विष्णुपुराणम्/तृतीयांशः/अध्यायः ११
॥ अथ एकादशोऽध्यायः ॥
(गृहस्थसदाचाराणां मूत्रपुरीषोत्सर्गविधेश्च वर्णनम्)
सगर उवाच
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।
लोकादस्मात् परस्माच्च यमातिष्ठन्न हीयते ॥१॥
और्व उवाच
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।
सदाचारवता पुंसा जितौ लोकावुभावपि ॥२॥
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः ।
तेषामाचरणं यस्तु सदाचारस्स उच्यते ॥३॥
सप्तर्षयोऽथ मनवः प्रजानां पतयस्तथा ।
सदाचारस्य वक्तारः कर्तारश्च महीपते ॥४॥
ब्राह्मे मुहूर्त्ते चोत्थाय मनसा मतिमान्नृप ।
प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥५॥
अपीडया तयोः काममुभयोरपि चिन्तयेत् ।
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता ॥६॥
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।
धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ॥७॥
ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर ॥८॥
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।
दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत् ॥९॥
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥१०॥
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा ।
गुरुद्विजादींस्तु बुधो नाधिमेहेत् कदाचन ॥११॥
न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥१२॥
नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥१३॥
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥१४॥
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किंचिदुदीरयेत् ॥१५॥
वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा ।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥१६॥
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि ॥१७॥
एका लिंगे गुदे तिस्रो दश वामकरे नृप ।
हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः ॥१८॥
अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च ।
आचामेच्च मृदं भूयस्तथा दद्यात् समाहितः ॥१९॥
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥२०॥
शीर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥२१॥
आचांतस्तु ततः कुर्यात् पुमान् केशप्रसाधनम् ।
आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालम्भनानि च ॥२२॥
ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।
कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते ॥२३॥
सोमसंस्था हविस्संस्थाः पाकसंस्थास्तु संस्थिताः ।
धने यतो मनुष्याणां यतेतातो धनार्जने ॥२४॥
नदीनदतटाकेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥२५॥
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
गृहेषूद्धृततोयेन ह्यथवा भुव्यसम्भवे ॥२६॥
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः ॥२७॥
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥२८॥
पितॄणां प्रीणनार्थाय तदपः पृथिवीपते ।
पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् ॥२९॥
मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।
दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ॥३०॥
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप ।
गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे ॥३१॥
इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप ।
उपकाराय भूतानां कृतदेवादितर्पणम् ॥३२॥
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः ।
पिशाचा गुह्यकास्सिद्धाः कूष्माण्डाः पशवः खगाः ॥३३॥
जलेचरा भूनिलया वाय्वाहाराश्च जन्तवः ।
तृप्तिमेतेन यान्त्याशु मद्दत्तेनाम्बुनाऽखिलाः ॥३४॥
नरकेषु समस्तेषु यातनासु च संस्थिताः ।
तेषामाप्यायनायैतद्दीयते सलिलं मया ॥३५॥
ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः ॥३६॥
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥३७॥
काम्योदकप्रदानं ते मयैतत्कथितं नृप ।
यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् ।
जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ ॥३८॥
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः ।
आचम्य च ततो दद्यात्सूर्याय सलिलांजलिम् ॥३९॥
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥४०॥
ततो गृहाऽर्चनं कुर्यादभीष्टसुरपूजनम् ।
जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥४१॥
अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ॥४२॥
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।
गृहेभ्यः काश्यपायाथ ततोनुमतये क्रमात् ॥४३॥
तच्छेषं मणिके पृथ्वीपर्जन्येभ्यः क्षिपेत्ततः ।
द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥४४॥
गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु ॥४५॥
इंद्रा य धर्मराजाय वरुणाय तथेंदवे ।
प्राच्यादिषु बुधो दद्याद्धुतश्षोआ!त्मकं बलिम् ॥४६॥
प्रागुत्तरे च दिग्भागे धन्वंतारिबलिं बुधः ।
निर्वपैद्वैश्वदेवं च कर्म कुर्य्यादतः परम् ॥४७॥
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।
ब्रह्मणे चांतरिक्षाय भानवे च क्षिपेद्बलिम् ॥४८॥
विश्वेदेवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।
यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥४९॥
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।
दद्यादश्षोभूतेभ्यस्स्वेच्छया सुसमाहितः ॥५०॥
देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसङ्घाः ।
प्रतोः पिशाचास्तरवस्समस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ५१ ।
पिपीलिकाः कीटपतंङ्गकाद्या बुभुक्षिताः कर्मनिबंधबद्धाः ।
प्रयांति ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवंतु ५२ ।
येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु ॥५३॥
भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोऽन्यदस्ति ।
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥५४॥
चतुर्दशो भूतगणो य एषः तत्र स्थिता येऽखिलभूतसङ्घाः ।
तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥५५॥
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥५६॥
श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर ।
ये चान्ये पतिताः केचिदपुत्राः सन्ति मानवाः ॥५७॥
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया ॥५८॥
अतिथिं तत्र सम्प्राप्तं पूजयेत् स्वागतादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च ॥५९॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥६०॥
अज्ञातकुलनामानमन्यदेशादुपागतम् ।
पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥६१॥
अकिञ्चनमसम्बन्धमज्ञातकुलशालिनम् ।
असम्पूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥६२॥
स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥६३॥
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।
तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञिकम् ॥६४॥
अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् ।
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥६५॥
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥६६॥
इत्येतेऽतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये ।
चतुरः पूजयित्वैतान्नृप पापात् प्रमुच्यते ॥६७॥
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६८॥
धाता प्रजापतिः शक्रो वह्निर्वसुगणोऽर्यमा ।
प्रविश्यातिथिमेते वै भुञ्जन्तेऽन्नं नरेश्वर ॥६९॥
तस्मादतिथिपूजायां यतेत सततं नरः ।
स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥७०॥
ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् ।
भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥७१॥
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते स दुष्कृतम् ।
मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः ॥७२॥
अस्नाताशी मलं भुङ्क्ते ह्यजपी पूयशोणितम् ।
असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ॥७३॥
अहोमी च कृमीन् भुङ्क्ते अदत्त्वा विषमश्नुते ॥७४॥
तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही ।
भुञ्जतश्च यथा पुंसः पापबन्धो न जायते ॥७५॥
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप ।
भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः ॥७६॥
स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥७७॥
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।
दत्त्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च ।
पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर ॥७८॥
नैकवस्त्रधरो नार्द्रपाणिपादो महीपते ।
विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥७९॥
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥८०॥
न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् ।
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥८१॥
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥८२॥
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर ।
नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये ॥८३॥
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप ।
अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात् तथा ॥८४॥
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च ।
भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥८५॥
न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ।
मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ॥८६॥
अश्नीयात् तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ॥८७॥
प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥८८॥
अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥८९॥
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा ।
यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः ॥९०॥
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥९१॥
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।
दत्तावकाशं नभसा जरयत्यस्तु मे सुखम् ॥९२॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥९३॥
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥९४॥
अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहे ॥९५॥
विष्णुः समस्तेन्द्रियदेहदेही वृथा न भूतो भगवान् यथैकः ।
सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु ॥९६॥
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।
सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ॥९७॥
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायीनि कुर्यात् कर्माण्यतन्द्रितः ॥९८॥
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत् ततस्सन्ध्यामुपतिष्ठेत् समाहितः ॥९९॥
दिनान्तसन्ध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः ।
उपतिष्ठेद्यथान्याय्यं सम्यगाचम्य पार्थिव ॥१००॥
सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥१०१।
सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् ।
अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥१०२॥
तस्मादनुदिते सूर्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरस्सन्ध्यामस्वपंश्च दिनान्तजाम् ॥१०३॥
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तमिस्रं नरकं नृप ॥१०४॥
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्यमन्त्रं बलिं हरेत् ॥१०५॥
तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् ॥१०६॥
अतिथिं चागतं तत्र स्वशक्तया पूजयेद्बुधः ।
पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।
ततश्चान्नप्रदानेन शयनेन च पार्थिव ॥१०७॥
दिवातिथौ तु विमुखे गते यत्पातकं नृप ।
तदेवाष्टगुणं पुंसस्सूर्योढे विमुखे गते ॥१०८॥
तस्मात् स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः ।
पूजयेत् पूजिते तस्मिन् पूजितास्सर्वदेवताः ॥१०९॥
अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत् पुमान् ।
शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥११०॥
कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।
गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥१११॥
नाविशालां न वै भुग्नां नासमां मलिनां न च ।
न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥११२॥
प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥११३॥
ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥११४॥
नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम् ॥११५॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ॥११६॥
स्नातस्स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितोऽपि वा ।
सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत् ॥११७॥
चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च ॥११८॥
तैलस्त्रीमांससम्भोगी सर्वेष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥११९॥
अशेषपर्वस्वेतेषु तस्मात् संयमिभिर्बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥१२०॥
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा ।
द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥१२१॥
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते ॥१२२॥
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः ।
गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः ॥१२३॥
पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥१२४॥
परदारान्न गच्छेत मनसापि कथञ्चन ।
किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥१२५॥
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः ।
परदाररतिः पुंसामिह चामुत्र भीतिदा ॥१२६॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥१२७॥
॥ इति श्रीविष्णुपुराणे तृतीयांशे एकादशोऽध्यायः ॥