शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ३/ब्राह्मण ५

विकिस्रोतः तः

५.३.५ अथ अभिषेकः

तं वै माध्यदिने सवनेऽभिषिञ्चति । एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति - ५.३.५.१

अगृहीते माहेन्द्रे । एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रोऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तदेनं स्व एवायतनेऽभिषिञ्चति तस्मादगृहीते माहेन्द्रे - ५.३.५.२

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । शार्दूलचर्मोपस्तृणाति सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे त्विषिर्भूयादिति - ५.३.५.३

अथ पार्थानि जुहोति । पृथा ह वै वैन्यो मनुष्याणां प्रथमोऽभिषिषिचे सोऽकामयत सर्वमन्नाद्यमवरुन्धीयेति तस्मा एतान्यजुहवुः स इदं सर्वमन्नाद्यमवरुरुधेऽपि ह स्मास्मा आरण्यान्पशूनभिह्वयन्त्यसावेहि राजा त्वापक्ष्यत इति तथेदं सर्वमन्नाद्यमवरुरुधे सर्वं ह वा अन्नाद्यमवरुन्द्धे यस्यैवं विदुष एतानि हूयन्ते - ५.३.५.४

तानि वै द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश भवन्ति - ५.३.५.५

षट्पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टात्तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति - ५.३.५.६

स यानि पुरस्तादभिषेकस्य जुहोति । बृहस्पतिस्तेषामुत्तमो भवत्यथ यान्युपरिष्टादभिषेकस्य जुहोतीन्द्रस्तेषां प्रथमो भवति ब्रह्म वै बृहस्पतिरिन्द्रियं वीर्यमिन्द्र एताभ्यामेवैनमेतद्वीर्याभ्यामुभयतः परिबृंहति - ५.३.५.७

स जुहोति । यानि पुरस्तादभिषेकस्य जुहोत्यग्नये स्वाहेति तेजो वा अग्निस्तेजसैवैनमेतदभिषिञ्चति सोमाय स्वाहेति क्षत्रं वै सोमः क्षत्रेणैवैनमेतदभिषिञ्चति सवित्रे स्वाहेति सविता वै देवानां प्रसविता सवितृप्रसूत एवैनमेतदभिषिञ्चति सरस्वत्यै स्वाहेति वाग्वै सरस्वती वाचैवैनमेतदभिषिञ्चति पूष्णे स्वाहेति पशवो वै पूषा पशुभिरेवैनमेतदभिषिञ्चति बृहस्पतये स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनमेतदभिषिञ्चत्येतानि पुरस्तादभिषेकस्य जुहोति तान्येतान्यग्निनामानीत्याचक्षते - ५.३.५.८

अथ जुहोति । यान्युपरिष्टादभिषेकस्य जुहोतीन्द्राय स्वाहेति वीर्यं वा इन्द्रो वीर्येणैवैनमेतदभिषिञ्चति घोषाय स्वाहेति वीर्यं वै घोषो वीर्येणैवैनमेतदभिषिञ्चति श्लोकाय स्वाहेति वीर्यं वै श्लोको वीर्येणैवैनमेतदभिषिञ्चत्यंशाय स्वाहेति वीर्यं वा अंशो वीर्येणैवैनमेतदभिषिञ्चति भगाय स्वाहेति वीर्यं वै भगो वीर्येणैवैनमेतदभिषिञ्चत्यर्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्यमणं करोत्येतान्युपरिष्टादभिषेकस्य जुहोति तान्येतान्यादित्यनामानीत्याचक्षते - ५.३.५.९

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । अभिषेचनीयानि पात्राणि भवन्ति यत्रैता आपोऽभिषेचनीया भवन्ति - ५.३.५.१०

पालाशं भवति । तेन ब्राह्मणोऽभिषिञ्चति ब्रह्म वै पलाशो ब्रह्मणैवैनमेतदभिषिञ्चति - ५.३.५.११

