सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः

५.३.३ दीक्षणीययागाः

स वै दीक्षते । स उपवसथेऽग्नीषोमीयं पशुमालभते तस्य वपया प्रचर्याग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति तदनु देवस्वां हवींषि निरुप्यन्ते - ५.३.३.१

सवित्रे सत्यप्रसवाय । द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति प्लाशुकानां व्रीहीणां सविता वा देवानां प्रसविता सवितृप्रसूतः सूया इत्यथ यत्प्लाशुकानां व्रीहीणां क्षिप्रे मा प्रसुवानिति - ५.३.३.२

अथाग्नये गृहपतये । अष्टाकपालं पुरोडाशं निर्वपत्याशूनां श्रीर्वै गार्हपतं यावतो यावत ईष्टे तदेनमग्निरेव गृहपतिर्गार्हपतमभि परिणयत्यथ यदाशूनां क्षिप्रे मा परिणयानिति - ५.३.३.३

अथ सोमाय वनस्पतये । श्यामाकं चरुं निर्वपति तदेनं सोम एव वनस्पतिरोषधिभ्यः सुवत्यथ यच्छ्यामाको भवत्येते वै सोमस्यौषधीनां प्रत्यक्षतमां यच्छ्यामाकास्तस्माच्छ्यामाको भवति - ५.३.३.४

अथ बृहस्पतये वाचे । नैवारं चरुं निर्वपति तदेनं बृहस्पतिरेव वाचे सुवत्यथ यन्नैवारो भवति ब्रह्म वै बृहस्पतिरेते वै ब्रह्मणा पच्यन्ते यन्नीवारास्तस्मान्नैवारो भवति - ५.३.३.५

अथेन्द्राय ज्येष्ठाय । हायनानां चरुं निर्वपति तदेनमिन्द्र एव ज्येष्ठो ज्यैष्ठ्यमभि परिणयत्यथ यद्धायनानां भवत्यतिष्ठा वा एता ओषधयोयद्धायना अतिष्ठो वा इन्द्रस्तस्माद्धायनानां भवति - ५.३.३.६

अथ रुद्राय पशुपतये । रौद्रं गावेधुकं चरुं निर्वपति तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवत्यथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको भवति - ५.३.३.७

अथ मित्राय सत्याय । नाम्बानां चरुं निर्वपति तदेनं मित्र एव सत्यो ब्रह्मणे सुवत्यथ यन्नाम्बानां भवति वरुण्या वा एता ओषधयो याः कृष्टे जायन्तेऽथैते मैत्रा यन्नाम्बास्तस्मान्नाम्बानां भवति - ५.३.३.८

अथ वरुणाय धर्मपतये । वारुणं यवमयं चरुं निर्वपति तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि परमतां गच्छति तं हि धर्म उपयन्ति तस्माद्वरुणाय धर्मपतये - ५.३.३.९

अथाग्नीषोमीयेन पुरोडाशेन प्रचरति । तस्यानिष्ट एव स्विष्टकृद्भवत्यथैतैर्हविर्भिः प्रचरति यदैतैर्हविर्भिः प्रचरति - ५.३.३.१०

अथैनं दक्षिणे बाहावभिपद्य जपति । सविता त्वा सवानां सुवतामग्निर्गृहपतीनां सोमो वनस्पतीनां बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् - ५.३.३.११

इमं देवाः । असपत्नं सुवध्वमितीमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति महते जनानां राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियायेति वीर्यायेत्येवैतदाह यदाहेन्द्रस्येन्द्रियायेतीमममुष्यै पुत्रममुष्यै पुत्रमिति तद्यदेवास्य जन्म तत एवैतदाहास्यै विश इति यस्यै विशो राजा भवत्येष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजेति तदस्मा इदं सर्वमाद्यं करोति ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणोऽनाद्यः सोमराजा हि भवति - ५.३.३.१२

एता ह वै देवाः सवस्येशते । तस्माद्देवस्वो नाम तदेनमेता एव देवताः सुवते ताभिः सूतः श्वः सूयते - ५.३.३.१३

ता वै द्विनाम्न्यो भवन्ति । द्वन्द्वं वै वीर्यं वीर्यवत्यः सुवान्ता इति तस्माद्द्विनाम्न्यो भवन्ति - ५.३.३.१४

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनुप्रजायन्ते तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते जुहोति - ५.३.३.१५