विष्णुपुराणम्/तृतीयांशः/अध्यायः १८
श्रीपराशर उवाच ।
तपस्यभिरतान् सोऽथ मायामोहो महासुरान् ।
मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥१॥
ततो दिगम्बरो मुण्डो बर्हिपिच्छधरो द्विज ।
मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥२॥
हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः ।
ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ ॥३॥
असुरा ऊचुः
पारत्र्यफललाभाय तपश्वर्या महामते ।
अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥४॥
मायामोह उवाच
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ ।
अर्हध्वमेनं धर्मञ्च मुक्तिद्वारमसंवृतम् ॥५॥
धर्मो विमुक्तेरर्होऽयं नैतस्मादपरो वरः ।
अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥६॥
अर्हध्वं धर्ममेतञ्च सर्वे यूयं महाबलाः ॥७॥
श्रीपराशर उवाच
एवं प्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः ।
मायामोहन ते दैत्या वेदमार्गादपाकृताः ॥८॥
धर्मायैतदधर्माय सदेतन्न सदित्यपि ।
विमुक्तये त्विदं नैतद् विमुक्तिं सम्प्रयच्छति ॥९॥
परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययम् ।
कार्यमेतदकार्यञ्च नैतदेवं स्पुटं त्विदम् ॥१०॥
दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम् ॥११॥
इत्यनैकान्तवादञ्च मायामोहेन नैकधा ।
तेन दर्शयता दैत्याः स्वधर्मं त्याजिता द्विज ॥१२॥
अर्हतैतं महाधर्मं मायामोहेन ते यतः ।
प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन् ॥१३॥
त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः ।
कारितास्तन्मया ह्मासंस्ततोऽन्ये तत्प्रचोदिताः ॥१४॥
तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः ।
अल्पैरहोभिः सन्तयक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥१५॥
पुनश्च रक्ताम्बरधृङ् मायामोहो जितेन्द्रियः ।
अन्यानाहासुरान् गत्वा मृद्वल्पमधुराक्षरम् ॥१६॥
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः ।
तदलं पशुघातादिदुष्टधर्मैर्निबोधत ॥१७॥
विज्ञानमयमेवैतदशेषमवगच्छत ।
बुध्यध्वं मे वचः सम्यग् बुधैरेवमिहोदितम् ॥१८॥
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसङ्कटे ॥१९॥
एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् ।
मायामोहः स दैतेयान् धर्ममत्याजयन्निजम् ॥२०॥
नानाप्रकारवचनं स तेषां युक्तियोजितम् ।
तथा तथा च त्रयीधर्मं तत्यजुस्ते यथा यथा ॥२१॥
तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः ।
मैभेय तत्यजुर्धर्मं वेदस्मृत्युदितं परम् ॥२२॥
अन्यानप्यन्यपाषण्डप्रकारैर्बहुभिर्द्विज ।
दैतेयान् मोहयामास मायामोहोऽतिमोहकृत् ॥२३॥
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः ।
मोहितास्तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम् ॥२४॥
केचिद्विनिन्दां वेदानां देवानामपरे द्विज ।
यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम् ॥२५॥
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते ।
हवींष्यनलदग्धानि फलायेत्यर्भकोदितम ॥२६॥
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते ।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक् पशु ॥२७॥
निहतस्य पशोर्यज्ञे स्वर्गप्रात्पिर्यदीष्यते ।
स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥२८॥
तृत्पये जायते पुंसो भुक्तमन्येन चेत्ततः ।
कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥२९॥
जनश्रद्धेयमित्येतदवगम्य ततोऽत्र वः ।
उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥३०॥
न ह्माप्तवादा नभसो निपतन्ति महासुराः ।
युक्तिमद् वचनं ग्राह्यं मयान्यैश्च भवद्विधैः ॥३१॥
मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा ।
व्युत्थापिता यथा नैषां त्रयीं कश्विदरोचयत् ॥३२॥
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः ।
उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥३३॥
ततो देवासुरं युद्धं पुनरेवाभवद् द्विज ।
हताश्च तेऽसुरा देवैः सन्मार्गपरिपन्थिनः ॥३४॥
स्वधर्मकवचं तेषामभूदू यत्प्रथमं द्विज ।
तेन रक्षाभवत् पूर्वं नेशुर्नष्टे च तत्र ते ॥३५॥
ततो मैत्रेय तन्मार्गवर्त्तिनो येऽभवञ्जनाः ।
नग्नास्ते तैर्यतस्त्यक्तं त्रयीसंवरणां वृथा ॥३६॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थस्तथाश्रमी ।