औदुम्बरं भवति । तेन स्वोऽभिषिञ्चत्यन्नं वा ऊर्गुदुम्बर ऊर्ग्वै स्वं यावद्वै पुरुषस्य स्वं भवति नैव तावदशनायति तेनोर्क्स्वं तस्मादौदुम्बरेण स्वोऽभिषिञ्चति - ५.३.५.१२

नैयग्रोधपादं भवति । तेन मित्र्यो राजन्योऽभिषिञ्चति पद्भिर्वै न्यग्रोधः प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैयग्रोधपादेन मित्र्यो राजन्योऽभिषिञ्चति - ५.३.५.१३

आश्वत्थं भवति । तेन वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेन वैश्योऽभिषिञ्चत्येतान्यभिषेचनीयानि पात्राणि भवन्ति - ५.३.५.१४

अथ पवित्रे करोति । पवित्रे स्थो वैष्णव्याविति सोऽसावेव बन्धुस्तयोर्हिरण्यम्प्रवयति ताभ्यामेता अभिषेचनीया अप उत्पुनाति तद्यद्धिरण्यम्प्रवयत्यमृतमायुर्हिरण्यं तदा- स्वमृतमायुर्दधाति तस्माद्धिरण्यं प्रवयति - ५.३.५.१५

स उत्पुनाति । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो
ऽसावेव बन्धुरनिभृष्टमसि वाचो बन्धुस्तपोजा इत्यनाधृष्टा स्थ रक्षोभिरित्येवैतदाह यदाहानिभृष्टमसीति वाचो बन्धुरिति यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति तस्मादाह वाचो बन्धुरिति - ५.३.५.१६

तपोजा इति । अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजा इति - ५.३.५.१७


सोमस्य दात्रमसीति । यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति तस्मादाह सोमस्य दात्रमसीति स्वाहा राजस्व इति तदेनाः स्वाहाकारेणैवोत्पुनाति - ५.३.५.१८

ता एतेषु पात्रेषु व्यानयति । सधमादो द्युम्निनीराप एता इत्यनतिमानिन्य इत्येवैतदाह यदाह सधमाद इति द्युम्निनीराप एता इति वीर्यवत्य इत्येवैतदाहानाधृष्टा अपस्यो वसाना इत्यनाधृष्टा स्थ रक्षोभिरित्येवैतदाह यदाहानाधृष्टा अपस्यो वसाना इति पस्त्यासु चक्रे वरुणः सधस्थमिति विशो वै पस्त्या विक्षु चक्रे वरुणः प्रतिष्ठामित्येवैतदाहापां शिशुर्मातृतमास्वन्तरिति - ५.३.५.१९

अथैनं वासांसि परिधापयति । तत्तार्प्यमिति वासो भवति तस्मिन्त्सर्वाणि यज्ञरूपाणि निष्यूतानि भवन्ति तदेनं परिधापयति क्षत्रस्योल्बमसीति तद्यदेव क्षत्रस्योल्बं तत एवैनमेतज्जनयति - ५.३.५.२०

अथैनं पाण्ड्वं परिधापयति । क्षत्रस्य जराय्वसीति तद्यदेव क्षत्रस्य जरायु तत एवैनमेतज्जनयति - ५.३.५.२१

अथाधीवासं प्रतिमुञ्चति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तस्या एवैनमेतज्जनयति - ५.३.५.२२

अथोष्णीषं संहृत्य । पुरस्तादवगूहति क्षत्रस्य नाभिरसीति तद्यैव क्षत्रस्य नाभिस्तामेवास्मिन्नेतद्दधाति - ५.३.५.२३

तद्धैके । समन्तं परिवेष्टयन्ति नाभिर्वा अस्यैषा समन्तं वा इयं नाभिः पर्येतीति वदन्तस्तदु तथा न कुर्यात्पुरस्तादेवावगूहेत्पुरस्ताद्धीयं नाभिस्तद्यदेनं वासांसि परिधापयति जनयत्येवैनमेतज्जातमभिषिञ्चानीति तस्मादेनं वासांसि परिधापयति - ५.३.५.२४

