शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६
द्वितीयं उपपत्ति प्रधानं याज्ञवल्क्यकाण्डम्
ब्राह्मणम् १ अश्वलब्राह्मणम्
१ अश्वलब्राह्मणम्-तत्र च प्रथमं प्रस्तावं कर्तुं ब्रह्मविद्याप्राप्त्युपायप्रदर्शनार्थाया विज्ञानस्तुत्यर्थायाश्चाख्यायिकाया निरूपणं, तस्यां च जनकस्य बहुदक्षिणाकयज्ञकरणं-तस्मिन्यज्ञे कुरुपञ्चालानां विदुषामुपसंगमनं-उपसंगतेषु ब्राह्मणेषु जनकस्यानूचानतमब्राह्मणविषयिणी जिज्ञासा जिज्ञासापूर्त्यर्थं गवां सहस्रमवरोध्य भो ब्राह्मणाः ! युष्माकं मध्ये यो ब्रह्मिष्ठः स एता गा उदजतां इत्युपायचिन्तनं तत्करणं च यदाऽन्ये सर्वे ब्राह्मणा न दधृषुस्तदा याज्ञवल्क्यः स्वशिष्यद्वारा एता गा उदाचकार तेन ते ब्राह्मणाश्चुक्रुधुः कथं त्वमेवकोऽस्माकं मध्ये ब्रहिष्ठोऽसीत्याद्यंशस्य प्रतिपादनं, एवं क्रुद्धेषु ब्राह्मणेषु जनकस्य होत्राऽश्वलेन " नोऽग्रे त्वमेव खलु भो याज्ञवल्क्य ! ब्रह्मिष्ठोऽसीति किमिति " पृष्टो याज्ञवल्क्यो “वयं ब्रह्मिष्ठाय नमस्कुर्मः गोकामा वयमतो गोग्रहणं कृतवन्तः" इति प्रत्युत्तरं ददावित्यभिधानं, पूर्वत्र मधुकाण्डे व्याख्याते उद्गीथप्रकरणे आसङ्गपाप्मनो मृत्योरत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इदानीं तस्यैवोद्गीथदर्शनस्य योऽयं परीक्षाविषयस्तस्य वचनप्रतिवचनरूपविस्तारस्य कथनं, तत्र स्वाभाविकादज्ञानासङ्गप्रयुक्तात्कर्मलक्षणान्मृत्योरतिमुक्तेः सोपपत्तिकं विवरणं, इदानीं तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां विपरिणामहेतोः कालात्क्रियानुष्ठानव्यतिरेकेणापि क्रियायाः प्रागूर्ध्वं च साधनविपरिणामहेतुत्वेन कालस्य व्यापारदर्शनात्तस्मादपि कालाच्चातिमुक्तेः पृथक्पृथक्सोपपत्तिकं विवरणं, तथा तिथ्यादिलक्षणात्कालादतिमुक्तेः सोपपत्तिकं विवरणं, स च अतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोतीति प्रश्नं निरूप्य तस्योत्तरनिरूपणं, ततः सम्पदामारम्भमुपपाद्य प्रश्नोत्तराभ्यामृग्जातिषु अध्वर्युकृताहुतिषु मनसि स्तोत्रियासु च फलसम्पादनप्रकारनिरूपणं तत्र स्तोत्रियाणामधिदेवताध्यात्मस्वरूपेण प्रतिपादनं चेति.
ब्राह्मणम् २ आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्
२ आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम् - तत्र प्रथमं बन्धज्ञानं विना ततो विश्लेषायोगान्मुमुक्षोः सप्रयोजकबन्धज्ञानार्थत्वेन ग्रहातिग्रहलक्षणाद्बन्धान्मृत्योरतिमुक्तिं वक्तुमाख्यायिकाकथनं, तत्रादौ तेषामष्टानां ग्रहाणामतिग्रहाणां च स्वरूपस्योपपादनं, यस्या देवताया मृत्युरप्यन्नं भवेत्सा देवता केत्युपपादनं तज्ज्ञानफलकथनं च, परमात्मदर्शनेन मुक्तस्य किं प्राणा एव समवनीयन्ते उत तत्प्रयोजकं सर्वमपीत्याशंक्यांतिमपक्षाश्रयणेन तत्समाधाननिरूपणं साक्षात्कारज्ञाने जाते विद्वान्न म्रियते - न च तस्य प्राणा अत्यन्तं समवनीयन्ते किन्तु जीवन्मुक्तत्वेन स सर्वदा तिष्ठतीत्याशङ्क्य तन्निराकरणं, ग्रहातिग्रहलक्षणं बन्धनं केन प्रयुक्तमिति प्रश्नपूर्वकं तन्निर्द्धारणं, निर्णीतार्थस्य श्रुतिमुखेन प्रदर्शनं, कमैंव प्रधानं कारणमिति प्रशंसापदोपपादितस्य प्राधान्यस्योपसंहरणं चेति.
