शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search

१.२.५

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवा अनुव्यमिवासुरथ हासुरा मेनिरेऽस्माकमेवेदं खलु भुवनमिति - १.२.५.[१]

ते होचुः । हन्तेमां पृथिवीं विभजामहै तां विभज्योपजीवामेति तामौक्ष्णैश्चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः - १.२.५.[२]

तद्वै देवाः शुश्रुवुः । विभजन्ते ह वा इमामसुराः पृथिवीं प्रेत तदेष्यामो यत्रेमामसुरा विभजन्ते के ततः स्याम यदस्यै न भजेमहीति ते यज्ञमेव विष्णुं पुरस्कृत्येयुः - १.२.५.[३]

ते होचुः । अनु नोऽस्यां पृथिव्यामाभजतास्त्वेव नोऽप्यस्यां भाग इति ते हासुरा असूयन्त इवोचुर्यावदेवैष विष्णुरभिशेते तावद्वो दद्म इति - १.२.५.[४]

वामनो ह विष्णुरास । तद्देवा न जिहीडिरे महद्वै नोऽदुर्ये नो यज्ञसंमितमदुरिति - १.२.५.[५]

ते प्राञ्चं विष्णुं निपाद्य । च्छन्दोभिरभितः पर्यगृह्णन्गायत्रेण त्वा च्छन्दसा परिगृह्णामीति दक्षिणतस्त्रैष्टुभेन त्वा च्छन्दसा परिगृह्णामीति पश्चाज्जागतेन त्वा
च्छन्दसा परिगृह्णामीत्युत्तरतः - १.२.५.[६]

तं छन्दोभिरभितः परिगृह्य । अग्निं पुरस्तात्समाधाय तेनार्चन्तः श्राम्यन्तश्चेरुस्तेनेमां सर्वां पृथिवीं समविन्दन्त तद्यदेनेनेमां सर्वां समविन्दन्त तस्माद्वेदिर्नाम तस्मादाहुर्यावती वेदिस्तावती पृथिवीत्येतया हीमां सर्वां समविन्दन्तैवं ह वा इमां सर्वां सपत्नानां सम्वृङ्क्ते निर्भजत्यस्यै सपत्नान्य एवमेतद्वेद - १.२.५.[७]

सोऽयं विष्णुर्ग्लानः । छन्दोभिरभितः परिगृहीतोऽग्निः पुरस्तान्नापक्रमणमास स
तत एवौषधीनां मूलान्युपमुम्लोच - १.२.५.

ते ह देवा ऊचुः । क्व नु विष्णुरभूत्क्व नु यज्ञोऽभूदिति ते होचुश्छन्दोभिरभितः परिगृहीतोऽग्निः पुरस्तान्नापक्रमणमस्त्यत्रैवान्विच्छतेति तं खनन्त इवान्वीषुस्तं त्र्यङ्गुलेऽन्वविन्दंस्तम्मात्त्र्यङ्गुला वेदिः स्यात्तदु हापि पाञ्चिस्त्र्यङ्गुलामेव सौम्यस्याध्वरस्य वेदिं चक्रे - १.२.५.[९]

तदु तथा न कुर्यात् । ओषधीनां वै स मूलान्युपाम्लोचत्तस्मादोषधीनामेव मूलान्युच्छेत्तवै ब्रूयाद्यन्न्वेवात्र विष्णुमन्वविन्दंस्तस्माद्वेदिर्नाम - १.२.५.[१०]

तमनुविद्योत्तरेण परिग्रहेण पर्यगृह्णन् । सुक्ष्मा चासि शिवा चासीति दक्षिणत इमामेवैतत्पृथिवीं संविद्य सुक्ष्मां शिवामकुर्वत स्योना चासि सुषदा चासीति पश्चादिमामेवैतत्पृथिवीं संविद्य स्योनां सुषदामकुर्वतोर्जस्वती चासि पयस्वती चेत्युत्तरत इमामेवैतत्पृथिवीं संविद्य रसवतीमुपजीवनीयामकुर्वत - १.२.५.[११]

स वै त्रिः पूर्वं परिग्रहं परिगृह्णाति । त्रिरुत्तरं तत्षट्कृत्वः षड्वा ऋतवः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतमेवैतत्परिगृह्णाति - १.२.५.[१२]

षड्भिर्व्याहृतिभिः । पूर्वं परिग्रहं परिगृह्णाति षड्भिरुत्तरं तद्द्वादश कृत्वो द्वादश वै मासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतमेवैतत्परिगृह्णाति - १.२.५.[१३]

व्याममात्री पश्चात्स्यादित्याहुः । एतावान्वै पुरुषः पुरुषसंमित हि त्र्यरत्निः प्राची त्रिवृद्धि यज्ञो नात्र मात्रास्ति यावतीमेव स्वयं मनसा मन्येत तावतीं कुर्यात् - १.२.५.[१४]

अभितोऽग्निमंसा उन्नयति । योषा वै वेदिर्वृषाग्निः परिगृह्य वै योषा वृषाणं शेते
मिथुनमेवैतत्प्रजननं क्रियते तस्मादभितोऽग्निमंसा उन्नयति - १.२.५.[१५]

सा वै पश्चाद्वरीयसी स्यात् । मध्ये संह्वारिता पुनः पुरस्तादुर्व्येवमिव हि योषाम्
प्रशंसन्ति पृथुश्रोणिर्विमृष्टान्तरांसा मध्ये संग्राह्येति जुष्टामेवैनामेतद्देवेभ्यः करोति - १.२.५.[१६]

