शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६/ब्राह्मणम् ०३

विकिस्रोतः तः

भुज्युब्राह्मणम्

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्क्व पारिक्षिता अभवन्निति तत्त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति - १४.६.३.१

स होवाच। उवाच वै स तदगच्छन्वै ते तत्र यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं लोकं द्विस्तावत्पृथिवी पर्येति तां पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्र पारिक्षिता अभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति सर्वमायुरेति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम - १४.६.३.२