शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ३/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

५.३.१ रत्नयागाः

अरण्योरग्नी समारोह्य । सेनान्यो गृहान्परेत्याग्नयेऽनीकवतेऽष्टाकपालम्पुरोडाशं निर्वपत्यग्निर्वै देवतानामनीकं सेनाया वै सेनानीरनीकं तस्मादग्नयेऽनीकवत एतद्वा अस्यैकं रत्नं यत्सेनानीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा - ५.३.१.[१]

अथ श्वो भूते । पुरोहितस्य गृहान्परेत्य बार्हस्पत्यं चरुं निर्वपति बृहस्पतिर्वै देवानां पुरोहित एष वा एतस्य पुरोहितो भवति तस्माद्बार्हस्पत्यो भवत्येतद्वा अस्यैकं रत्नं यत्पुरोहितस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थास्तस्माच्छितिपृष्ठो बार्हस्पत्यस्य दक्षिणा - ५.३.१.[२]

अथ श्वो भूते । सूयमानस्य गृह ऐन्द्रमेकादशकपालं पुरोडाशं निर्वपति क्षत्रं वा इन्द्रः क्षत्रं सूयमानस्तस्मादैन्द्रो भवति तस्यर्षभो दक्षिणा स ह्यैन्द्रो यदृषभः - ५.३.१.[३]

अथ श्वो भूते । महिष्यै गृहान्परेत्य आदित्यं चरुं निर्वपतीयं वै पृथिव्यदितिः सेयं देवानां पत्न्येषा वा एतस्य पत्नी भवति तस्मादादित्यो भवत्येतद्वा अस्यैकं रत्नं यन्महिषी तस्या एवैतेन सूयते तां स्वामनपक्रमिणीं कुरुते तस्यै धेनुर्दक्षिणा धेनुरिव वा इयं मनुष्येभ्यः सर्वान्कामान्दुहे माता धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणा - ५.३.१.[४]

अथ श्वो भूते । सूतस्य गृहान्परेत्य वारुणं यवमयं चरुं निर्वपति सवो वै सूतः सवो वै देवानां वरुणस्तस्माद्वारुणो भवत्येतद्वा अस्यैकं रत्नं यत्सूतस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्याश्वो दक्षिणा स हि वारुणो यदश्वः - ५.३.१.[५]

अथ श्वो भूते । ग्रामण्यो गृहान्परेत्य मारुतं सप्तकपालं पुरोडाशं निर्वपति विशो वै मरुतो वैश्यो वै ग्रामणीस्तस्मान्मारुतो भवत्येतद्वा अस्यैकं रत्नं यद्ग्रामणीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां यत्पृषतो गोर्विशो वै मरुतो भूमो वै विट्तस्मात्पृषन्गौर्दक्षिणा - ५.३.१.[६]

अथ श्वो भूते । क्षत्तुर्गृहान्परेत्य सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति सविता वै देवानां प्रसविता प्रसविता वै क्षत्ता तस्मात्सावित्रो भवत्येतद्वा अस्यैकं रत्नं यत्क्षत्ता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्येतोऽनड्वान्दक्षिणैष वै सविता य एष तपत्येति वा एष एत्यनड्वान्युक्तस्तद्यच्छ्येतो भवति श्येत इव ह्येष उद्यंश्चास्तं च यन्भवति तस्माच्छ्येतोऽनड्वान्दक्षिणा - ५.३.१.[७]

अथ श्वो भूते । संग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालं पुरोडाशं निर्वपति सयोनी वा अश्विनौ सयोनी सव्यष्टृसारथी समानं हि रथमधितिष्ठतस्तस्मादाश्विनो भवत्येतद्वा अस्यैकं रत्नं यत्संग्रहीता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य यमौ गावौ दक्षिणा तौ हि सयोनी यद्यमौ यदि यमौ न विन्देदप्यनूचीनगर्भावेव गावौ दक्षिणा स्यातां ता उ ह्यपि समानयोनी - ५.३.१.[८]

अथ श्वो भूते । भागदुघस्य गृहान्परेत्य पौष्णं चरुं निर्वपति पूषा वै देवानां भागदुघ एष वा एतस्य भागदुघो भवति तस्मात्पौष्णो भवत्येतद्वा अस्यैकं रत्नं यद्भागदुघस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्यामो गौर्दक्षिणा तस्यासावेव बन्धुर्योऽसौ त्रिषंयुक्तेषु - ५.३.१.[९]

अथ श्वो भूते । अक्षावापस्य च गृहेभ्यो गोविकर्तस्य च गवेधुकाः सम्भृत्य सूयमानस्य गृहे रौद्रं गावेधुकं चरुं निर्वपति ते वा एते द्वे सती रत्ने एकं करोति सम्पदः कामाय तद्यदेतेन यजते यां वा इमां सभायां घ्नन्ति रुद्रो हैतामभिमन्यतेऽग्निर्वै रुद्रोऽधिदेवनं वा अग्निस्तस्यैतेऽङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते यो वैतदेवं वेदैतद्वा अस्यैकं रत्नं यदक्षावापश्च गोविकर्तश्च ताभ्यामेवैतेन सूयते तौ स्वावनपक्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा शितिबाहुर्वा शितिबालो वासिर्नखरो बालदाम्नाक्षावपनं प्रबद्धमेतदु हि तयोर्भवति - ५.३.१.[१०]

अथ श्वो भूते । पालागलस्य गृहान्परेत्य चतुर्गृहीतमाज्यं गृहीत्वाध्वन आज्यं जुहोति जुषाणोऽध्वाज्यस्य वेतु स्वाहेति प्रहेयो वै पालागलोऽध्वानं वै प्रहित एति तस्मादध्वन आज्यं जुहोत्येतद्वा अस्यैकं रत्नं यत्पालागलस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य दक्षिणाऽप्युक्ष्णवेष्टितं धनुश्चर्ममया बाणवन्तो लोहित उष्णीष एतदु हि तस्य भवति - ५.३.१.[११]

तानि वा एतानि । एकादश रत्नानि सम्पादयत्येकादशाक्षरा वै त्रिष्टुब्वीर्यं त्रिष्टुब्वीर्यमेवैतद्रत्नान्यभिसम्पादयति तद्यद्रत्निनां हविर्भिर्यजत एतेषां वै राजा भवति तेभ्य एवैतेन सूयते तान्त्स्वाननपक्रमिणः कुरुते - ५.३.१.[१२]

अथ श्वो भूते । परिवृत्त्यै गृहान्परेत्य नैर्ऋतं चरुं निर्वपति या वा अपुत्रा पत्नी सा परिवृत्ती स कृष्णानां व्रीहीणां नखैर्निर्भिद्य तण्डुलान्नैर्ऋतं चरुं श्रपयति स जुहोत्येष ते निर्ऋते भागस्तं जुषस्व स्वाहेति या वा अपुत्रा पत्नी सा निर्ऋतिगृहीता तद्यदेवास्य अत्र नैर्ऋतं रूपं तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न गृह्णाति तस्य दक्षिणा कृष्णा गौः परिमूर्णी पर्यारिणी सा ह्यपि निर्ऋतिगृहीता तामाह मामेऽद्येशायां वात्सीदिति तत्पाप्मानमपादत्ते - ५.३.१.[१३]

[सम्पाद्यताम्]

द्र. वायुपुराणम् ५७.७०