ब्राह्मणम् ३ भुज्युब्राह्मणम्
३ भुज्युब्राह्मणम् -तत्र चादौ लाह्यायनेभुयोर्याज्ञवल्क्यस्य च संवादात्मिकाया आख्यायिकायाः कथनं, तस्यां च मोक्षस्यापि पुरुषार्थत्वाविशेषादुत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्याशङ्कय तन्निरासाथ विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वसम्भवान्न मोक्षार्थानि कर्माणीत्यतः कर्मफलानां संसारत्वप्रदर्शनं, तत्र भुज्योः स्वविद्यायाः गुरूपदेशपूर्वकत्वज्ञापनं, गन्धर्वैर्भुज्यवे यः प्रश्नः कृतः स एव प्रश्नो भुज्युना याज्ञवल्क्याय कृतः " क्व पारिक्षिता अभवन्निति ?" प्रदर्शनं, कृतप्रश्नस्य याज्ञवल्क्यप्रदत्तोत्तरकथनं, प्रसङ्गाद्भुवनकोशपरिमाणनिरूपणम्, एतद्विज्ञानफलनिरूपणं चेत्यादि.
ब्राह्मणम् ४ कहोडब्राह्मणं वा निर्गुणविद्याब्राह्मणम्
४ कहोडब्राह्मणं वा निर्गुणब्रह्मविद्याब्राह्मणम् - तत्र च कौषीतकेयस्य कहोडस्य याज्ञवल्क्यस्य च संवादात्मिकयाऽऽख्यायिकया संसारवतो बन्धस्य यन्मोक्षसाधनं ससन्न्यासमात्मज्ञानं तस्य सोपपत्तिकं निरूपणम्, एतद्विज्ञानफलनिरूपणं चेति.
ब्राह्मणम् ५ उपस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम्
५ उषस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम् - तत्र च चाक्रायणस्योषस्तस्य याज्ञवल्क्यस्य च संवादात्मिकयाऽऽख्यायिकया यो बद्धः संसरति सोऽस्ति नास्ति वेति अस्तित्वे च किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वा-इति विमृश्ये आत्मनो देहादिभ्यो विवेकेनाधिगमायोपायप्रदर्शनं चेत्यादि.
ब्राह्मणम् ६ गार्गीब्राह्मणम्
६ गार्गीब्राह्मणम् - तत्र च वाचक्नव्या गार्ग्या याज्ञवल्क्यस्य च संवादात्मिकयाऽऽख्यायिकया पूर्वब्राह्मणयोर्निरूपितस्य सर्वान्तरस्यात्मनः स्वरूपाधिगमाय तदुपायभूतत्वेनानात्मभूतान्सर्वान्पदार्थानुक्त्वा तद्द्वारा सूत्रादर्वाक्तनस्य व्यापकस्य निरूपणं चेति.
