-आवर्तगतानामपां- स्यन्दमानस्थावरह्रदस्थितानामपां आतप वर्ष्याणां भूमिमप्राप्तानामपां सरस्या. नामपां-कूप्यानामपां-नीहारस्थानामपां मधुरूपाणामपां-गोरुल्ब्यानामपां-पयो- रूपाणामपां-घृतरूपाणामपां-हवनवर्जं मरीचीगतानामपां चेत्येतासामपां सार्थवादंग्रहणविधानं, सम्भृतानामपां सप्तदश- संख्यां प्रजापत्यात्मना प्रशंस्य सरस्वती-प्रभृतिमरीच्यन्तानामपामाहुतीनां च संख्यां समस्य तस्याः प्रजापत्यात्मना प्रशंसनं, होमपूर्वकमपां ग्रहणस्य प्रशंसनं, सारस्वतीमारीचीनां ग्रहणे होमस्याभावे कारणाभिधानं, पृथक्पृथक्पात्रे गृहीतानामपां सम्भूयैकस्मिन्नौदुम्बरे एव पात्रे समवनयनस्य समंत्रकं विधानं, मंत्र- तद्व्याख्यानसहितं संसृष्टानामपां मैत्रावरुणधिष्ण्यस्य पुरोदेशे सादनविधानं चेत्यादि.


ब्राह्मण ५

५ अभिषेकः-माध्यन्दिनसवने माहेन्द्रग्रहग्रहणात्प्राक्तनक्षणलक्षणकालविशिष्टस्य यजमानाभिषेकस्य सार्थवादं विधानं, मैत्रावरुणधिष्ण्यस्य पुरोदेशे समंत्रकं व्याघ्रचर्मास्तरणं विधाय तस्य सोमत्विषित्वस्याख्यायिकयोपपादनम्, अभिषेकस्य पुरस्तात्पश्चाच्च हूयमानानां पार्थहोमानां सकलं सार्थवादं विधानं तेषां संख्याकालयोः सार्थवादं विधानं च, अभिषेकस्य पुरस्तात्कर्तव्यं होममनूद्य मंत्राणां सार्थवादं सविशेषं विधानम्, अभिषेकस्य पश्चात्कर्तव्यं होममनूद्य तन्मंत्राणां सार्थवादं सविशेषं विधानम्, अभिषेचनीयानां पात्राणामासादनदेशविधान, तेषां पात्राणामभिषेक्तृवर्णविशेषेण पालाशादिवृक्षकाष्ठविशेषत्वस्य सोपपत्तिकं विधानं, पवित्रकरणं विधाय तदर्थवादस्यातिदेशकथनं च, तयोर्दर्भयोर्हिरण्यग्रथनं विधाय ताभ्यां पवित्राभ्यामुत्पवनविधानम्, उत्पवनमनूद्य मन्त्रस्य सार्थवादातिदेशं विधानं, उत्पवनमंत्रस्य भागशोऽनूद्य साभिप्राय व्याख्यानम्, अभिषेचनीयेषु पात्रेष्वेता- सामपां समंत्रकमासेचनं विधाय तन्मन्त्रस्य प्रतिपदमनूद्य व्याख्यानं, यजमानाय तार्प्यपाण्ड्वाधिवासोष्णीषाणां वाससां तत्तन्मन्त्रैः सप्रकारकं सहेतुकं परिधापनविधानं, तत्रोक्तस्योष्णीषाग्रव्य पूर्वदेशेऽवगूहनं द्रढयितुं पूर्वपक्षं सोप- पत्तिकमनूद्य तं दूषयित्वा सकारणं स्वमतस्य प्रतिष्ठापनं, तार्प्यादिवासः- परिधापनस्य समुच्चित्य प्रशंसनं, पूर्वं निहितस्य दीक्षितवसनस्य परित्याग- विधित्सया केषाञ्चिन्मतेनैतेषां परिधापितानां तार्प्यादिवाससां विमृज्यान्यत्र निधानं तदानीमेव दीक्षितवसनस्य पुनः परिधापनं च पूर्वपक्षयित्वा सहेतुकं तदुभयस्य दूषणं, विहितस्य दीक्षितवसनस्यावभृथे प्रासनं विधाय तेषां वाससां दानकालविधानं, समंत्रकं धनुष आतननविधानं, तस्य धनुषः कोट्योः समंत्रकं विमार्जनविधानं, समंत्रकं धनुः प्रदानं विधायेषुत्रयप्रदानविधानं तेषामिषूणां लोकत्रयात्मत्वेन प्रशंसनं लक्षणसंज्ञयोः कथनं च, इषुत्रयदानमनूद्य साभिप्रायं मंत्रस्य विनियोजनं, यजमानायाविल्लिङ्गकमंत्राणां वाचनविधानं चेति.