शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५

विकिस्रोतः तः


ब्राह्मण १

१ गोतममतं पुरस्कृत्य प्रथमेऽहनि प्रातःकर्तव्यस्याग्निष्टोमसंस्थाकस्याह्निकस्य चतुष्टोमादिवत्त्वमभिधाय सविशेषं निदर्शनं, तत्रैकेषां मतेनाग्निष्टोमसाम चतुःसाम कर्तव्यं भवति ते च " नाग्निष्टोमो नोक्थ्य इति वदन्तः " यदि चैवं कुर्युस्तदा सार्द्धं स्तोत्रियं शस्त्वा रथन्तरं पृष्ठं राथन्तरं शस्त्रं सार्द्धमनुरूपं शंसदेवं कृतेऽग्निष्टोमसंस्थमहः सम्पन्नं भवतीत्यादि सार्थवादं निरूपणम् , तथा चास्मिन्प्रथमेऽहन्येकेषां मतेनैकविंशतिः सवनीयाः पशवः-ते च सर्वे आग्नेयाः तेषां कर्म च समानं भवतीति प्रतिपाद्य पुनरन्येषां मतेनात्र द्वे खिलपरिपठिते पश्वेकादशिन्यौ आलभेतेति च सार्थवादं प्रतिपादनम्, ततः संस्थितेऽग्निष्टोमेऽहनि परिह्वृतासु वसतीवरीषु चाध्वर्युः " प्राणाय स्वाहाऽपानाय स्वाहा " इत्यादिद्वादशभिरनुवाकैरन्नहोमाञ्जुहुयादिति स्तावकार्थवादातिदेशसहितमनुवाकगतद्वादशसंख्याया माससंवत्सरात्मना प्रशंसनसहितं च विधानम् , मध्यममहरेकविंशस्तोमकं भवतीति प्रतिपाद्य तस्यादित्यादिरूपेण पुरुषरूपेण प्रतिष्ठारूपेण च प्रशंसनं, मध्यमाह्नो हौत्रे प्रातःसवनसम्बन्धिविशेषस्य प्रदर्शनम् , तत्र "अग्निं तं मन्ये यो वसुः" इत्येतदाश्वमेधिकं पङ्क्तिच्छन्दस्कमाज्यशस्त्रं शस्त्वा ऐकाहिकमुपशंसति तथा बार्हतं च प्रउगं माधुच्छ.न्दसं चोभे अपि शस्त्रे त्रिचशः संशंतीत्यादि सार्थवादमभिधानम्, ततो माध्यन्दिनसम्बन्धिविशेषस्य प्रदर्शनम् , तत्र मरुत्वतीयशस्त्रसम्बन्धिविशेषस्य सार्थवादं प्रदर्शनम् , तथा निष्केवल्यशस्त्रसम्बन्धिविशेषस्य सार्थवादं प्रदर्शनम्, ततस्तृतीयसवनसम्बन्धिविशेषस्य प्रदर्शनं, तत्र वैश्वदेवशस्त्रसम्बन्धिविशेषस्य सार्थवादं प्रदर्शनम्, आग्निमारुतशस्त्रसम्बन्धिविशेषस्य सार्थवादं प्रदर्शनम् , मध्यमस्याह्नः एतेऽश्वादयः पञ्चदश पर्यङ्ग्याः पशवस्तथा वसन्तादिदैवत्याः कपिञ्जलादय आरण्याः पशवो भवन्तीति स्तावक़ार्थवादातिदेशसहितमभिधानम् , तत्रैतानेकविंशतये चातुर्मास्यदेवताभ्य एकविंशतिमेकविंशतिं पशूनालभते इति सार्थवादमेकं पशुकल्पमुपन्यस्य तस्य प्रत्याख्यानं, मध्यमे यूपे सप्तदशैव पशूनालभते इति सार्थवादं प्रतिपाद्याकाशेषु त्रयोदश त्रयोदशारण्यान्पशूनालभते इत्यपरस्य पशुकल्पस्य सार्थवादमभिधानम् , बहिष्पवमानस्तोत्रात्पुराऽश्वं निक्त्वोदानीय तेन सह पवमानाय सर्पन्तीति स्तावकार्थवादातिदेशसहितं प्रतिपादनं, स्तुते च बहिपवमानेऽश्वमास्तावमाक्रमयन्ति स तत्र यद्यवजिघ्रेद्विवर्तेत वा तदा मे यज्ञः समृद्ध इति विद्यादित्येवं विज्ञानकथनम् , ततस्तमश्वमुपाकृत्याध्वर्युः "होतरभिष्टुहि" इति होत्रे सम्प्रेषं ददाति, होता च “उपप्रागाच्छसनं-उपप्रागात्परमं" इत्येतदृग्द्वयं वर्जयित्वा एकादशभिर्ऋग्भिरभिष्टौतीति च विधानं, " यदक्रन्दः" इत्याद्यास्ता एकादशर्चस्त्रिःप्रथमया त्रिरुत्तमया पञ्चदश भवन्तीत्यभिधाय तस्याः पञ्चदशसंख्याया वज्ररूपेण प्रशंसनम्, "उपप्रागाच्छसनं - उपप्रागात्परमं" इत्येतदश्वसूक्तादुद्धृतमृग्द्वयं “ मा नो मित्रो वरुणः" इत्येवमादि-"चतुस्त्रिंशद्वाजिनः " इत्यन्तं सूक्तञ्चाध्रिगावावपेत्तत्राप्येतामन्तिमामृच वङ्क्रीणाम्पुरस्ताद्दधातीति साभिप्रायमेकीयं पक्षमुपन्यस्य न तथा कुर्यादिति तं प्रत्याख्यायान्तिमयर्चा सार्द्धमेव सकलं सूक्तं अन्ते- " उप प्र" इत्यृग्द्वयं चावपेदेवेति पक्षान्तरविधानं चेत्यादि.