ब्राह्मणम् ७ उद्दालकब्राह्मणमन्तर्यामिब्राह्मणं सृष्टिप्रवेशब्राह्मणं वेति
७ उद्दालकब्राह्मणमन्तर्यामिब्राह्मणं सृष्टिप्रवेशब्राह्माणं वेति - तत्र चारुणेरुद्दालकस्य याज्ञवल्क्यस्य च संवादात्मिकयाऽऽख्यायिकया आगमैकगम्यस्य सूत्रस्य तदन्तर्गतस्यान्तर्यामिणोऽधिदेवताधिलोकाधिवेदाधियज्ञाधिभूताध्यात्मरूपैः सोपपत्तिकं निरूपणं चेति
ब्राह्मणम् ८ वाचक्नवीब्राह्मणं वा अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणं वा
८ वाचक्नवीब्राह्मणं वा अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणं वा - तत्र च पुनर्गार्ग्या याज्ञवल्क्यस्य च संवादात्मिकयाऽऽख्यायिकयाऽशनायादिविनिर्मुक्तस्य निरुपाधिकस्य साक्षादपरोक्षात्सर्वान्तरस्य ब्रह्मणो निरूपणं, तत एवमशेषविशेषणनिषेधावधित्वेन तत्साक्षित्वेन चाक्षरास्तित्वे सिद्धेऽपि इदानीं तस्यैव अविद्यकैषितव्यसंबन्धादीश्वरात्मभूतस्यास्तित्वायानुमानप्रमाणस्योपन्यसनं तया, यस्याज्ञानेन नियता संसारोत्पत्तिर्यद्विज्ञानेन च संसारविच्छेदस्तदस्त्यक्षरमिति साधयितुं कर्मणामेव मोक्षहेतुत्वमिति पक्षस्य निराकरणं, ततोऽग्नेर्दहनप्रकाशकत्ववत्स्वाभाविकमक्षरस्य प्रशास्तृत्वमिति प्रतिपादनं, तत एतस्य नानात्वशङ्काया निराकरणं, गार्ग्या मुखेन याज्ञवल्क्यस्य ब्रह्मोद्यमप्रतिममिति निरूपणं चेत्यादि.
ब्राह्मणम् ९ शाकल्यब्राह्मणग्रन्थो वा शाकल्यब्राह्मणम्
९ शाकल्यब्राह्मणग्रन्थो वा शाकल्यब्राह्मणम् - तत्र चान्तर्यामिब्राह्मणे पूर्वमव्याकृतविषये सूत्रभेदेषु पृथिव्यादिषु नियम्येषु तस्य नियन्तृत्त्वमभिहितमिदानीं नियन्तव्यानां देवताभेदानां प्राणान्तसङ्कोचानन्त्यपर्यन्तं वस्तुनिर्द्देश इत्येतस्यार्थस्य प्रदर्शन, तत्र संख्यायाः सङ्कोचविस्तराभ्यां प्राणस्वरूपकथनं, ततस्तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा देव-लोक-पुरुषभेदेन त्रिधात्रिधाऽऽत्मानं विभज्यावस्थित एकैको देवः प्राणभेद एवेत्यष्टभेदस्य ध्यानार्थमुपदेशकथनं, ततो दिग्विभागेन पञ्चधा विभक्तस्य सर्वस्य जगतो हृदयात्मन्युपसंहारस्य श्रुतिमुखेन प्रदर्शनं ततः कार्यकारणयोर्हृदयशरीरयोरन्योऽन्यप्रतिष्ठाया निरूपणं, ततः प्राणादीनां परम्परयाऽन्तर्यामिणि तस्याप्यक्षरे कूटस्थे ब्रह्मणि प्रतिष्ठाया निरूपणम्, ततः प्राणादीनां परम्परयाऽन्तर्यामिणि तस्याप्यक्षरे कूटस्थे ब्रह्मणि प्रतिष्ठा इत्यर्थाद्दर्शितमेवेत्यभिप्रायेण श्रुतिमुखतो ब्रह्मणः स्वरूपनिरूपणं, याज्ञवल्क्येन शाकल्यं प्रति औपनिषदपुरुषविषयिणीं पृच्छां निमित्तीकृत्य शापः प्रदत्त इति सप्रकारकं निरूपणम्, शापप्रसङ्गेनाष्टाध्याय्यां निर्वृत्ताया आख्यायिकायाः संसूचनम्, यस्य ब्रह्मणो नेति नेतीत्यन्यप्रतिषेधद्वारेण पूर्वं निर्द्देशः कृतस्तस्यैवेदानीं विधिमुखेन निर्देशः कर्तव्यो जगतो मूलं च वक्तव्यमित्येतदर्थं श्रुतिमुखेनाख्यायिकया ब्राह्मणानुमतिमनापाद्य ब्रह्मस्वं नीयमानमनर्थाय स्यादिति न्यायं दर्शयितुं ब्राह्मणानुमतिसम्प्राप्तिहेतुभूतं पराजयं कर्तुं च याज्ञवल्क्यो ब्राह्मणान्पृष्टवानित्याद्यर्थप्रदर्शनम्, तत्र जगत्कारणं प्रष्टुं पुरुषवृक्षयोः साधर्म्यस्य श्लोकत्रयेणाभिधानम्, ततो वृक्षपुरुषयोर्वैधर्म्यकथनपुरःसरं जगत्कारणनिरूपणम्, तत्र शङ्कामुद्भाव्य तस्या निराकरणं चेत्यादि.
