शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण २
१.२.२
पवित्रवति सम्वपति । पात्र्यां पवित्रे अवधाय देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सम्वपामीति सोऽसावेवैतस्य यजुषो बन्धुः - १.२.२.१
अथान्तर्वेद्युपविशति । अथैक उपसर्जनीभिरैति ता आनयति ताः पवित्राभ्यां प्रतिगृह्णाति [१]समाप ओषधीभिरिति सं ह्येतदाप ओषधीभिरेताभिः पिष्टाभिः सङ्गच्छन्ते समोषधयो रसेनेति सं ह्येतदोषधयो रसेनैताः पिष्टा अद्भिः संगच्छन्त आपो ह्येतासां रसः सं रेवतीर्जगतीभिः पृच्यन्तामिति रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते सं मधुमतीर्मधुमतीभिः पृच्यन्तामिति सं रसवत्यो रसवतीभिः पृच्यन्तामित्येवैतदाह - १.२.२.२
अथ संयौति । [२]जनयत्यै त्वा संयौमीति यथा वा अधिवृक्तोऽग्नेरधि जायेतैवं वै तत्संयौति- १.२.२.३
अथ द्वेधा करोति । यदि द्वे हविषी भवतः पौर्णमास्यां वै द्वे हविषी भवतः स यत्र पुनर्न संहरिष्यन्त्स्यात्तदभिमृशतीदमग्नेरिदमग्नीषोमयोरिति नाना वा एतदग्रे हविर्गृह्णन्ति तत्सहावघ्नन्ति तत्सह पिंषन्ति तत्पुनर्नाना करोति तस्मादेवमभिमृशत्यधिवृणक्त्येवैष पुरोडाशमधिश्रयत्यसावाज्यम् - १.२.२.४
तद्वा एतत् । उभयं सह क्रियते तद्यदेतदुभयं सह क्रियतेऽर्धो ह वा एष आत्मनो यज्ञस्य यदाज्यमर्धो यदिह हविर्भवति स यश्चासावर्धो य उ चायमर्धस्ता उभावग्निं गमयावेति तस्माद्वा एतदुभयं सह क्रियत एवमु हैष आत्मा यज्ञस्य संधीयते - १.२.२.५
सोऽसावाज्यमधिश्रयति । इषे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेति तत्पुनरुद्वासयत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह - १.२.२.६
अथ पुरोडाशमधिवृणक्ति । घर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्प्रवृंज्यादेवं प्रवृणक्ति विश्वायुरिति तदायुर्दधाति - १.२.२.७
तं प्रथयति । उरुप्रथा उरु प्रथस्वेति प्रथयत्येवैनमेतदुरु ते यज्ञपतिः प्रथतामिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदाशिषमाशास्ते - १.२.२.८
तं न सत्रा पृथु कुर्यात् । मानुषं ह कुर्याद्यत्पृथुं कुर्याद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञो करवाणीति तस्मान्न सत्रा पृथुं कुर्यात् - १.२.२.९
अश्वशफमात्रं कुर्यादित्यु हैक आहुः । कस्तद्वेद यावानश्वशफो यावन्तमेव स्वयं मनसा न सत्रा पृथुं मन्येतैवं कुर्यात् - १.२.२.१०
तमद्भिरभिमृशति । सकृद्वा त्रिर्वा तद्यदेवास्यात्रावघ्नन्तो वा पिंषन्तो वा क्षिण्वन्ति वा वि वा वृहन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादद्भिरभिमृशति - १.२.२.११
सोऽभिमृशति । अग्निष्टे त्वचं मा हिंसीदित्यग्निना वा एनमेतदभितप्स्यन्भवत्येष ते त्वचं मा हिंसीदित्येवैतदाह- १.२.२.१२
तं पर्यग्निं करोति । अच्छिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति - १.२.२.१३
तं श्रपयति । देवस्त्वा सविता श्रपयत्विति न वा एतस्य मनुष्यः श्रपयिता देवो ह्येष तदेनं देव एव सविता श्रपयति वर्षिष्ठेऽधि नाक इति देवत्रो एतदाह यदाह वर्षिष्ठेऽधि नाक इति तमभिमृशति श्रृतं वेदानीति तस्माद्वा अभिमृशति - १.२.२.१४
सोऽभिमृशति । मा भेर्मा संविक्था इति मा त्वं भैषीर्मा संविक्था यत्त्वाहममानुषं सन्तं मानुषोऽभिमृशामीत्येवैतदाह - १.२.२.१५
यदा शृतोऽथाभिवासयति । नेदेनमुपरिष्टान्नाष्ट्रा रक्षांस्यवपश्यानिति नेद्वेव नग्न इव मुषित इव शयाता इत्यु चैव तस्माद्वा अभिवासयति - १.२.२.१६
सोऽभिवासयति । अतमेरुर्यज्ञोऽतमेरुर्यजमानस्य प्रजा भूयादिति नेदेतदनुयज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति तस्मादेवमभिवासयति - १.२.२.१७
अथ पात्रीनिर्णेजनम् । अङ्गुलिप्रणेजनमाप्त्येभ्यो निनयति तद्यदाप्त्येभ्यो निनयति - १.२.२.१८