शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण ४
१.२.४ वेदिकाकरणम्
इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्धाऽभवत्तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा यावद्वाथ यत्र प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शरोऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रोऽभवत् - १.२.४.१
ततो द्वाभ्यां ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः संव्याधे यूपेन च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः - १.२.४.२
स यत्स्फ्यमादत्ते । यथैव तदिन्द्रो वृत्राय वज्रमुदयच्छदेवमेवैष एतम्पाप्मने द्विषते भ्रातृव्याय वज्रमुद्यच्छति तस्माद्वै स्फ्यमादत्ते - १.२.४.३
तमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददेऽध्वरकृतं देवेभ्य इति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैनमेतदादत्तेऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू तत्तयोरेव बाहुभ्यामादत्ते न स्वाभ्यां वज्रो वा एष तस्य न मनुष्यो भर्ता तमेताभिर्देवताभिरादत्ते - १.२.४.४
आददेऽध्वरकृतं देवेभ्य इति । अध्वरो वै यज्ञो यज्ञकृतं देवेभ्य इत्येवैतदाह तं सव्ये पाणौ कृत्वा दक्षिणेनाभिमृष्य जपति संश्यत्येवैनमेतद्यज्जपति - १.२.४.५
स जपति । इन्द्रस्य बाहुरसि दक्षिण इत्येष वै वीर्यवत्तमो य इन्द्रस्य बाहुर्दक्षिणस्तस्मादाहेन्द्रस्य बाहुरसि दक्षिण इति सहस्रभृष्टिः शततेजा इति सहस्रभृष्टिर्वै स वज्र आसीच्छततेजा यं तं वृत्राय प्राहरत्तमेवैतत्करोति - १.२.४.६
वायुरसि तिग्मतेजा इति । एतद्वै तेजिष्ठं तेजो यदयं योऽयं पवत एष हीमांल्लोकांस्तिर्यङ्ङनुपवते संश्यत्येवैनमेतद्द्विषतो वध इति यदि नाभिचरेद्यद्यु अभिचरेदमुष्य वध इति ब्रूयात्तेन संशितेन नात्मानमुपस्पृशति न पृथिवीं नेदनेन वज्रेण संशितेनात्मानं वा पृथिवीं वा हिनसानीति तस्मान्नात्मानमुपस्पृशति न पृथिवीम् - १.२.४.७
देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ते ह स्म यद्देवा असुराञ्जयन्ति ततो ह स्मैवैनान्पुनरुपोत्तिष्ठन्ति - १.२.४.८
ते ह देवा ऊचुः । जयामो वा असुरांस्ततस्त्वेव नः पुनरुपोत्तिष्ठन्ति कथं न्वेनाननपजय्यं जयेमेति - १.२.४.९
स हाग्निरुवाच । उदञ्चो वै नः पलाय्य मुच्यन्त इत्युदञ्चो ह स्मैवैषां पलाय्य मुच्यन्ते - १.२.४.१०
स हाग्निरुवाच । अहमुत्तरतः पर्येष्याम्यथ यूयमित उप संरोत्स्यथ तान्त्संरुध्यैभिश्च लोकैरभिनिधास्यामो यदु चेमांल्लोकानति चतुर्थं ततः पुनर्न संहास्यन्त इति - १.२.४.११
सोऽग्निरुत्तरतः पर्यैत् । अथेम इत उपसमरुन्धंस्तान्त्संरुध्यैभिश्च लोकैरभिन्यदधुर्यदु चेमांल्लोकानति चतुर्थं ततः पुनर्न समजिहत तदेतन्निदानेन यत्स्तम्बयजुः - १.२.४.१२
स योऽसावग्नीदुत्तरतः पर्येति । अग्निरेवैष निदानेन तानध्वर्युरेवेत उपसंरुणद्धि तान्त्संरुध्यैभिश्च लोकैरभिनिदधाति यदु चेमांल्लोकानति चतुर्थं ततः पुनर्न संजिहते तस्मादप्येतर्ह्यसुरा न संजिहते येन ह्येवैनान्देवा अवाबाधन्त तेनैवैनानप्येतर्हि ब्रह्मणा यज्ञेऽवबाधन्ते - १.२.४.१३
य उ एव यजमानायारातीयति । यश्चैनं द्वेष्टि तमेवैतदेभिश्च लोकैरभिनिदधाति यदु चेमांल्लोकानति चतुर्थमस्या एव सर्वं हरत्यस्यां हीमे सर्वे लोकाः प्रतिष्ठिताः किं हि हरेद्यदन्तरिक्षं हरामि दिवं हरामीति हरेत्तस्मादस्या एव सर्वं हरति - १.२.४.१४
अथ तृणमन्तर्धाय प्रहरति । नेदनेन वज्रेण संशितेन पृथिवीं हिनसानीति तस्मात्तृणमन्तर्धाय प्रहरति - १.२.४.१५
स प्रहरति । पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषमित्युत्तरमूलामिव वा एनामेतत्करोत्याददानस्तामेतदाहौषधीनां ते मूलानि मा हिंसिषमिति व्रजं गच्छ गोष्ठानमित्यभिनिधास्यन्नेवैतदनपक्रमि कुरुते तद्ध्यनपक्रमि यद्व्रजेऽन्तस्तस्मादाह व्रजं गच्छ गोष्ठानमिति वर्षतु ते द्यौरिति यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादाह वर्षतु ते द्यौरिति बधान देव सवितः परमस्याम्पृथिव्यामिति देवमेवैतत्सवितारमाहान्धे तमसि बधानेति यदाह परमस्याम्पृथिव्यामिति शतेन पाशैरित्यमुचे तदाह योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति यदि नाभिचरेद्यद्यु अभिचरेदमुमतो मा मौगिति ब्रूयात् - १.२.४.१६
अथ द्वितीयं प्रहरति । अपाररुं पृथिव्यै देवयजनाद्बध्यासमित्यररुर्ह वै नामासुररक्षसमास तं देवा अस्या अपाघ्नन्त तथो एवैनमेतदेषोऽस्या अपहते व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति - १.२.४.१७
तमग्नीदभिनिदधाति । अररो दिवं मा पप्त इति यत्र वै देवा अररुमसुररक्षसमपाघ्नत स दिवमपि पतिषत्तमग्निरभिन्यदधादररो दिवं मा पप्त इति स न दिवमपत्तथो एवैनमेतदध्वर्युरेवास्माल्लोकादन्तरेति दिवोऽध्यग्नीत्तस्मादेवं करोति - १.२.४.१८
अथ तृतीयं प्रहरति । द्रप्सस्ते द्यां मा स्कन्नित्ययं वा अस्यै द्रप्सो यमस्या इमं रसं प्रजा उपजीवन्त्येष ते दिवं मा पप्तदित्येवैतदाह व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति - १.२.४.१९
स वै त्रिर्यजुषा हरति । त्रयो वा इमे लोका एभिरेवैनमेतल्लोकैरभिनिदधात्यद्धा वै तद्यदिमे लोका अद्धो तद्यद्यजुस्तस्मात्त्रिर्यजुषा हरति - १.२.४.२०
तूष्णीं चतुर्थम् । स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम्भ्रातृव्यमवबाधतेऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न वानद्धो तद्यत्तूष्णीं तस्मात्तूष्णीं चतुर्थम् - १.२.४.२१
टिप्पणी
१.२.४.१७ अपाररुं पृथिव्यै देवयजनाद्बध्यासमिति