ब्राह्मणम् १० षडाचार्यब्राह्मणं वा उदङ्कब्राह्मणम्
१० षडाचार्यब्राह्मणं वा उदङ्कब्राह्मणम् - तत्र च पूर्वत्र शाकल्यब्राह्मणे निर्धारितस्य सच्चिदानन्दलक्षणस्य ब्रह्मण एव प्राणाद्यविष्ठात्रीषु वाय्वादिदेवतासु ब्रह्मदृष्टिद्वारा निर्णयाय उदङ्कादिषडाचार्याणां याज्ञवल्क्यस्य च संवादरूपाया आख्यायिकाया निरूपणम् , तस्यां च पर्यायषट्केन क्रमात्प्राणवाक्चक्षुःश्रोत्रमनोहृदयानां ब्रह्मत्वस्य सोपपत्तिकं निर्धारणम् , प्रतिपर्यायं प्राणादितत्तद्ब्रह्मोपासितुः फलकथनम्, तथा प्रतिपर्यायं जनकस्य राज्ञो विद्यानिष्क्रयार्थं प्रतिज्ञाकरणप्रदर्शनं चेत्यादि
ब्राह्मणम् ११ कूर्चब्राह्मणम्
११ कूर्चब्राह्मणम् - तत्र च पूर्वं षडाचार्यब्राह्मणे निरुक्तैर्ज्ञातसाधनैः प्राणाद्युपासनैर्ज्ञेयस्य ब्रह्मणो जागरादिद्वारा ज्ञानार्थं जनकयाज्ञवल्क्ययोः संवादस्य निरूपणम्, तत्रापि प्रथमं वैश्वतैजसप्राज्ञानुवादेन वक्तव्यतया प्रतिज्ञातं तुरीयं ब्रह्म प्रतिपादयितुमादौ वैश्वानराभिन्नस्य जाग्रदभिमानिनो वैश्वस्य प्रदर्शनम् , एकस्यैव वैश्वानरस्योपासनार्थं प्रासङ्गिकस्येन्द्रश्चेन्द्राणी चेति मिथुनस्य प्रकल्पनम् , ततस्तयोः स्वप्नाज्जागरितगमनमार्गस्य कथनम् , ततो वैश्वतेजसयोरन्नविवेको भोक्तुश्च सूक्ष्मता इत्येतद्दर्शयितुमिन्द्रियाश्रितानां नाड्यन्तराणां परिमाणस्य सदृष्टान्तं सोपयोगं सप्रयोजनमभिधानं, ततो वैश्वतैजसयोरेव श्रुत्या साक्षान्निर्दिष्टत्वात्तैजसप्राज्ञद्वारा तुरीयब्रह्मात्मनिलयः साक्षादेव निर्द्देष्टव्य इत्यभिप्रेत्य तुरीये लीनस्य तैजसस्य लयात्प्रागवस्थायां परिच्छेदहेतुभूता ये अध्यात्मप्राणास्तेषां लयानन्तरं संवृत्तावस्थोपन्यासव्याजेन तौजसस्य प्राज्ञद्वारा तुरीये लयप्रदर्शनं, तत एवं सर्वोपसंहारं कृत्वाऽवस्थितस्य पुरुषस्य विदुषः किं स्वरूपमित्यपेक्षायामविद्यातत्कार्यभावाभावसाक्षित्वेन तद्विलक्षणं निष्प्रपञ्चं स्वरूपमिति प्रदर्शनं, यदिदानीं प्रत्यगात्मस्वरूपज्ञापनार्थत्वेन ज्ञानमभिहितं तस्य ज्ञानस्यापरोक्षानुभवरूपस्य फलनिरूपणं, ततः शिष्यं कृतार्थमकृत्वा ततो दक्षिणा न ग्राह्येति मुनिमतं स्मरन्राजा दक्षिणां दित्सुर्ममानुभवपर्यन्तं ज्ञानं कृतार्थताहेतुभूतं जातमिति ज्ञापितवानित्याद्यर्थप्रदर्शनं, गवादीनां दक्षिणानामेतदुपदिष्टज्ञानाननुरूपत्वमभिप्रेत्य जनकस्य राज्ञो दक्षिणान्तरदानप्रवृत्तेः सप्रकारं निरूपणं चेत्यादि.