शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search


१३.५.१

अथ प्रातर्गोतमस्य चतुरुत्तर स्तोमो भवति तस्य चतसृषु बहिष्पवमानमष्टास्वष्टास्वाज्यानि द्वादशसु माध्यन्दिनः पवमानः षोडशसु पृष्ठानि विंशत्यामार्भवः पवमानश्चतुर्विंशत्यामग्निष्टोमसाम - १३.५.१.[१]

तस्य हैके अग्निष्टोमसाम चतुःसाम कुर्वन्ति नाग्निष्टोमो नोक्थ्य इति वदन्तस्तद्यदि तथा कुर्युः सार्धं स्तोत्रियं शस्त्वा सार्धमनुरूपं शंसेद्रथन्तरं पृष्ठं राथन्तरं शस्त्रमग्निष्टोमो यज्ञस्तेनेमं लोकमृध्नोति - १३.५.१.[२]

एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानं कर्मेत्यु हैक आहुर्द्वे त्वेवैते एकादशिन्यावालभेत य एवैकादशिनेषु कामस्तस्य कामस्याप्त्यै - १३.५.१.[३]

संस्थितेऽग्निष्टोमे परिहृतासु वसतीवरीष्वध्वर्युरन्नहोमाञ्जुहोति तेषामुक्तं ब्राह्मणं प्राणाय स्वाहापानाय स्वाहेति द्वादशभिरनुवाकैर्द्वादशमासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.५.१.[४]

एकविंशं मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति तस्मादेकविंशम् - १३.५.१.[५]

यद्वेवैकविंशम् एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तदनेनैकविंशेनात्मनैतस्मिन्नेकविंशे प्रतिष्ठायां प्रतितिष्ठति तस्मादेकविंशम् - १३.५.१.[६]

यद्वेवैकविंशम् एकविंशो वै स्तोमानां प्रतिष्ठा बहु खलु वा एतदेतस्मिन्नहन्युच्चावचमिव कर्म क्रियते तद्यदेतदेतस्मिन्नहन्युच्चावचम्बहु कर्म क्रियते तदेतस्मिन्नेकविंशे प्रतिष्ठायां प्रतिष्ठितं क्रियाता इति तस्माद्वेवैतदेकविंशमहः - १३.५.१.[७]

तस्य प्रातःसवनम् अग्निं तं मन्ये यो वसुरिति होता पाङ्क्तमाज्यं शस्त्वैकाहिकमुपसंशंसति बार्हतं च प्रउगं माधुच्छन्दसं च त्रिचश उभे संशंसति यश्च बार्हते प्रउगे कामो य उ च माधुच्छन्दसे तयोरुभयोः कामयोराप्त्यै कॢप्तं प्रातःसवनम्
- १३.५.१.[८]

अथातो माध्यन्दिनं सवनं अतिच्छन्दाः प्रतिपन्मरुत्वतीयस्य त्रिकद्रुकेषु महिषो यवाशिरमित्यतिष्ठा वा एषा छन्दसां यदतिच्छन्दा अतिष्ठा अश्वमेधो यज्ञानामश्वमेधस्यैवाप्त्यै सैषैव त्रिः शस्ता त्रिचः सम्पद्यते तेनो तं काममाप्नोति यस्त्रिच इदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानः इत्था हि सोम इन्मदेऽवितासि सुन्वतो वृक्तबर्हिष इति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके निविदं दधातीति मरुत्वतीयम् - १३.५.१.[९]

अथातो निष्केवल्यम् महानाम्न्यः पृष्ठं भवन्ति सानुरूपाः सप्रगाथाः शंसति सर्वे वै कामा महानाम्नीषु सर्वे कामा अश्वमेधे सर्वेषां कामानामाप्त्या इन्द्रो मदाय वावृधे प्रेदं ब्रह्म वृत्रतूर्येष्वाविथेति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके निविदं दधाति कॢप्तं माध्यन्दिनं सवनम् - १३.५.१.[१०]