ब्राह्मण २

२ "उप प्र" इत्यृग्द्वयमुक्त्वा यदध्रिगोः परिशिष्टं भवति तदाहेत्यभिधानं, वासोऽधिवासो हिरण्यं चाश्वायोपस्तीर्य तस्मिन्नेनमश्वमधिसंज्ञपयन्तीत्यभिधानं, संज्ञप्तेषु पशुषु कुमारीपञ्चम्यश्चतस्रो यजमानपत्न्योऽनुचरीणां च चत्वारि शतानि पान्नेजनैरुदानयन्तीत्यभिधानम् , निष्ठितेषु पान्नेजनेषु महिषीमश्वायोपनिपादयन्तीति प्रतिपाद्यैनां महिषीमधिवासेन सम्प्रोर्णुवन्तीति समन्त्रकं सार्थवादं विधानम्, अश्वस्य शिश्नं बहिरायम्याकृष्य च महिषी स्वोपस्थे विदधातीति समन्त्रकं सार्थवादं विधानं, तयोः शयानयोर्यजमानोऽश्वमभिमेथतीति सविशेषं समन्त्रकं सार्थवादं विधानं, ततोऽध्वर्युः कुमारीमभिमेथति कुमारी च तमध्वर्युं प्रत्यभिमेथतीति समन्त्रकं सप्रकारकं विधानं, ततो ब्रह्मा महिषीमभिमेथति महिष्याः शतं राजपुत्र्योऽनुचर्यश्च ब्रह्माणं प्रत्यभिमेथन्तीति समन्त्रकं सप्रकारकं विधानं, तत उद्गाता वावातामभिमेथति वावातायाः शतं राजन्या अनुचर्यश्चोद्गातारं प्रत्यभिमेथन्तीति समन्त्रकं सप्रकारकं विधानं, ततो होता परिवृक्तामभिमेथति परिवृक्तायाः शतं सूतग्रामण्यां दुहितरोऽनुचर्यश्च होतारं प्रत्यभिमेथन्तीति समन्त्रकं सप्रकारकं विधानं, ततः क्षत्ता पालागलीमभिमेथति पालागल्याः शतं क्षात्रसङ्ग्रहीतॄणां दुहितरोऽनुचर्यश्च क्षत्तारं प्रत्यभिमेथन्तीति समन्त्रकं सकारकं विधानम्, अभिमेथिकानां वाचां सर्वकामावाप्तिप्रापकत्वेन प्रशंसनं, पत्न्यनुचर्यो महिषीमुत्थापयन्तीतरेऽध्वर्युब्रह्मोद्गात्रादय ऋत्विजश्च सुरभिमतीमृचं पठन्तीति मन्त्रप्रतीकसहितं विधानं, यज्ञे पूताया वाचो वदनस्य प्रशंसनं, गोमृगाजतूपराऽश्वानां वपा अवदायाहरन्तीति प्रतिपाद्याश्वस्य वपा नास्तीत्याशङ्कय तथा न कुर्यादिति शङ्कां निरस्य चाश्वस्यैव प्रत्यक्षं मेद आहरेदितराश्च नित्या इत्येतन्निरूपणं, वपासु शृतासु सतीषु स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि पूर्वद्वारेण प्रविश्य यथाधिष्ण्यमुपविश्य होत्रादय ऋत्विजो ब्रह्मोद्यं वदन्तीति निरूपणं,
ब्रह्मोद्यम् - तत्र होत्रध्वर्य्वोः -अध्वर्युहोत्रोः-ब्रह्मोद्गात्रोः-उद्गातृब्रह्मणोश्च प्रश्नप्रतिप्रश्नानां मन्त्रैरेव प्रदर्शनं, ततः स्वस्वधिष्ण्यादुत्थाय सदसोऽधि प्राञ्चोऽग्रेण हविर्द्धाने आसीनं यजमानमभ्यायत्य यथायतनं पर्युपविशन्ति होत्रादय ऋत्विज इति प्रतिपादनं, ततः पुनर्होत्रध्वर्य्वोः - अध्वर्युहोत्रो:-ब्रह्मोद्गात्रोः-उद्गातृब्रह्मणोः अध्वर्युयजमानयोश्च प्रश्नप्रतिप्रश्नानां मन्त्रैरेव प्रदर्शनं, ब्रह्मोद्यवदनस्य सर्वकामावाप्तिरूपं फलमिति प्रदर्शनं,
महिमग्रह पूर्वोः - तत्र च उदिते ब्रह्मोद्ये चाध्वर्युः प्रविश्य हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णातीति विधाय तस्य महिमग्रहस्य पुरोरुक्पुरोऽनुवाक्याप्रैषयाज्यावषट्कारमन्त्राणां प्रदर्शनम्, अस्य ग्रहस्य वषट्कृते एव हवनम्--अनुवषट्कारो नास्ति-सर्वहुतत्वं च भवतीत्यादिमहिमग्रहधर्माणां निरूपणं चेत्यादि.