सा वै प्राक्प्रवणा स्यात् । प्राची हि देवानां दिगथो उदक्प्रवणोदीची हि मनुष्याणां
दिग्दक्षिणतः पुरीषं प्रत्युदूहत्येषा वै दिक्पितॄणां सा यद्दक्षिणाप्रवणा स्यात्क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः पुरीषं प्रत्युदूहति पुरीषवतीं कुर्वीत पशवो वै पुरीषम्पशुमतीमेवैनामेतत्कुरुते - १.२.५.[१७]

तां प्रतिमार्ष्टि । देवा ह वै संग्रामं संनिधास्यन्तस्ते होचुर्हन्त यदस्यै पृथिव्या अनामृतं देवयजनं तच्चन्द्रमसि निदधामहै स यदि न इतोऽसुरा जयेयुस्तत एवार्चन्तः श्राम्यन्तः पुनरभिभवेमेति स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत तदेतच्चन्द्रमसि कृष्णं तस्मादाहुश्चन्द्रमस्यस्यै पृथिव्यै देवयजनमित्यपि ह वा अस्यैतस्मिन्देवयजन इष्टं भवति तस्माद्वै प्रतिमार्ष्टि - १.२.५.[१८]

स प्रतिमार्ष्टि । पुरा क्रूरस्य विसृपो विरप्शिन्निति संग्रामो वै क्रूरं संग्रामे हि क्रूरं क्रियते हतः पुरुषो हतोऽश्वः शेते पुरा ह्येतत्संग्रामान्न्यदधत तस्मादाह पुरा क्रूरस्य विसृपो विरप्शिन्नित्युदादाय पृथिवीं जीवदानुमित्युदादाय हि यदस्यै पृथिव्यै जीवमासीत्तच्चन्द्रमसि न्यदधत तस्मादाहोदादाय पृथिवीं जीवदानुमिति यामैरयंश्चन्द्रमसि स्वधाभिरिति यां चन्द्रमसि ब्रह्मणादधुरित्येवैतदाह तामु धीरासो अनुदिश्य यजन्त इत्येतेनो ह तामनुदिश्य यजन्तेऽपि ह वा अस्यैतास्मिन्देवयजन इष्टं भवति य एवमेतद्वेद - १.२.५.[१९]

अथाह प्रोक्षणीरासादयेति । वज्रो वै स्फ्यो ब्राह्मणश्चेमं पुरा यज्ञमभ्यजूगुपतां वज्रो वा आपस्तद्वज्रमेवैतदभिगुप्त्या आसादयति स वा उपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छत्यथ यन्निहित एव स्फ्यो प्रोक्षणीरासादयेद्वज्रो ह समृच्छेयातां तथो ह वज्रो न समृच्छेतेतस्मादुपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छति - १.२.५.[२०]

अथैतां वाचं वदति । प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं संनह्याज्येनोदेहीति संप्रैष एवैष स यदि कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेत स्वयमु ह्येवैतद्वेदेदमतः कर्म कर्तव्यमिति - १.२.५.[२१]

अथोदञ्चं स्फ्यं प्रहरति । अमुष्मै त्वा वज्रं प्रहरामीति यद्यभिचरेद्वज्रो वै स्फ्य स्तृणुते हैवैनेन - १.२.५.[२२]

अथ पाणी अवनेनिक्ते । यद्ध्यस्यै क्रूरमभूत्तद्ध्यस्या एतदहार्षीत्तस्मात्पाणी
अवनेनिक्ते - १.२.५.[२३]

स ये हाग्र ईजिरे । ते ह स्मावमर्श यजन्ते ते पापीयांस आसुरथ ये नेजिरे ते
श्रेयांस आसुस्ततोऽश्रद्धा मनुष्यान्विवेद ये यजन्ते पापीयांसस्ते भवन्ति य उ न
यजन्ते श्रेयांसस्ते भवन्तीति तत इतो देवान्हविर्न जगामेतः प्रदानाद्धि देवा
उपजीवन्ति - १.२.५.[२४]

ते ह देवा ऊचुः । बृहस्पतिमाङ्गिरसमश्रद्धा वै मनुष्यानविदत्तेभ्यो विधेहि यज्ञमिति स हेत्योवाच बृहस्पतिराङ्गिरसः कथा न यजध्व इति ते होचुः किं काम्या यजेमहि ये यजन्ते पापीयांसस्ते भवन्ति य उ न यजन्ते श्रेयांसस्ते भवन्तीति - १.२.५.[२५]

स होवाच । बृहस्पतिराङ्गिरसो यद्वै शुश्रुम देवानां परिषूतं तदेष यज्ञो भवति यच्छृतानि हवींषि कॢप्ता वेदिस्तेनावमर्शमचारिष्ट तस्मात्पापीयांसोऽभूत्तेनानवमर्श यजध्वं तथा श्रेयांसो भविष्यथेत्या कियत इत्या बर्हिषस्तरणादिति बर्हिषा ह वै खल्वेषा शाम्यति स यदि पुरा बर्हिषस्तरणात्किंचिदापद्येत बर्हिरेव तत्स्तृणन्नपास्येदथ यदा बर्हि स्तृणन्त्यपि पदाभितिष्ठन्ति स यो हैवं विद्वाननवमर्शं यजते श्रेयान्हैव भवति तस्मादनवमर्शमेव यजेत - १.२.५.[२६]