शतपथब्राह्मणम्/काण्डम् १/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

कपालोपधानपेषणयोर्यौगपद्यं,तदुपपत्तिः, तयोः सम्बन्धिनी सकलेतिकर्तव्यता, तत्र उपवेषधृष्टिशब्दनिर्वचनं, मध्यमकपाले आभिचारिको विधिः, शम्याया जिह्वासंस्तवः, पेषणप्रोहणमन्त्राभिप्रायाविष्करणम्, आज्यनिर्वापस्तन्निर्वापमन्त्रस्यानिरुक्तयजुष्ट्वप्रतिपादनं, तत्तदर्थवादादिकं च.

ब्राह्मण २

सपवित्रायां पात्र्यां पिष्टसंवापादिपात्र्यङ्गुलिप्रक्षालनोदकमाप्त्येभ्यो निनयति-इत्येतदन्तं पुरोडाशश्रपणं,तेन सहैवाज्याधिश्रयणसोपपत्तिकं, पुरोडाशश्रपणस्य प्रवर्ग्य-प्रवृञ्जनसाम्योपपादनम्, अभिवासनेन नग्नत्वमुषितत्वपरिहारः, लोकेऽपि तथाविधः स्वापो न विधेय इति सूचनं, तत्तदर्थवादादिकं च.

ब्राह्मण ३

आप्त्यसंज्ञकदेवानामुत्पत्तिः, त्रिशीर्षत्वाष्ट्रविश्वरूपवधः, पात्र्यंगुलिनिर्णेजनमात्यानांभाग इति निरूपणं, दक्षिणावतैव यागेन यष्टव्यं नादक्षिणेनेति, तत्र दर्शपूर्णमासयोरन्वाहार्यो दक्षिणा, आप्त्योदकदानं, पुरोडाशस्य पशुसंस्तवः, तत्र देवैरालब्धानां पुरुषाश्वादिपशूनां पृथिवीप्रविष्टान्मेधाद् वीर्यवतोर्व्रीहियवयोरुत्पत्तिः, पशुपुरोडाशयोः पांक्तत्वं, देवैरालब्धानामपक्रान्तमेधानां पुरुषाश्वादिपशूनामभक्ष्यत्वकथनं च.

ब्राह्मण ४

वेदिकाकरणं, तत्र स्फ्यादेर्वज्ररूपत्वादिप्रतिपादनं, तदुपयोगो वृत्रेन्द्रसंग्रामश्च, तथाऽत्राभिचारविधिः, पर्यायचतुष्टयात्मकः स्तम्बयजुर्हरणविधिः, यज्ञविघातकासुरनिर्हरणं, शत्रुनिर्हरणं, तत्सम्बन्धिन्याख्यायिका, स्तम्बयजुर्हरणेऽभिचारप्रयोगश्चेति.

ब्राह्मण ५

वेदेः परिग्रहोपोद्घातः, तत्र वामनावतारः, असुरेभ्यो देवानां वामनरूपिविष्णुसंमितयज्ञभूमिप्रविभागः, साख्यायिकौ वेदेः पूर्वोत्तरपरिग्रहौ, तत्र वेदिशब्दनिरुक्तिः, वेदिमानं, वेदेर्लौकिकस्त्रीसाम्येन प्रशंसनं, देवादीनां दिग्विभागः, पुरीषाहरणे काम्यप्रयोगः, वेदेरनुमार्जनं तदाख्यायिका, तत्र चन्द्रमसि कृष्णकलङ्कोपोद्घातः, वेद्यां प्रोक्षण्यासाद- नादि-पाण्योरवनेजनान्ता इतिकर्तव्यता, तत्र स्फ्योदकप्रहारेऽभिचार प्रयोगः, प्रधानयागाद्बर्हिस्तरणात्प्राक्च वेदेः स्पर्शे निषेधः सेतिहासः, देवानां क्रतुभुक्त्वम्, आपन्नतृणनिरसनं, बर्हिस्तरणादनन्तरं वेदेः स्पर्शो न दोषायेत्यादि ।