ब्राह्मण ३

३ वपाप्रचारणम्-तत्र वपाहोमं प्रक्रम्यानेकेषां पक्षाणां निरूपणं, तत्र प्रथमं पृथक्पृथग्वपाप्रचरणपक्षस्य निरूपणं, ततो जाबालस्य सत्यकामस्य मतेन वपाप्रचरणप्रकारस्य सहेतुकं निरूपणं, सौमापयोर्मानुतन्तव्ययोर्मतेन वपाप्रचरणप्रकारस्य सहेतुकं निरूपणं, शैलालेर्मतेन सहेतुकं वपाप्रचरणप्रकारनिरूपणं, भाल्लवेयस्य मतेन सहेतुकं वपाप्रचरणप्रकारनिरूपणं, प्राथम्येन विहिते वपाप्रचरणपक्षे शौनकस्येन्द्रोतस्य सम्मतेः कारणान्तरामिधानपुरःसरं प्रतिपादनम्, एवं वपाप्रचरणे पञ्च पक्षानाख्याय याज्ञवल्क्यमतेन षष्ठस्य वपाप्रचरणपक्षस्य सोपपत्तिकं सप्रकारकं सकारणं निरूपणम्,
उत्तरो महिमग्रहः - तत्र हुतासु वपासु चाध्वर्युः प्रविश्य राजतेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णातीति तस्य महिमग्रहस्य पुरोरुक्पुरोऽनुवाक्याप्रैषयाज्यावषट्कारमंत्राणां प्रदर्शनम्, अस्य ग्रहस्य वषट्कृते एव हवनम्-अनुवषट्कारो नास्ति - सर्वहुतत्वं च भवतीत्यादिमहिमग्रहधर्माणां निरूपणम् , इतरपशूनां लोहितावदानप्रकारमनूद्याश्वस्य लोहितावदानप्रकारनिरूपणम्, अश्वस्य लोहितावदाने पक्षान्तरं निरूप्य सात्ययज्ञिमतं प्रदर्श्य च तद्द्वारा पूर्वोदितपक्षस्यैव प्रतिष्ठापनं, ततः प्रातरनुष्ठेयस्योक्थ्यसंस्थस्य मध्यमस्याह्नः सम्पत्तेः सार्थवादं निरूपणं, तत्रैकेषां मतेनैकविंशतिः सवनीयाः पशवः पुनरन्येषां मतेन चतुर्विंशतिः सवनीयाः पशवः - ते च सर्वे आग्नेयाः-तेषां सर्वेषां कर्म च समानं चेत्यादि सार्थवादमभिधानं चेति,