अथातस्तृतीयसवनम् अतिच्छन्दा एव प्रतिपद्वैश्वदेवस्याभित्यं देवं सवितारमोण्योरिति तस्या एतदेव ब्राह्मणं यत्पूर्वस्या अभि त्वा देव सवितरित्यनुचरोऽभिवानभिभूत्यै रूपमुदु ष्य देवः सविता दमूना इति सावित्रं शस्त्वैकाहिके निविदं दधाति मही द्यावापृथिवी इह ज्येष्ठे इति चतुर्ऋचं द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधात्यृभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं शस्त्वैकाहिके निविदं दधाति को नु वां मित्रावरुणावृतायन्निति वैश्वदेवं शस्त्वैकाहिके निविदं दधातीति वैश्वदेवम् - १३.५.१.[११]

अथात आग्निमारुतम् मूर्धानं दिवो अरतिं पृथिव्या इति वैश्वानरीयं शस्त्वैकाहिके
निविदं दधात्या रुद्रास इन्द्रवन्तः सजोषस इति मारुतं शस्त्वैकाहिके निविदं दधातीममूषु वो अतिथिमुषर्बुधमिति नवर्चं जातवेदसीयं शस्त्वैकाहिके निविदं दधाति तद्यदैकाहिकानि निविद्धानानि भवन्ति प्रतिष्ठा वै ज्योतिष्तोमः प्रतिष्ठाया अप्रच्युत्यै - १३.५.१.[१२]

तस्यैते पशवो भवन्ति अश्वस्तूपरो गोमृग इति पञ्चदश पर्यङ्ग्यास्तेषामुक्तम्ब्राह्मणमथैत आरण्या वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्कान्वर्षाभ्यस्तित्तिरीनिति तेषाम्वेवोक्तम् - १३.५.१.[१३]

अथैतानेकविंशतये चातुर्मास्यदेवताभ्य एकविंशतिमेकविंशतिं पशूनालभत एतावन्तो वै सर्वे देवा यावत्यश्चातुर्मास्यदेवताः सर्वे कामा अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति न तथा कुर्यात् - १३.५.१.[१४]

सप्तदशैव पशून्मध्यमे यूप आलभेत् प्रजापतिः सप्तदशः सर्वं सप्तदशः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै षोडश षोडशेतरेषु षोडशकलं वा इदं सर्वं सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै त्रयोदश त्रयोदशारण्यानाकाशेष्वालभते त्रयोदश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै - १३.५.१.[१५]

अथ पुरा बहिष्पवमानात् अश्वं निक्त्वोदानयन्ति तेन पावमानाय सर्पन्ति तस्योक्तं ब्राह्मणं स्तुते बहिष्पवमानेऽश्वमास्तावमाक्रमयन्ति स यद्यव वा जिघ्रेद्वि वा वर्तेत् समृद्धो मे यज्ञ इति ह विद्यात्तमुपाकृत्याध्वर्युराह होतरभिष्टुहीति तमेकादशभिर्होताभिष्टौति - १३.५.१.[१६]

यदक्रन्दः प्रथमं जायमान इति त्रिः प्रथमया त्रिरुत्तमया ताः पञ्चदश सम्पद्यन्ते पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते तद्वै यजमानायैव वज्रः प्रदीयते योऽस्य स्तृत्यस्तं स्तर्तव उप प्रागाच्छसनम्वाज्यर्वोप प्रागात्परमं यत्सधस्थमिति - १३.५.१.[१७]

एते उद्धृत्य मा नो मित्रो वरुणो अर्यमाऽऽयुरित्येतत्सूक्तमध्रिगावावपति चतुस्त्रिंशद्वाजिनो देवबन्धोरित्यु हैक एतां वङ्क्रीणां पुरस्ताद्दधति नेदनायतने प्रणवं दधामेत्यथो नेदेकवचनेन बहुवचनं व्यवायामेति न तथा कुर्यात्सार्धमेष सूक्तमावपेदुप प्रागाच्छसनं वाज्यर्वोप प्रागात्परमं यत्सधस्थमिति - १३.५.१.[१८]