परिव्राड् वा चतुर्थोऽत्र पञ्चमो नोपपद्यते ॥३७॥
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राट् चापि मैत्रेय स नग्नः पापकृन्नरः ॥३८॥
नित्यानां कर्मणां विप्र तस्य हानिरहर्निशम् ।
अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने ॥३९॥
प्रायश्वित्तेन महता शुद्धिमाप्रोत्यनापदि ।
पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय मानवः ॥४०॥
संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते ।
तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा ॥४१॥
स्पृष्टे स्त्रानं सचैलस्य शुद्धेर्हेतुर्महामते ।
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥४२॥
देवर्षिपितृभूतानि यस्य निः श्वस्य वेश्मनि ।
प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥४३॥
सम्भाषणानुप्रश्नादि सहास्यां चैव कुर्वतः ।
जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥४४॥
देवादिनिः श्वासहतं शरीरं यस्य वेश्म च ।
न तेन सङ्करं कुर्याद् गृहासनपरिच्छदैः ॥४५॥
अथ भुङ्क्ते गृहे तस्य करोत्यास्मां तथासने ।
शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥४६॥
देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् ।
भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥४७॥
ब्राह्मणाद्यास्तु ये वर्णाः स्वधर्मादन्यतोमुखाः ।
यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थिताः ॥४८॥
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसङ्करः ।
तत्रास्या साधुवृत्तीनामुपघाताय जायते ॥४९॥
अनभ्यर्च्य ऋषीन् देवान् पितॄन् भूतातिथींस्तथा ।
यो भुङ्क्ते तस्य सँल्लापात् पतन्ति नरके नराः ॥५०॥
तस्मादेतान्नरो नग्नांस्त्रयीसन्त्यागदूषितान् ।
सर्वदा वर्जयेत् प्राज्ञ आलापस्पर्शनादिषु ॥५१॥
श्रद्धावद्भिः कृतं यत्नाद्देवान् पितृपितामहान् ।
न प्रीणयति तच्छ्राद्धं यद्योभिरवलोकितम् ॥५२॥
श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि ।
पत्नी च शैव्या तस्याभूदतिधर्मपरायणा ॥५३॥
पतिव्रता महाभागा सत्यशौचदयान्विता ।
सर्वलक्षणसम्पन्ना विनयेन नयेन च ॥५४॥
स तु राजा तया सार्द्धं देवदेवं जनार्दनम् ।
आराधयामास विभुं परमेण समाधिना ॥५५॥
होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः ।
पूजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥५६॥
एकदा तु समं स्नातौ तौ तु भार्यापती जले ।
भगीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।
पाषण्डिनमपश्येतामायान्तं सम्मुखं द्विज ॥५७॥
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः ।
अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥५८॥
न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता ।
उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च ॥५९॥
समागम्य यथान्यायं दम्पती तौ यथाविधि ।
विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम ॥६०॥
कालेन गच्छता राजा ममारासौ सपत्नजित् ।
अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥६१॥
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः ।
उपोषितेन पाषण्जसंल्लापी यत्कृतोऽभवत् ॥६२॥
सा तु जातिस्मरा जज्ञे काशीराजसुता शुभा ।
सर्वविज्ञानमम्पूर्णा सर्वलक्षणपूजिता ॥६३॥
तां पिता दातुकामोऽभूद् वराय विनिवारितः ।
तयैव तन्व्या विरतो विवाहारम्भतो नृपः ॥६४॥
ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् ।
विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥६५॥
तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तथा ।
ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥६६॥
भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् ।
स्वजातिललितं कुर्वन् बहु चाटु चकार वै ॥६७॥
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा ।
प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥६८॥
स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया ।
येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥६९॥
पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् ।
प्राप्तोऽसि कुत्सितां योनिं किं न स्मरसि तत्प्रभो ॥७०॥
श्रीपराशर उवाच
तयैवं स्मारिते तस्मिन् पूर्वजातिकृते तदा ।
दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम् ॥७१॥