ब्राह्मण ४

४ दैवापेनेन्द्रोतेन याजितस्य पारिक्षितस्य जनमेजयस्यदृष्टान्तेनाश्वमेधस्य ब्रह्महत्यानिरसनरूपं फलं भवतीति प्रतिपादनम्, उक्तेऽर्थे गाथयाऽभिगीतस्य प्रदर्शनं, भीमसेनोग्रसेनश्रुतसेनानां पारिक्षितीयानां तथाऽऽह्णारदौर्ग्रहमरुत्तपाञ्चालानां राज्ञां दृष्टान्तेनाश्वमेधिकस्यातिरात्रसंस्थस्य तृतीयस्याह्नः प्राकृतात्सर्वस्तोमातिरात्रादधिका ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रताप्तोर्यामातिरात्ररूपाः सप्त विकल्पा भवंतीति सार्थवादं गाथयाऽभिगीतसहितं च विधानं, त्रिष्वप्यहःसु स्तोमान्तराणि सोपपत्तिकं प्रतिपाद्य तद्वताऽश्वमेधेन द्वैपायनो राजा ईजे इति गाथयाऽभिगीतसहितमभिधानं, तथा त्रिष्वप्यहःसु पवमानान्तराणि सोपपत्तिकं प्रतिपाद्य तद्वताऽश्वमेधेन दौष्यन्तिर्भरतो राजा ईजे इति गाथयाऽभिगीतसहितं प्रतिपादनम् , अत्रोक्तेऽर्थे द्वितीयातृतीयाचतुर्थीभिर्गाथाभिरभिगीतस्यार्थस्य प्रदर्शनं, त्रिष्वपि दिवसेषु एकविंशस्तोमवताऽश्वमेधेन याज्ञतुर ऋषभो राजा ईजे इति गाथयाऽभिगीतसहितमभिधानं, तथा त्रिष्वपि दिवसेषु त्रयस्त्रिंशवताऽश्वमेधेन सात्रासहः शोणो राजा ईजे इति गाथया. ऽभिगीतसहितमभिधानम् , अस्मिन्नुक्तेऽर्थे द्वितीयातृतीयाभ्यां गाथाभ्यामभिगीतस्यार्थस्य प्रदर्शनं, गोविनतस्तोमवता. ऽश्वमेधेन सात्राजितः शतानीको राजा ईजे इत्यभिधानं, गोविनतसंज्ञकस्तोमस्य प्रकारनिरूपणं, गोविनतस्तोमविषयकस्य चतसृभिर्गाथाभिरभिगीतस्यार्थस्य प्रदर्शनम्, विजयमध्यात्प्राच्यादिक्रमेण चतुर्दिक्षु यदुत्पन्नं द्रव्यं तत्तेनैव क्रमेण होतृब्रह्माध्वर्यूद्गातृभ्यः प्रदेयं भूमिपुरुषब्राह्मणस्ववर्जं यथा स्यात्तथेति दक्षिणादानविधानम्, उदयनीयेष्ट्यां समाप्तायां सप्त मैत्रावरुण्यः सप्त वैश्वदेव्यः सप्त बार्हस्पत्या एवमेकविंशतिं वशा अनूबन्ध्यामालभेतेति सार्थवादं विधानम्, अनूबन्ध्यासम्बन्धिन्या एकविंशतिसंख्याया मासर्तुलोकादित्यात्मना प्रशंसनं, तथोदवसानीयेष्ट्यां संस्थितायां महिष्यादिकाश्चतस्रो जायाः --पञ्चमीं कुमारीम्-अनुचरीणां चत्वारि शतानि च येन सह ययाऽभिमेथिकः संवादः कृतस्तास्तेभ्यो दक्षिणात्वेन दद्यादिति विधानं, ततः संवत्सरपर्यन्तं वसन्तादिक्रमेण प्रत्यृतु षट् षडानेयानैन्द्रान्पार्जन्यान्मारुतान्वा मैत्रावरुणानैन्द्रावैष्णवानैन्द्राबार्हस्पत्यानृपशूनालभ्य यजेतेति सार्थवादं विधानम् , ऋतुपशुगतषट्त्रिंशत्संख्यायाः षट्त्रिंशदक्षरसंख्याकबृहत्यात्मना प्रशंसनं चेत्यादि.