तद्धैके । निदधत्येतानि वासांस्यथैनं पुनर्दीक्षितवसनं परिधापयन्ति तदु तथा न कुर्यादङ्गानि वा अस्य जनूर्वासांस्यङ्गैर्हैनं सजन्वा तन्वा व्यर्धयन्ति वरुण्यं दीक्षितवसनं स एतेषामेवैकं वाससां परिदधीत तदेनमङ्गैर्जन्वा तन्वा समर्धयति वरुण्यं दीक्षितवसनं तदेनं वरुण्याद्दीक्षितवसनात्प्रमुञ्चति - ५.३.५.२५

स यत्रावभृथमभ्यवैति । तदेतदभ्यवहरन्ति तत्सलोम क्रियते स एतेषामेवैकं वाससां परिधायोदैति तानि वशायै वा वपायां हुतायां दद्यादुदवसानीयायां वेष्टौ - ५.३.५.२६

अथ धनुरधितनोति । इन्द्रस्य वार्त्रघ्नमसीति वार्त्रघ्नं वै धनुरिन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वार्त्रघ्नमसीति - ५.३.५.२७

अथ बाहू विमार्ष्टि । मित्रस्यासि वरुणस्यासीति बाह्वोर्वै धनुर्बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रस्यासि वरुणस्यासीति तदस्मै प्रयच्छति त्वयाऽयं वृत्रम्वधेदिति त्वयायं द्विषन्तं भ्रातृव्यं वधेदित्येवैतदाह - ५.३.५.२८

अथास्मै तिस्र इषूः प्रयच्छति । स यया प्रथमया समर्पणेन पराभिनत्ति सैका सेयं पृथिवी सैषा दृबा नामाथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा द्वितीया तदिदमन्तरिक्षं सैषा रुजा नामाथ ययाऽपैव राध्नोति सा तृतीया साऽसौ द्यौः सैषा क्षुमा नामैता हि वै तिस्र इषवस्तस्मादस्मै तिस्र इषूः प्रयच्छति - ५.३.५.२९

ताः प्रयच्छति । पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम्प्रयच्छति - ५.३.५.३०

अथैनमाविदो वाचयति । आविर्मर्या इत्यनिरुक्तं प्रजापतिर्वा अनिरुक्तस्तदेनम्प्रजापतय आवेदयति सोऽस्मै सवमनुमन्यते तेनानुमतः सूयते - ५.३.५.३१

आवित्तो अग्निर्गृहपतिरिति । ब्रह्म अग्निस्तदेनं ब्रह्मण आवेदयति तदस्मै सवमनुमन्यते तेनानुमतः सूयते - ५.३.५.३२

आवित्तऽइन्द्रो वृद्धश्रवा इति । क्षत्रं वा इन्द्रस्तदेनं क्षत्रायावेदयति तदस्मै सवमनुमन्यते तेनानुमतः सूयते - ५.३.५.३३

आवित्तौ मित्रावरुणौ धृतव्रताविति । प्राणोदानौ वै मित्रावरुणौ तदेनम्प्राणोदानाभ्यामावेदयति तावस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते - ५.३.५.३४

आवित्तः पूषा विश्ववेदा इति । पशवो वै पूषा तदेनं पशुभ्य आवेदयति तेऽस्मै सवमनुमन्यन्ते तैरनुमतः सूयते - ५.३.५.३५

आवित्ते द्यावापृथिवी विश्वशम्भुवाविति । तदेनमाभ्यां द्यावापृथिवीभ्यामावेदयति
ते अस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते - ५.३.५.३६

आवित्ताऽदितिरुरुशर्मेति । इयं वै पृथिव्यदितिस्तदेनमस्मै पृथिव्या आवेदयति साऽस्मै
सवमनुमन्यते तयाऽनुमतः सूयते तद्याभ्य एवैनमेतद्देवताभ्य आवेदयति ता अस्मै सवमनुमन्यन्ते ताभिरनुमतः सूयते - ५.३.५.३७