शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

१३.५.४

एतेन हेन्द्रोतो दैवापः शौनकः जनमेजयं पारिक्षितं याजयांचकार तेनेष्ट्वा सर्वां पापकृत्यां सर्वां ब्रह्महत्यामपजघान सर्वां ह वै पापकृत्यां सर्वां ब्रह्महत्यामपहन्ति योऽश्वमेधेन यजते - १३.५.४.[१]

तदेतद्गाथयाभिगीतम् आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् अबध्नादश्वं सारङ्गं देवेभ्यो जनमेजय इति - १३.५.४.[२]

एते एव पूर्वे अहनी ज्योतिरतिरात्रस्तेन भीमसेनमेते एव पूर्वे अहनी गौरतिरात्रस्तेनोग्रसेनमेते एव पूर्वे अहनी आयुरतिरात्रस्तेन श्रुतसेनमित्येते पारिक्षितीयास्तदेतद्गाथयाभिगीतं पारिक्षिता यजमाना अश्वमेधैः परोऽवरम् अजहुः कर्म पापकं पुण्याः पुण्येन कर्मणेति - १३.५.४.[३]

एते एव पूर्वे अहनी अभिजिदतिरात्रस्तेन ह पर आट्णार ईजे कौसल्यो राजा तदेतद्गाथयाभिगीतमट्णारस्य परः पुत्रोऽश्वं मेध्यमबन्धयत्हैरण्यनाभः कौसल्यो दिशः पूर्णा अमंहतेति - १३.५.४.[४]

एते एव पूर्वे अहनी विश्वजिदतिरात्रस्तेन ह पुरुकुत्सो दौर्गहेणेज ऐक्ष्वाको राजा तस्मादेतदृषिणाभ्यनूक्तमस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे बध्यमान इति - १३.५.४.[५]

एते एव पूर्वे अहनी महाव्रतमतिरात्रस्तेन ह मरुत्त आविक्षित ईज आयोगवो राजा
तस्य ह ततो मरुतः परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो बभूवुस्तदेतद्गाथयाभिगीतं मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्याग्निः क्षत्ता विश्वे देवाः सभासद इति मरुतो ह वै तस्य परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो भवन्ति योऽश्वमेधेन यजते - १३.५.४.[६]

एते एव पूर्वे अहनी अप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैव्यऽईजे पाञ्चालो राजा क्रिवय इति ह वै पुरा पञ्चालानाचक्षते तदेतद्गाथयाभिगीतमश्वं मेध्यमालभते क्रिवीणामतिपूरुषः। पाञ्चालः परिवक्रायां सहस्रशतदक्षिणमिति - १३.५.४.[७]

अथ द्वितीयया सहस्रमासन्नयुता शता च पञ्चविंशतिः दिक्तो दिक्तः पञ्चालानाम्
ब्राह्मणा या विभेजिर इति - १३.५.४.[८]

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदशं तृतीयमहः सोक्थकमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिरित्येषोऽनुष्टुप्सम्पन्नस्तेन हैतेन ध्वसा द्वैतवन ईजे मात्स्यो राजा यत्रैतद्द्वैतवनं सरस्तदेतद्गाथयाभिगीतं चतुर्दश द्वैतवनो राजा सङ्ग्रामजिद्धयानिन्द्राय वृत्रघ्नेऽबध्नात्तस्माद्द्वैतवनं सर इति - १३.५.४.[९]

चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना एकविंशमभ्यावर्तमष्टाचत्वारिंशाः पवमानास् त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामाद् द्वात्रिंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिरिति - १३.५.४.[१०]

एतद्विष्णोः क्रान्तम् तेन हैतेन भरतो दौःषन्तिरीजे तेनेष्ट्वेमां व्यष्टिम्व्यानशे येयं भरतानां तदेतद्गाथयाभिगीतमष्टासप्ततिं भरतो दौःष्यन्तिर्यमुनामनु गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयानिति - १३.५.४.[११]

अथ द्वितीयया त्रयस्त्रिंशं शतं राजाश्वान्बद्ध्वाय मेध्यान्सौद्युम्निरत्यष्टादन्यानमायान्मायवत्तर इति - १३.५.४.[१२]

