शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search

१३.५.२

एतेऽउक्त्वा यदध्रिगोः परिशिष्टं भवति तदाह वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति तस्मिन्नेनमधि सञ्ज्ञपयन्ति सञ्ज्ञप्तेषु पशुषु पत्न्यः पान्नेजनैरुदायन्ति चतस्रश्च जायाः कुमारी पञ्चमी चत्वारि च शतान्यनुचरीणाम् - १३.५.२.[१]

निष्ठितेषु पान्नेजनेषु महिषीमश्वायोपनिपादयन्त्यथैनावधिवासेन सम्प्रोर्णुवन्ति स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशुं सञ्ज्ञपयन्ति निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैव सर्वत्वाय - १३.५.२.[२]

तयोः शयानयोः अश्वं यजमानोऽभिमेथत्युत्सक्थ्या अव गुदं धेहीति तं न कश्चन प्रत्यभिमेथति नेद्यजमानं प्रतिप्रतिः कश्चिदसदिति - १३.५.२.[३]

अथाध्वर्युः कुमारीमभिमेथति कुमारि हयेहये कुमारि यकासकौ शकुन्तिकेति तं कुमारी प्रत्यभिमेथत्यध्वर्यो हयेहयेऽध्वर्यो यकोऽसकौ शकुन्तक इति - १३.५.२.[४]

अथ ब्रह्मा महिषीमभिमेथति महिषि हयेहये महिषि माता च ते पिता च तेऽग्रं वृक्षस्य रोहत इति तस्यै शतं राजपुत्र्योऽनुचर्यो भवन्ति ता ब्रह्माणम्प्रत्यभिमेथन्ति ब्रह्मन्हयेहये ब्रह्मन्माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडत इति - १३.५.२.[५]

अथोद्गाता वावातामभिमेथति वावाते हयेहये वावात ऊर्ध्वामेनामुच्छ्रापयेति तस्यै शतं राजन्या अनुचर्यो भवन्ति ता उद्गातारम्प्रत्यभिमेथन्त्युद्गातर्हयेहय उद्गातरूध्वर्मेनमुच्छ्रयतादिति - १३.५.२.[६]

अथ होता परिवृक्तामभिमेथति परिवृक्ते हयेहये परिवृक्ते यदस्या अंहुभेद्या इति तस्यै शतं सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारम्प्रत्यभिमेथन्ति होतर्हयेहये होतर्यद्देवासो ललामगुमिति - १३.५.२.[७]

अथ क्षत्ता पालागलीमभिमेथति पालागलि हयेहये पालागलि यद्धरिणो यवमत्ति
न पुष्टं पशु मन्यत इति तस्यै शतं क्षात्रसङ्ग्रहीतॄणां दुहितरोऽनुचर्यो भवन्ति ताः क्षत्तारं प्रत्यभिमेथन्ति क्षत्तर्हयेहये क्षत्तर्यद्धरिणो यवमत्ति न पुष्टं बहु मन्यत इति - १३.५.२.[८]

सर्वाप्तिर्वा एषा वाचः यदभिमेथिकाः सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेत्युत्थापयन्ति महिषीं ततस्ता यथेतम्प्रतिपरायन्त्यथेतरे सुरभिमतीमृचमन्ततोऽन्वाहुर्दधिक्राव्णो अकारिषमिति - १३.५.२.[९]

अप वा एतेभ्य आयुर्देवताः क्रामन्ति ये यज्ञेपूतां वाचं वदन्ति वाचमेवैतत्पुनते देवयज्यायै देवतानामनपक्रमाय या च गोमृगे वपा भवति या चाजे तूपरे ते अश्वे प्रत्यवधायाहरन्ति नाश्वस्य वपास्तीति वदन्तो न तथा कुर्यादश्वस्यैव प्रत्यक्षं मेद आहरेत्प्रज्ञाता इतराः - १३.५.२.[१०]

शृतासु वपासु स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि ब्रह्मोद्यम्वदन्ति पूर्वया द्वारा प्रपद्य यथाधिष्ण्यं व्युपविशन्ति - १३.५.२.[११]

स होताध्वर्युं पृच्छति कः स्विदेकाकी चरतीति तं प्रत्याह सूर्य एकाकी चरतीति - १३.५.२.[१२]

अथाध्वर्युर्होतारं पृच्छति किं स्वित्सूर्यसमं ज्योतिरिति तं प्रत्याह ब्रह्म सूर्यसमं ज्योतिरिति - १३.५.२.[१३]

अथ ब्रह्मोद्गातारं पृच्छति पृच्छामि त्वा चितये देवसखेति तं प्रत्याहापि तेषु त्रिषु पदेष्वस्मीति - १३.५.२.[१४]

अथोद्गाता ब्रह्माणं पृच्छति केष्वन्तः पुरुष आविवेशेति तं प्रत्याह पञ्चस्वन्तः पुरुष आविवेशेति - १३.५.२.[१५]

एतस्यामुक्तायामुत्थाय सदसोऽधि प्राञ्चो यजमानमभ्यायन्त्यग्रेण हविर्धाने आसीनमेत्य यथायतनं पर्युपविशन्ति - १३.५.२.[१६]

स होताध्वर्युं पृच्छति का स्विदासीत्पूर्वचित्तिरिति तं प्रत्याह द्यौरासीत्पूर्वचित्तिरिति - १३.५.२.[१७]

अथाध्वर्युर्होतारं पृच्छति क ईमरे पिशङ्गिलेति तं प्रत्याहाजारे पिशञ्गिलेति - १३.५.२.[१८]

अथ ब्रह्मोद्गातारं पृच्छति कत्यस्य विष्ठाः कत्यक्षराणीति तं प्रत्याह षडस्य विष्ठाः शतमक्षराणीति - १३.५.२.[१९]

अथोद्गाता ब्रह्माणं पृच्छति को अस्य वेद भुवनस्य नाभिमिति तं प्रत्याह वेदाहमस्य भुवनस्य नाभिमिति - १३.५.२.[२०]

अथाध्वर्युं यजमानः पृच्छति पृच्छामि त्वा परमन्तं पृथिव्या ऽइति तम्प्रत्याहेयं वेदिः परो अन्तः पृथिव्याऽइति - १३.५.२.[२१]

सर्वाप्तिर्वा एषा वाचः यद्ब्रह्मोद्यं सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेति - १३.५.२.[२२]

उदिते ब्रह्मोद्ये प्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या सुभूः स्वयम्भूः प्रथम इति होता यक्षत्प्रजापतिमिति प्रैषः प्रजापते न त्वदेतान्यन्य इति होता यजति वषट्कृते जुहोति यस्तेऽहन्त्सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति सर्वहुतं हि जुहोति।अथातो वपानां होमः नानैव चरेयुरा वैश्वदेवस्य वपायै वैश्वदेवस्य वपायां हुतायां तदन्वितरा जुहुयुरिति ह स्माह सत्यकामो जाबालो विश्वे वै सर्वे देवास्तदेनान्यथादेवतं प्रीणातीति - १३.५.२.[२३]