निर्विण्णचित्तस्स ततो निर्गम्य नगराद्बहिः ।
मरुप्रपतनं कृत्वा शार्गालीं योनिमागतः ॥७२॥
सापि द्वितीये सम्प्राप्ते वीक्ष्य दित्येन चक्षुषा ।
ज्ञात्वा शृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥७३॥
तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिमागतम् ।
भर्त्तारमपि चार्वङ्गी तनया पृथिवीक्षितः ॥७४॥
अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया ।
प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥७५॥
पुनस्तयोक्तं स ज्ञात्वा सत्यं सत्यवतां वरः ।
कालेन स निराहारस्तत्याज स्वं कलेवरम् ॥७६॥
भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने ।
स्मारयामास भर्त्तारं पूर्ववृत्तमनिन्दिता ॥७७॥
न त्वं वृको महभाग राजा शतधनुर्भवान् ।
श्वा भूत्वा त्वं शृगालोऽभूर्वृकत्वं साम्प्रतं गतः ॥७८॥
स्मारितेन यदा त्यक्तस्तेनात्मा गृध्रतां गतः ।
अपापा सा पुनश्चैनं बोधयामास भाविनी ॥७९॥
नरेन्द्र स्मर्यतामात्मा ह्मलं ते गृध्रचेष्टया ।
पाषण्डालापजातोऽयं दोषो यद्गृध्रतां गतः ॥८०॥
ततः काकत्वमापन्नं समनन्तरजन्मति ।
उवाच तन्वी भर्त्तारमुपलभ्यात्मयोगतः ॥८१॥
अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः ।
स त्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो ॥८२॥
एवमेव च काकत्वे स्मारितस्य पुरातनम् ।
तत्याज भूपतिः प्राणान् मयूरत्वमवाप च ॥८३॥
मयूरत्वे ततस्सा वै चकारानुगतिं शुभा ।
दत्तैः प्रतिक्षणां भोज्यैर्बाला तज्जातिभोजनेः ॥८४॥
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् ।
चकार तस्यावभृथे स्नापयामास तं तदा ॥८५॥
सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् ।
यथासौ श्वशृगालादियोनिं जग्राह पार्थिवः ॥८६॥
स्मृतजन्मक्रमः सोऽथ तत्याज स्वकलेवरम् ।
जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः ॥८७॥
ततः सा पितरं तन्वी विवहार्थमचोदयत् ।
स चापि कारयामास तस्या राजा स्वयंवरम् ॥८८॥
स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः ।
वपरयामास भूयोऽपि भर्त्तृभावेन भामिनी ॥८९॥
बुभुजे च तया सार्द्धं सम्भोगान्नृपनन्दनः ।
पितर्युपरते राज्यं विदेहेषु चकार सः ॥९०॥
इयाज यज्ञान् सुबहून् ददौ दानानि चार्थिनाम् ।
पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥९१॥
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् ।
तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः ॥९२॥
ततश्चितास्थं तं भूयो भर्त्तारं सा शुभेक्षणा ।
अन्वारुरोह विधिवद् यथापूर्वं मुदान्विता ॥९३॥
ततोऽवाप तया सार्द्धं राजपुत्र्या स पार्थिवः ।
ऐन्द्रानतीत्य वै लोकाँल्लोकान् प्राप तदाक्षयान् ॥९४॥
स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् ।
प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥९५॥
एष पाषण्डसम्भाषाद्दोषः प्रोक्तो मया द्विज ।
तथाऽश्वमेधावभृथस्नानमाहात्म्यमेव च ॥९६॥
तस्मात् पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥९७॥
क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।
तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः ॥९८॥
किं पुनर्यैस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज ।
पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः ॥९९॥
सहालापस्तु संसर्गः सहास्या चातिपापिनी ।
पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्जयेत् ॥१००॥
पाषण्डिनो विकर्मस्थान् वैडालव्रतिकाञ्छठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥१०१॥
दूरतस्तैस्तु सम्पर्कः त्याज्यश्चाप्यतिपापिभिः ।
पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्जयेत् ॥१०२॥
एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः ।
येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति ॥१०३॥
एते पाषणिडनः पापा न ह्येतानालपेद् बुधः ।
पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम् ॥१०४॥
पुंसां जटाधरणमौण्ड्यवतां वृथैव
मोघाशिनामखिलशौचनिराकृतानाम् ।
तोयप्रदानपितृपिण्डबहिष्कृतानां
सम्भाषणादपि नरा नरकं प्रयान्ति ॥१०५॥
इति श्रीविष्णुमहापुराणे तृतीयांशे अष्टादशोऽध्यायः (१८)
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके
श्रीमति विष्णुमहापुराणे तृतीयोंऽशः समाप्तः ।