अथ तृतीयया शकुन्तला नाडपित्यप्सरा भरतं दधे परः सहस्रानिन्द्रायाश्वान्मेधान्य आहरद्विजित्य पृथिवीं सर्वामिति - १३.५.४.[१३]

अथ चतुर्थ्या महदद्य भरतस्य न पूर्वे नापरे जनाः दिवं मर्त्यैव बाहुभ्यां नोदापुः पञ्च मानवा इति - १३.५.४.[१४]

एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे श्विक्नानां राजा तदेतद्गाथयाभिगीतं याज्ञतुरे यजमाने ब्रह्माण ऋषभे जनाः। अश्वमेधे धनं लब्ध्वा विभजन्तेस्म दक्षिणा इति - १३.५.४.[१५]

त्रयस्त्रिंशस्तोमेन शोणः सात्रासाह ईजे पाञ्चालो राजा तदेतद्गाथयाभिगीतं सात्रासहे
यजमानेऽश्वमेधेन तौर्वशाः। उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणामिति - १३.५.४.[१६]

अथ द्वितीयया षट्षट् षड्ढा सहस्राणि यज्ञे कोकपितुस्तव। उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणामिति - १३.५.४.[१७]

अथ तृतीयया सात्रासहे यजमाने पाञ्चाले राज्ञि सुस्रजि। अमाद्यदिन्द्रः सोमेनातृप्यन्ब्राह्मणा धनैरिति - १३.५.४.[१८]

गोविनतेन शतानीकः सात्राजित ईजे काश्यस्याश्वमादाय ततो हैतर्दवाक्काशयोऽग्नीन्नादधत आत्तसोमपीथाः स्म इति वदन्तः - १३.५.४.[१९]

तस्य विधा। चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना एकविंशान्याज्यानि त्रिणवान्युक्थान्येकविंशानि पृष्ठानि षट्त्रिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः - १३.५.४.[२०]

तदेतद्गाथयाभिगीतम् शतानीकः समन्तासु मेध्यं सात्राजितो हयम्। आदत्त यज्ञं काशीनां भरतः सत्वतामिवेति - १३.५.४.[२१]

अथ द्वितीयया । श्वेतं समन्तासु वशं चरन्तं शतानीको ध्रृतराष्ट्रस्य मेध्यम्। आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन हेज इति - १३.५.४.[२२]

अथ चतुर्थ्या । महदद्य भरतानां न पूर्वे नापरे जनाः। दिवं मर्त्यैव पक्षाभ्यां नोदापुः सप्त मानवा इति - १३.५.४.[२३]

अथातो दक्षिणानाम् । मध्यं प्रति राष्ट्रस्य यदन्यद्भूमेश्च पुरुषेभ्यश्च ब्राह्मणस्य च वित्तात्प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः - १३.५.४.[२४]

उदयनीयायां संस्थितायाम् एकविंशतिं वशा अनूबन्ध्या आलभते मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्यान्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति - १३.५.४.[२५]

अथ यदेकविंशतिर्भवन्ति एकविंशो वा एष य एष तपति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम् - १३.५.४.[२६]

उदवसानीयायां संस्थितायाम् चतस्रश्च जायाः कुमारीं पञ्चमीं चत्वारि च शतान्यनुचरीणां यथासमुदितं दक्षिणां ददाति - १३.५.४.[२७]

अथोत्तरं सम्वत्सरमृतुपशुभिर्यजते षड्भिराग्नेयैर्वसन्ते षड्भिरैन्द्रैर्ग्रीष्मे षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु षड्भिर्मैत्रावरुणैः शरदि षड्भिरैन्द्रावैष्णवैर्हेमन्ते षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे षडृतवः सम्वत्सरः ऋतुष्वेव सम्वत्सरे प्रतितिष्ठति षट्त्रिंशदेते पशवो भवन्ति षट्त्रिंशदक्षरा बृहती बृहत्यामधिस्वर्गो लोकः प्रतिष्ठितस्तद्वन्ततो बृहत्यैव च्छन्दसा स्वर्गे लोके प्रतितिष्ठति - १३.५.४.[२८]